भाषा

ENहिગુ
ग्रंथ पाठ

वराह पुराण · अध्याय 142

142.1

अथ गुह्यकर्ममाहात्म्यम् ॥
सूत उवाच ॥
ततो देववचः श्रुत्वा धर्मकामा वसुन्धरा ॥
कृताञ्जलिपुटा भूत्वा प्रसादयति माधवम्

142.2

धरण्युवाच ॥
दास्यां मे प्रणयं कृत्वा विज्ञाप्यं शृणु माधव ॥
मृदुना च स्वभावेन वक्ष्यामि त्वां जनार्दन

142.3

अल्पप्राणबला नार्यो यत्त्वया परिभाषितम् ॥
अशक्ताः सहितुं ह्येताः क्षुधात्वनशनेऽबलाः

142.4

भुञ्जमाना नरा ह्यत्र रजसा यांति शं परम् ॥
अन्नं ह्यनुग्रहं देव येन ते कर्म संश्रिताः

142.5

तस्यास्तद्वचनं श्रुत्वा माधव्याः स तु माधवः ॥
प्रहस्य भावशुद्धात्मा तत एवमभाषत

142.6

श्रीवराह उवाच ॥
साधु देवि वरारोहे मम कर्मव्यवस्थिते ॥
पृष्टोऽहं परमं गुह्यं मम भक्तसुखावहम्

142.7

स्पृष्टा या रजसा देवि मम कर्मपरायणा ॥
मां संस्पृशन्तु तत्रस्थं यत्र तिष्ठामि सुन्दरि

142.8

यदि भावस्तदा कश्चिद्भोजने कायसाधने ॥
चित्तं न्यस्य मयि क्षोणि भोक्तव्यं च न संशयः

142.9

न सा लिप्यति दोषेण भुञ्जमाना रजस्वला॥
अञ्जलिं शिरसा कृत्वा मयोक्तं मन्त्रमुत्तमम्

142.142.10

( अनादिमध्यान्तमजं पुराणं रजस्वला देववरं नमामि ॥)
तत एतेन मन्त्रेण भुक्त्वा देवि रजस्वला ॥
करोति यानि कर्माणि न तैर्दुष्येत कर्हिचित्

142.11

स्नात्वा सा तु महाभागे पंचमात्तु दिनात्पुनः

142.12

यथार्हं कुरुते कर्म मच्चित्ता मत्परायणा ॥
प्राप्नुयात्पुरुषत्वं च न्यस्तसंसारचिन्तनात्

142.13

धरण्युवाच ॥
पुरुषा वा स्त्रियो वापि न पुमांसो न वा स्त्रियः ॥
कथं दोषेण मुच्यन्ते जन्मसंसारबन्धनात्

142.14

श्रीवराह उवाच ॥
इन्द्रियाणि निगृह्याथ चित्तमप्यनुवेश्य च ॥
मयि संन्यासयोगेन मम कर्मपरायणः

142.15

मम योगेषु संन्यासमेकचित्तो दृढव्रतः ॥
एवं कुर्वन्महाभागे स्त्रियो वा पुन्नपुंसकम्

142.16

ज्ञानसंन्यासयोगं वा यदीच्छेत्परमां गतिम् ॥
अन्यच्च ते प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे

142.17

मनो बुद्धिश्च चित्तं च ते ह्यनीशाः शरीरिणाम् ॥
एकचित्तं मनः कृत्वा ज्ञानेन पृधुलोचने

142.18

समचित्तं प्रपद्यन्ते न ते लिप्यन्ति मानवाः ॥
सर्वभक्ष्याणि भक्षन्तः पेयापेयांस्तथैव च

142.19

समं चित्तं मयि यदि तदा तस्य न च क्रिया ॥
चित्तं मनश्च बुद्धिश्च मत्संस्थं च समं यदि

142.142.20

यत्किंचित्कुर्वतः कर्म पद्मपत्रमिवांभसि ॥
संयोगान्न च लिप्येत समत्वादेव नान्यथा

142.21

रात्रिन्दिवं मुहूर्तं वा क्षणं वा यदि वा कला॥
निमेषं वा त्रुटिं वाथ देवि चित्तं समं कुरु

142.22

सदा दिवानिशोश्चैव कुर्वन्तः कर्मसङ्करम् ॥
तेऽपि यान्ति परां सिद्धिं यदि चित्तं व्यवस्थितम्

142.23

जाग्रतः स्वपतो वापि शृण्वतः पश्यतोऽपि वा ॥
यो मां चित्ते चिंतयति मच्चिन्तस्य च किं भयम्

142.24

दुर्वृत्तमपि चाण्डालं ब्राह्मणं चाऽपथि स्थितम् ॥
तं तु देवि प्रशंसामि नान्यचित्तं कदाचन

142.25

यजन्तः सर्वधर्मज्ञा ज्ञानसंस्कारसंस्कृताः ॥
मयि चित्तं समाधाय मम कर्मपरायणाः

142.26

ये मत्कर्माणि कुर्वन्ति मया हृदि समाश्रिताः ॥
सुखं निद्रां समाधाय स्वपन्तः कर्मसंस्थिताः

142.27

येषां प्रशांतं चित्तं वै तेऽपि देवि मम प्रियाः ॥
सर्वमात्मनि कर्म स्वं शुभं वा यदि वाऽशुभम्

142.28

प्राप्नुवन्ति च दुःखानि भ्रमच्चित्ता नराधमाः ॥
चित्तं नाशो हि लोकस्य चित्तं मोक्षस्य कारणम्

142.29

।
तस्माच्चित्तं समादाय मां प्रपद्यस्व मेदिनि ॥
न्यस्य ज्ञानं च योगं च एकचित्ता भजस्व माम्

142.142.30

मच्चित्तः सततं यो मां भजेत नियतव्रतः ॥
मत्पार्श्वं प्राप्य परमं मद्भावायोपपद्यते

142.31

मया चैव पुरा सृष्टं प्रजार्थेन वसुन्धरे ॥
मासे मासे तु गन्तव्यमृतुकाले व्यवस्थितम्

142.32

एकचित्तं समादाय यदीच्छेत्तु मम प्रियम् ॥
न गच्छेद्यदि मासे तु ऋतुकालव्यवस्थितम्

142.33

पितरस्तस्य हन्यन्ते दश पूर्वा दशापराः ॥
न तत्र कामलोभेन मोहेन च वसुन्धरे

142.34

त्यक्त्वानङ्गं च मोहं च पित्रर्थाय स्त्रियं व्रजेत् ॥
द्वितीयां न स्पृशेन्नारीं लोभमोहात्कथंचन

142.35

न संस्पृशेत्तृतीयां तु चतुर्थी न कदाचन ॥
कृते संभोगधर्मे तु कृतकौतुकसंस्थितः

142.33

शयने न स्त्रियं पश्येद्यदीच्छेच्छुद्धिमुत्तमाम् ॥
कौतुके कृतकृत्ये तु मम कर्मपरायणः

142.37

जलस्नानं ततः कुर्यादन्यवस्त्रपरिग्रहम् ॥
अपूर्णे ऋतुकाले तु योऽभिगच्छेद्रजस्वलाम्

142.38

रेतःपाः पितरस्तस्य एवमेतन्न संशयः ॥
एकां तु पुरुषो याति द्वितीयां काममोहितः

142.39

तृतीयां वा चतुर्थीं वा तदा स पुरुषोऽधमः ॥
सर्वस्यैव तु लोकस्य समयोऽयं हि मत्कृतः

142.142.40

ऋतुकाले तु सर्वासां पित्रर्थं भोग इष्यते ॥
ऋतुकालाभिगामी यो ब्रह्मचार्येव संमतः

142.41

न गच्छति च यः क्रोधान्मोहाद्वा पुरुषाधमः ॥
ऋतौ ऋतौ भ्रूणहत्यां प्राप्नोति पुरुषश्चरन्

142.42

अन्यच्च ते प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे॥
ज्ञानं तु चित्तयोगस्य कर्मयोगस्य यत्क्रिया

142.43

कर्मणा यान्ति मत्स्थानं यान्ति मद्गाननिष्ठिताः ॥
यान्ति योगविदः स्थानं नास्ति चान्या परा गतिः

142.44

ज्ञानं योगं च सांख्यं च नास्ति चित्तव्यपाश्रितम् ॥
लभन्ते पुष्कलां सिद्धिं मम मार्गानुसारिणः

142.49

यस्तु भागवतो भूत्वा ऋतुकाले व्यवस्थितः ॥
वायुभक्षस्ततस्तिष्ठेद्भूमे त्रीणि दिनानि च

142.46

अथ तत्र चतुर्थे तु दिने प्राप्ते वसुन्धरे ॥
कृत्वा वै सिद्धिकर्म्माणि न गच्छत्यपराणि च

142.47

ततः स्नानेन कुर्वीत शिरसो मलशोधनम् ॥
शुक्लांबरधरो भूत्वा चित्तं कृत्वा समाहितम्

142.48

ततो बुद्धिं मनश्चैव समं कृत्वा वसुन्धरे ॥
पश्चात्कुर्वन्ति कर्माणि सदा ते मे हृदि स्थिताः

142.49

मम प्रापणकं कृत्वा ततः कुर्वन्ति भोजनम् ॥
अञ्जलिं शिरसा कृत्वा मयोक्तं कर्म सस्मितम्

142.142.50

तत्र मन्त्रः –
आदिर्भवान्गुप्तमनन्तमध्यो रजस्वला देव वयं नमामः ॥
उपोषितास्त्रीणि दिनानि चैवं मुक्तौ रतं वासुदेवं नमामः

142.51

तत एतेन मन्त्रेण शुद्धा भूमे रजस्वलाः ॥
ये तु कुर्वन्ति कर्माणि स्नातास्नातानि भागशः

142.52

एवं दुष्यति नो देवि नारी वा पुरुषोऽपि वा ॥
कुर्वन्ति मम कर्माणि ते यथावन्मम प्रियाः

142.53

सर्वाण्यनुदिनं भद्रे मम चित्तानुसारिणः ॥
प्राप्नुयात्पुरुषः स्त्री वा रजसा दूषिता अपि

142.54

एकचित्तस्ततो भूत्वा भूमे चेन्द्रियनिग्रहात् ॥
मम योगेष्टसंन्यासं यदीच्छेत्परमां गतिम्

142.55

एवं कुर्वन्ति ये नित्यं स्त्रियः पुंसो नपुंसकम् ॥
ज्ञाने सत्यप्ययोगानां मम कर्मसु कर्मणाम्

142.56

अद्यापि मां न जानन्ति नराः संसारसंश्रिताः ॥
ते वै भूमे विजानन्ति ये तद्भक्त्या व्यवस्थिताः

142.57

मातापितृसहस्राणि पुत्रदारशतानि च ॥
चक्रवत्परिवर्तन्ते यन्मोहान्मां न जानते

142.58

अज्ञानेनावृतो लोको मोहेन च वशीकृतः ॥
सङ्गैश्च बहुभिर्बद्धस्तेन चित्तं न संन्यसेत्

142.59

गच्छत्यन्यत्र माता वै पिता चान्यत्र गच्छति ॥
पुत्राश्चान्यत्र गच्छन्ति दासश्चान्यत्र गच्छति

142.142.60

जायन्ते चात्मनः स्थाने स्वस्वकर्मसमुद्भवे ॥
ज्ञानमूढा वरारोहे नराः संसारमोहिताः

142.61

अल्पकालपरं चैव माससंवत्सरेति च ॥
भविष्यन्ति पुनः कृत्वा न मे मूर्त्या सहासते

142.62

यस्यैतद्विदितं सर्वं न्यासयोगं वसुन्धरे ॥
योगे न्यस्य सदात्मानं मुच्यते न च संशयः

142.63

य एतच्छृणुयान्नित्यं कल्यमुत्थाय मानवः ॥
पुष्कलां लभते सिद्धिं मम लोकं च गच्छति

142.64

एतत्ते कथितं भद्रे रहस्यं परमं महत्॥
त्वया पृष्टं च यद्देवि मम भक्तसुखावहम्

142.142

इति श्रीवराहपुराणे भगवच्छास्त्रे गुह्यकर्ममाहात्म्यवर्णनं नाम द्वाचत्वारिंशदधिकशततमोऽध्यायः

मूल पाठ: varāhapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc