भाषा

ENहिગુ
ग्रंथ पाठ

वराह पुराण · अध्याय 103

103.1

त्र्यधिकशततमोऽध्यायः
होतोवाच
तद्वच्च शर्कराधेनुं शृणु राजन् यथार्थतः ।
अनुलिप्ते महीपृष्ठे कृष्णाजिनकुशोत्तरे

103.2

धेनुं शर्करया राजन्कृत्वा भारचतुष्टयम् ।
उत्तमा कथ्यते सद्भिश्चतुर्थांशेन वत्सकम्

103.3

तदर्धं मध्यमा प्रोक्ता कनिष्ठा भारकेण तु ।
तद्वद्वत्सं प्रकुर्वीत चतुर्थांशेन तत्त्वतः

103.4

अथ कुर्यादष्टशतैरूर्ध्वं नृपतिसत्तम ।
स्वशक्त्या कारयेद्‌धेनुं तथात्मानं पीडयेत्

103.5

सर्वबीजानि संस्थाप्य चतुर्दिक्षु समन्ततः ।
सुवर्णस्य मुखं शृङ्गे मौक्तिकैर्नयने तथा

103.6

गुडेन तु मुख काये जिह्वा पिष्टमयी तथा ।
कम्बलं पट्टसूत्रेण कण्ठाभरणभूषिताम्

103.7

इक्षुपादां रौप्यखुरां तवनीतस्तनीं तथा ।
प्रशस्तपत्रश्रवणां सितचामरपभूषिताम्

103.8

पञ्चरत्नसमायुक्तां वस्त्रेणाच्छादितां तथा ।
गन्धपुष्पैरलंकृत्य ब्राह्मणाय निवेदयेत्

103.9

श्रोत्रियाय दरिद्राय साधुवृत्ताय धीमते ।
वेदवेदाङ्‌गविदुषे साग्निकाय कुटुम्बिने ।
अदुष्टाय प्रदातव्या न तु मत्सरिणे द्विजे

103.10

अयने विषुवे पुण्ये व्यतीपाते दिनक्षये ।
एषु पुण्येषु कालेषु थथाविभवशक्तितः

103.11

सत्पात्रञ्च द्विजं दृष्ट्‍वा आगतं श्रोत्रियं गृहे ।
तादृशाय प्रदातव्या पुच्छदेशे विमृष्य च

103.12

पूर्वाभिमुखमास्थाय अथवा स उदङ्मुखः ।
गां पूर्वाभिमुखीं कृत्वा वत्समुत्तरतो न्यसेत्

103.13

दानकाले तु ये मन्त्रास्तान्पठित्वा समर्पयेत् ।
सम्पूज्य विधिवद्विप्रं मुद्रिकाकर्णभूषणैः

103.14

स्वशक्त्या दक्षिणा देया वित्तशाठ्यविवर्ज्जितः ।
हस्ते तु दक्षिणां दत्त्वा गन्धपुष्पसचन्दनाम् ।
धेनुं समर्पयेत्तस्य मुखञ्च च विलोकयेत्

103.15

एकाहं शर्कराहारो ब्राह्मणस्त्रिदिनं वसेत् ।
सर्वपापहरा धेनुः सर्वकामप्रदायिनी

103.16

सर्वकामसमृद्धस्तु जायते नात्र संशयः ।
दीयमानं प्रपश्यन्ति ते यान्ति परमां गतिम्

103.17

य इदं शृणुयाद् भक्त्या पठते वापि मानवः ।
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति

इति वाराहपुराणे शर्कराधेनुमाहात्म्यं
नाम त्र्यधिकशततमोऽध्यायः ।

मूल पाठ: varāhapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc