भाषा

ENहिગુ
ग्रंथ पाठ

वराह पुराण · अध्याय 100

100.1

अथ जलधेनुदान विधिः ॥
होतोवाच ॥
जलधेनुं प्रवक्ष्यामि पुण्येऽह्नि विधिपूर्वकम् ॥
गोचर्म्ममात्रं भूभागं गोमयेनोपलेपयेत्

100.2

तत्र मध्ये तु राजेन्द्र पूर्णं कुम्भं च विन्यसेत् ॥
जलपूर्णं सुगन्धाढ्यं कर्पूरागुरुचन्दनैः

100.3

वासितं गन्धतोयेन तां धेनुं परिकल्पयेत् ॥
वत्सं तथापरं कल्प्य जलेन परिपूरितम्

100.4

वर्द्धनीकं(वर्द्धनकिं) महाराज यन्त्रपुष्पैः समन्वितम् ॥
दूर्वांकुरैरुपस्तीर्य स्रग्भिश्चैव विभूषितम्

100.5

पंचरत्नानि निःक्षिप्य तस्मिन् कुम्भे नराधिप ॥
मांसीमुशीरं कुष्ठं च तथा शैलेयबालुकम्

100.6

धात्रीफलं सर्षपाश्च सर्वधान्यानि पार्थिव ॥
चतुर्दिक्ष्वपि पात्राणि चत्वार्येव प्रकल्पयेत्

100.7

एकं घृतमयं पात्रं द्वितीयं दधिपूरितम् ॥
तृतीयं मधुनश्चैव चतुर्थं शर्करावृतम्

100.8

सुवर्णमुखचक्षूंषि शृंगं कृष्णांगरेषु च ॥
प्रशस्तपत्रश्रवणां मुक्ताफलमयेक्षणाम्

100.9

ताम्रपृष्ठां कांस्यदोहां दर्भरोमसमन्विताम् ॥
पुच्छं सूत्रमयं कृत्वा कृष्णाभरण घण्टिकाम्

100.100.10

कम्बले पुष्पमालां च गुडास्यां शुक्तिदन्तिकाम् ॥
जिह्वां शर्करया कृत्वा नवनीतेन च स्तनान्

100.11

इक्षुपादां तु राजेन्द्र गन्धपुष्पोपशोभिताम् ॥
कृष्णाजिनोपरि स्थाप्य वस्त्रेणाच्छादितां तु ताम्

100.12

गन्धपुष्पैः समभ्यर्च्य विप्राय विनिवेदयेत् ॥
एवं धेनुं तदा दत्त्वा ब्राह्मणे वेदपारगे

100.13

साधुविप्राय राजेन्द्र श्रोत्रियायाहिताग्नये ॥
तपोवृद्धाय पात्राय दातव्या च कुटुम्बिने

100.14

यो ददाति नरो राजन् यः पश्यति शृणोति च ॥
प्रतिगृह्णाति यो विप्रः सर्वे मुच्यन्ति पातकात्

100.15

ब्रह्महा पितृहा गोघ्नः सुरापो गुरुतल्पगः ॥
मुक्ताः सर्वपापैस्तु गन्तारो विष्णुमंदिरे

100.16

विमुक्तः सर्वपापैस्तु विष्णुलोकं स गच्छति ॥
योऽश्वमेधेन यजते समाप्तवरदक्षिणः

100.17

जलधेनुं च यो दद्यात्सममेतन्नराधिप ॥
जलाहारस्त्वेकदिनं तिष्ठेच्च जलधेनुदः

100.18

ग्राहकोऽपि त्रिरात्रं वै तिष्ठेदेवं न संशयः ॥
यत्र क्षीरवहा नद्यो मधुपायसकर्दमाः

100.19

यत्र चाप्सरसां गीतं तत्र यान्ति जलप्रदाः ॥
दाता च दापकश्चैव प्रतिग्राही च यो द्विजः

100.100.20

सर्वपापविनिर्मुक्तः विष्णुसायुज्यमाप्नुयुः ॥
जलधेनुविधानं यः शृणुयात्कीर्त्तयेदपि

100.21

सर्वपापविनिर्मुक्तः स्वर्गमेति जितेन्द्रियः

100.100

इति श्रीवराहपुराणे श्वेतविनीताश्वोपाख्याने जलधेनुविधिर्नाम शततमोऽध्यायः

मूल पाठ: varāhapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc