भाषा

ENहिગુ
ग्रंथ पाठ

वराह पुराण · अध्याय 151

151.1

अथ लोहार्गलमाहात्म्यम् ॥
सूत उवाच ॥
सानन्दूरस्य माहात्म्यमेतच्छ्रुत्वा वसुन्धरा ॥
कृताञ्जलिपुटा भूत्वा वराहं पुनरब्रवीत्

151.2

धरण्युवाच ॥
श्रुतमेतज्जगन्नाथ विष्णो गुह्यमनुत्तमम् ॥
यच्छ्रुत्वा सुमहाभाग जाताऽस्मि विगतज्वरा

151.3

अपरं वाऽस्ति चेत्किंचिद्गुह्यं क्षेत्रं शुभावहम् ॥
सानन्दूरात्परं गुह्यं क्षेत्रमस्ति न वा परम्

151.4

सुरकरण नृसिंह लोकनाथ युतससुरसुरधीर देववीर ॥
कमलदलसहस्रनेत्र रूपो जयति कृतान्तसमानकालरूपः

151.5

गद्गदं वचनं श्रुत्वा पृथिव्याः स जनार्दनः ॥
उवाच मधुरं वाक्यं सर्वलोकार्त्तिहा हरिः

151.6

श्रीवराह उवाच ॥
शृणु देवि च तत्त्वेन यन्मां त्वं परिपृच्छसि ॥
गुह्यमन्यत्प्रवक्ष्यामि मद्व्रतः कर्मणो जनिः

151.7

ततः सिद्धवटे गत्वा त्रिंशद्योजनदूरतः ॥
म्लेच्छमध्ये वरारोहे हिमवन्तं समाश्रितम्

151.8

तत्र लोहार्गले क्षेत्रे निवासो विहितः शुभः ॥
गुह्यं पंचदशायामं समन्तात्पञ्चयोजनम्

151.9

दुर्गमं दुःसहं चैव पापैः सर्वत्र वेष्टितम् ॥
सुलभं पुण्ययुक्तानां मम चिन्तानुसारिणाम्

151.151.10

तत्र तिष्ठाम्यहं भद्रे उदीचीं दिशमाश्रितः ॥
हिरण्यप्रतिमां कृत्वा जातरूपां न संशयः

151.11

ततो मे दानवाः सर्वे क्रमन्तो लोकमुत्तमम् ॥
मया चैवान्तरं कृत्वा कृत्वा मायां च वैष्णवीम्

151.12

तत्र ब्रह्मा च रुद्राश्च स्कन्देन्द्रो समुरुद्गणाः ॥
आदित्या वसवो वायुरश्विनौ च महौजसम्

151.13

सोमो बृहस्पतिश्चैव ये चान्ये वै दिवौकसः ॥
तेषां चैवार्गलं दत्त्वा चक्रं गृह्य महौजसम्

151.14

शतकोटिसहस्राणि शीघ्रमेव निपातितम् ॥
ततश्च देवताः सर्वास्तुष्यमाणा इतस्ततः

151.15

एवं लोहार्गलं नाम क्षेत्रं चैव मया कृतम् ॥
ततो देवासुरे युद्धे हत्वा त्रिदशकण्टकान्

151.16

तेषां संस्थापनं तत्र कृतं चैव महौजसाम् ॥
यो मां पश्यति तत्रस्थं प्रयत्नेन कदाचन

151.17

सोपि भागवतो भूमे भवत्येव सुनिष्ठितः ॥
तस्मिन्कुण्डे तु सुश्रोणि यः स्नाति नियतो नरः

151.18

उपोष्य च त्रिरात्रं तु विधिदृष्टेन कर्मणा ॥
ततः स्वर्गसहस्रेषु मोदते नात्र संशयः

151.19

अथात्र मुंचते प्राणान्स्वकर्मपरिनिष्ठितः ॥
सर्वान्स्वर्गान्परित्यज्य मम लोकं प्रपद्यते

151.151.20

अन्यच्च ते प्रवक्ष्यामि यत्र तत्परमाद्भुतम् ॥
लोकविस्मापनार्थाय मया तत्र च यत्कृतम्

151.21

चतुर्विंशतिद्वादश्यां मासेन विधिना मम ॥
बलिः प्रदीयते तत्र सर्वकामविशोधनः

151.22

अश्वो मे कल्पितस्तत्र सर्वरत्नविभूषितः ॥
श्वेतः कुमुदवर्णाभः शङ्खकुन्दसमप्रभः

151.23

मार्गणा मे धनुस्तत्र अक्षसूत्रं कमण्डलुः ॥
आसनं विततं दिव्यं दीयतेऽश्वोपरि स्थिरम्

151.24

श्वेतपर्वतमारुह्य पतमानः कुरून्बहून् ॥
पतितस्तत्र दृश्येत क्षतं तत्र न दृश्यते

151.25

अनेकान्येव रूपाणि पातयित्वा नभस्तलात् ॥
शान्तो दान्तः परिक्लिष्टः स चाश्वो दिवि वर्त्तते

151.26

सूत उवाच ॥
ततो भूम्या वचः श्रुत्वा ब्रह्मपुत्रो महामुनिः ॥
विस्मयं परमं प्राप्तो विष्णुमायोपबृंहितः

151.27

ततः स विस्मयाविष्टो ब्रह्मपुत्रो महामतिः ॥
सनत्कुमारो भगवान्पुनरेवमभाषत

151.28

सनत्कुमार उवाच ॥
धन्यासि देवि सुश्रोणि सुपुण्यासि वरानने ॥
देवि यल्लोकनाथस्य साक्षाद्दर्शनमागता

151.29

पद्मपत्रविशालाक्षो यत्त्वया परिभाषितः ॥
तेनोक्तं शंस सकलं सर्वेषां सुखवर्द्धनम्

151.151.30

यथा यथा वदसि च धर्मसंहितं गुह्यं परं देववरप्रणीतम् ॥
गुणोत्तमं कारणसम्प्रयुक्तं तथा तथा भावयसे मनो मम

151.31

ततः स पुण्डरीकाक्षः किमाचष्ट ततः परम् ॥
कर्मणा विधिदृष्टेन सर्वभागवतप्रियः

151.32

( सूतौवाच) ॥
तस्य तद्वचनं श्रुत्वा कुमारस्य महौजसः ॥
उवाच मधुरं वाक्यमाभाष्य ब्रह्मणः सुतम्

151.33

शृणु वत्स जगन्नाथो यथा मामाह चोदितः ॥
श्रीवराह उवाच ॥
एवं तत्रैव कर्माणि क्रियन्ते विधिपूर्वकम्

151.34

शोधकानि च पापानां मृदूनि च शुभानि च ॥
अश्वानां तत्कुलीनानामावहन्ति सुमध्यमे

151.35

नान्यं वहन्ति ते चाश्वा मम वाहा दुरत्ययाः॥
कुण्डं पंचसरो नाम गुह्यं क्षेत्रं परं मम

151.36

चतुर्धाराः पतन्त्यत्र शङ्खवर्णा मनोजवाः ॥
तत्र स्नानं तु कुर्वीत चतुर्भक्तोषितो नरः

151.37

लोकं चैत्राङ्गदं गत्वा गन्धर्वैः सह मोदते ॥
अथ चेन्मुञ्चते प्राणांस्तस्मिन्क्षेत्रे परे मम

151.38

गन्धर्वलोकमुत्सृज्य मम लोकं स गच्छति ॥
ततो नारदकुण्डे तु मम क्षेत्रे परे महत्

151.39

पंच धाराः पतन्त्यत्र तालवृक्षसमोपमाः ॥
तत्र स्नानं तु कुर्वीत एकभक्तोषितो नरः

151.151.40

देवर्षिनारदं पश्येन्मोदते तेन वै समम् ॥
अथात्र मुंचते प्राणान्मम गुह्यविनिश्चितः

151.41

प्रमुच्य नारदं द्विव्यं ममलोकं च गच्छति ॥
ततो वसिष्ठकुण्डं तु तस्मिन्क्षेत्रं परं मम

151.42

धाराः पतन्ति तिस्रस्तु न स्थूला नाति वै कृशाः ॥
तत्राभिषेकं कुर्वीत पंच कालोषितो नरः

151.44

वासिष्ठं लोकमासाद्य मोदते नात्र संशयः ॥
अथात्र मुंचते प्राणान्मम कर्मसु निष्ठितः॥।४३
वासिष्ठं लोकमुत्सृज्य मम लोकं प्रपद्यते ॥
पंचकुण्डेति विख्यातं तस्मिन्क्षेत्रे परं मम

151.45

पंच धाराः पतन्त्यत्र हिमकूटविनिःसृताः ॥
तत्राभिषेकं कुर्वीत पंचकालोषितो नरः

151.46

स तत्र गच्छेद्वै भूमे यत्र पंचशिखो मुनिः ॥
अथात्र मुंचते प्राणान्मम भक्तो जितेन्द्रियः

151.47

पंचचूडं समुत्सृज्य स याति परमां गतिम् ॥
सप्तर्षिकुण्डं विख्यातमस्मिन्क्षेत्रे परं मम

151.48

सप्त धाराः पतन्त्यत्र हिमवत्पर्वतस्थिताः ॥
तत्राभिषेकं कुर्वीत सप्तभक्तोषितो नरः

151.49

मोदते ऋषिलोकेषु ऋषिकन्याभिसंवृतः ॥
अथात्र मुंचते प्राणान्रागलोभविवर्जितः

151.151.50

सप्तर्षीन्स समुत्सृज्य मोदते मम संस्थितः ॥
शरभङ्गस्य कुण्डं वै क्षेत्रे गुह्यं परे मम

151.51

तत्र धारा पतत्येका शरभङ्गश्रिता नदी ॥
स्नानं यस्तत्र कुर्वीत षष्ठभक्तोषितो नरः

151.52

मोदते तस्य लोकेषु ऋषिकन्याप्रमोदितः ॥
अथात्र मुंचते प्राणान्सर्वसङ्गविवज्जितः

151.53

शरभङ्गं समुत्सृज्य मम लोके महीयते ॥
कुण्डमग्निसरो नाम सर्वमायाभिसंवृतम्

151.54

भूमिं नीत्वा जलं तत्र तिष्ठत्येव वरानने ॥
तत्र स्नानं प्रकुर्वीत चाष्टकालोषितो नरः

151.55

गच्छत्यङ्गिरसो लोकं सुखभागी न संशयः ॥
अथात्र मुंचते प्राणान्मम कर्मपरायणः

151.56

अग्निलोकं समुत्सृज्य मम लोकं स गच्छति ॥
कुण्डं बृहस्पतेर्भूमे सर्ववेदोदकाश्रितम्

151.57

धारा चैका पतत्यत्र हिमकूटसमाश्रिता ॥
तत्र स्नानं प्रकुर्वीत षष्ठकालोषितो नरः

151.58

गत्वा बृहस्पतेर्लोकं मुनिकन्याभिमोदितः ॥
अथात्र मुंचते प्राणान्मम लोकं समाश्रितः

151.59

सोऽपि याति परां सिद्धिं समुत्सृज्य बृहस्पतिम् ॥
वैश्वानरस्य कुण्डं तु गुह्यं क्षेत्रं परं मम्

151.151.60

धारा चैका पतत्यत्र दृश्यते हिमसंश्रयात् ॥
तत्राभिषेकं कुर्वीत षष्ठभक्तोषितो नरः

151.61

गत्वा बृहस्पतेर्लोकं मुनिकन्याभिमोहितः ॥
वैश्वानरेषु लोकेषु मोदते नाऽत्र संशयः

151.62

अथात्र मुंचते प्राणान्मम कर्मपरायणः ॥
वैश्वानरं समुत्सृज्य मम लोकं स गच्छति

151.63

कार्त्तिकेयस्य कुण्डं तु गुह्यं क्षेत्रं परं मम ॥
यत्र पंचदशा धाराः पतन्ति हिमपर्वतात्

151.64

तत्र स्नानं प्रकुर्वीत षष्ठकालोषितो नरः ॥
कुमारं पश्यति व्यक्तं षण्मुखं शुभदर्शनम्

151.65

अथात्र मुंचते प्राणान्कृत्वा चान्द्रायणं शुचिः ॥
कार्त्तिकेयं समुत्सृज्य मोदते मम मण्डले

151.66

उमाकुण्डमिति ख्यातं तस्मिन्क्षेत्रे परं मम ॥
सा गौरी यत्र चोत्पन्ना महादेववराङ्गना

151.67

तत्र स्नानं तु कुर्वीत दशरात्रोषितो नरः ॥
गौरीं देवीं स पश्येत्तु तस्या लोके च मोदते

151.68

अथ प्राणान्प्रमुंचेत दशरात्रोषितो नरः ॥
उमालोकं समुत्सृज्य मम लोकं प्रपद्यते

151.69

महेश्वरस्य वै कुण्डं यत्र चोद्वाहिता उमा ॥
कादम्बैश्चक्रवाकैश्च हंससारससेवितम्

151.151.70

तिस्रो धाराः पतन्त्यत्र हिमवत्पर्वताश्रिताः ॥
स्थूलाश्च रमणीयाश्च न ह्रस्वाश्चातिनिर्मलाः

151.71

तत्र स्नानं तु कुर्वीत द्वादशाहोषितो नरः ॥
मोदते रुद्रलोकेषु रुद्रकन्याभिरावृतः

151.72

अथात्र मुञ्चते प्राणान्कृत्वा कर्म सुदुष्करम् ॥
रुद्रलोकं समुत्सृज्य मम लोकं च गच्छति

151.73

प्रख्यातं ब्रह्मकुण्डं तु वेदा यत्र समुत्थिताः ॥
चतस्रो वेद धारास्तु पतन्ति च हिमालयात्

151.74

ततः पूर्वेण पार्श्वेन समा धारा पतेच्छुभा ॥
उच्चा च रमणीया च पाण्डरोदकशोभिता

151.79

पुनरस्योत्तरे पार्श्वे सुवर्णसदृशोपमा ॥
ऋग्वेदः पतते धारा प्रसन्ना विमलोदका

151.76

अथ पश्चिमपार्श्वेन यजुर्वेदेन संयुता ॥
अथ दक्षिणपार्श्वेन चाथर्वणसमन्विता

151.77

एका धारा पतत्यत्र इन्द्रगोपकसन्निभा ॥
यस्तत्र कुरुते स्नानं सप्तरात्रोषितो नरः

151.78

ब्रह्मलोकं समासाद्य ब्रह्मणा सह मोदते ॥
अथात्र मुञ्चते प्राणानहङ्कारविवर्जितः

151.79

ब्रह्मलोकं परित्यज्य मम लोकं प्रपद्यते ॥
गुह्याख्याने महाभागे क्षेत्रे लोहार्गले मम

151.151.80

सिद्धिकामेन मर्त्येन गन्तव्यं नात्र संशयः ॥
समन्तात्पञ्चविंशति योजनानि वरानने

151.81

न तस्य कर्म विद्येत स एवमपि संस्थितः ॥
आख्यानानां महाख्यानं धर्माणां धर्म उत्तमः

151.82

पवित्राणां पवित्रं तु न देयं यस्य कस्यचित् ॥
ये पठंति महाभागे स्थिताः शृण्वन्ति मत्पथे

151.83

तारितानि कुलानि स्युरुभयत्र दशापि च ॥
एतन्मरणकाले तु न कदाचित्तु विस्मरेत्

151.84

यदीच्छेत्परमां सिद्धिं सर्वसंसारमोक्षणीम् ॥
एतत्ते कथितं भद्रे लोहार्गलमनुत्तमम्

151.85

माहात्म्यं पद्मपत्राक्षि गुह्यं यच्च महौजसम् ॥
मङ्गल्यं च पवित्रं च मम भक्त सुखावहम्

151.151

इति श्रीवराहपुराणे भगवच्छास्त्रे लोहार्गलमाहात्म्यं नामैकपंचाशदधिकशततमोऽध्यायः

मूल पाठ: varāhapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc