भाषा

ENहिગુ
ग्रंथ पाठ

वराह पुराण · अध्याय 120

120.1

अथ त्रिसन्ध्यामन्त्रोपस्थानम् ॥
श्रीवराह उवाच ॥
शृणुष्व परमं गुह्यं पूर्वं पृष्टं त्वया धरे ॥
देवि सर्वं प्रवक्ष्यामि संसारतरणं महत्

120.2

स्नानं कृत्वा यथान्यायं मम कर्मपरायणाः॥
उपसर्पन्ति ये भक्त्या कदन्नाशा जितेन्द्रियाः

120.3

यश्चैवमुच्यते भद्रे मम रूपं सनातनम् ॥
अहमेव वरारोहे सर्वभूतसनातनम्

120.4

अधश्चोर्ध्वं च तिर्यक् च अहमेव व्यवस्थितः ॥
दिशां च विदिशां चैव उपर्युपरि भामिनि

120.5

सर्वथा वन्दनीयास्ते मम भक्तेन सर्वदा ॥
क्रियासमूह युक्तेन यदीच्छेत्परमां गतिम्

120.6

अन्यच्च ते प्रवक्ष्यामि गुह्यं लोके महद्यशः ॥
यथा वै वन्दनीयास्ते मम मार्गानुसारिणः

120.7

कृत्वापि परमं कर्म बुद्धिमादाय तद्विधाम् ॥
ततः पूर्वमुखो भूत्वा पुनर्गृह्य जलाञ्जलिम्

120.8

ओं नमो नारायणेत्युक्त्वा इमं मन्त्रमुदीरयेत्

120.9

यजामहे धर्मपरायणोद्भवं नारायणं सर्वलोकप्रधानम् ॥
ईशानमाद्यं पुरुषं पुराणं संसारमोक्षाय कृपाकरं तम्

120.11

ततः पश्चान्मुखो भूत्वा पुनर्गृह्य जलांजलिम् ॥
द्वादशाक्षरमुच्चार्य इमं मन्त्रमुदीरयेत् । 120.१० ॥
मन्त्रा ऊचुः ॥
यथा तु देवः प्रथमादिकर्त्ता पुराण कल्पश्च यथा विभूतिः ॥
तथा स्थितं चादिमनन्तरूपममोघसंकल्पमनन्तमीडे

120.12

ततस्तेनैव कालेन पुनर्गृह्य जलांजलिम् ॥
तेनैव चास्य योगेन भूत्वा चैवोत्तरामुखः ॥
नमो नारायणेत्युक्त्वा इमं मंत्रमुदीरयेत्

120.14

यजामहे दिव्यं परं पुराणमनादिमध्यान्तमनन्तरूपम् ॥
भवोद्भवं विश्वकरं प्रशान्तं संसारमोक्षावहमद्वितीयम् ॥ १ ३॥
ततस्तेनैव कालेन भूत्वा वै दक्षिणामुखः ॥
नमः पुरुषोत्तमायेत्युक्त्वा इमं मन्त्रमुदीरयेत्

120.15

यजामहे यज्ञमहो रूपं तु सत्यं ऋतं च कालादिमरूपमाद्यम्॥
अनन्यरूपं च महानुभावं संसारमाक्षोय कृतावतारम्

120.16

काष्ठकृत्यस्ततो भूत्वा कृत्वा चेन्द्रियनिग्रहम्॥
अच्युते तु मनः कृत्वा इमं मंत्रमुदाहरेत्

120.17

यजामहे सोमपं भवन्तं ते सोमार्कनेत्रं शतपत्रनेत्रम्॥
जगत्प्रधानं ननु लोकनाथं मृत्युत्रिसंसारविमोक्षणं च

120.18

त्रिषु सन्ध्यास्वनेनैव विधिना कुर्यान्मम च कर्म तत्॥
बुद्ध्या युक्त्या च मत्या च यदीच्छेत्परमां गतिम्

120.19

गुह्यानां परमं गुह्यं योगानां परमो निधिः ॥
सांख्यानां परमं सांख्यं कर्मणां कर्म चोत्तमम्

120.120.20

एतन्न दद्यान्मूर्खाय पिशुनाय शठाय च ॥
दीक्षितायैव दातव्यं सुशिष्याय दृढाय च

120.21

एतन्मरणकालेऽपि गुह्यं विष्णुप्रभाषितम् ॥
बुद्ध्या धारयितव्यं न विस्मर्त्तव्यं कदाचन

120.22

य एतत्पठते नित्यं कल्पोच्छ्रायी दृढव्रतः ॥
ममापि हृदये नित्यं स तिष्ठति न संशयः

120.23

य एतेन विधानेन त्रिसन्ध्यं कर्म कारयेत् ॥
तिर्यग्योनिविनिर्मुक्तो मम लोकं स गच्छति

120.120

इति श्रीवराहपुराणे भगवच्छास्त्रे त्रिसन्ध्यामन्त्रोपस्थानकरणं नाम विंशत्यधिकशततमोऽध्यायः

मूल पाठ: varāhapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc