भाषा

ENहिગુ
ग्रंथ पाठ

वराह पुराण · अध्याय 133

133.1

अथ पूजासामयिकगुदरवपुरीषोत्सर्जनयोः प्रायश्चित्तम् ॥
श्रीवराह उवाच ॥
स्पृशमानेन मां भूमे वातकर्म प्रमुच्यते ॥
एवञ्च पुरुषो युक्तो वायुपीडितमानसः

133.2

मक्षिका पञ्च वर्षाणि त्रीणि वर्षाणि मूषकः ॥
श्वा चैव त्रीणि वर्षाणि कूर्मो वै जायते नव

133.3

एष वै तापनं देवि मोहनं मम सांप्रतम् ॥
यो वै शास्त्रं विजानाति मम कर्मपरायणः

133.4

श्रुत्वा वाक्यं हृषीकेशं प्रत्युवाच वसुन्धरा ॥
धरण्युवाच ॥
अतुलं लभते पापं तव कर्मपरायणः

133.5

तस्य देव सुखार्थाय विशुद्धिं वक्तुमर्हसि ॥
श्रीवराह उवाच ॥
शृणु कार्त्स्न्येन मे देवि कथ्यमानं मयाऽनघे

133.6

अपराधमिमं कृत्वा सन्तरेद्येन कर्मणा ॥
पावकेन दिनं त्रीणि नक्तानि च पुनस्त्रयः

133.7

कर्म चैवं ततः कृत्वा स च मे नापराध्यति ॥
सर्वसङ्गं परित्यज्य मम लोकं स गच्छति

133.8

एतत्ते कथितं भद्रे महाकर्मापराधिनः ॥
दोषं चैव गुणं चैव यत्त्वया परिपृच्छितम्

133.9

शृणु तत्त्वेन मे भूमे कथ्यमानं मयाऽनघे ॥
पुरीषं मुच्यते यस्तु मम कर्म समाचरन्

133.133.10

दिव्यवर्षसहस्रं तु रौरवे नरके वसेत् ॥
पुरीषं भक्षयेत्तत्र मम कर्मपरायणः

133.11

प्रायश्चित्तं वदाम्यत्र येन मुच्येत किल्बिषात् ॥
मम कर्मपरिभ्रष्टो विह्वलेनान्तरात्मना

133.12

एकां जलमयीं शय्यामेकामाकाशशायिनीम् ॥
एवं कृत्वा विधानं तु सोऽपराधात्प्रमुच्यते

133.13

एतत्ते कथितं भद्रे पुरीषं यः समुत्सृजेत् ॥
मद्भक्तेषु विशालाक्षि अपराधविनिश्चयः

133.133

इति श्रीवराहपुराणे पूजासमये गुदरवपुरीषोत्सर्गयोः प्रायश्चित्तं नाम त्रयस्त्रिंशदधिकशततमोऽध्यायः

मूल पाठ: varāhapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc