भाषा

ENहिગુ
ग्रंथ पाठ

वामनपुराण, सरोमाहात्म्य · अध्याय 22

22.1

इति श्रीवामनपुराणे सरोमाहात्म्ये एकविशो ऽध्यायः
ऋषय ऊचुः
स्थाणुतीर्थस्य माहात्म्यं वटस्य च महामुने ।
सान्निहत्यसरोत्पत्तिं पूरणं पांशुना ततः

22.2

लिङ्गानां दर्शनात् पुण्यं स्पर्शनेन च किं फलम् ।
तथैव सरमाहात्म्यं ब्रूहि सर्वमशेषतः

22.3

लोमहर्षण उवाच
शृण्वन्तु मुनयः सर्वे पुराणं वामनं महत् ।
यच्छ्रुत्वा मुक्तिमाप्नोति प्रसादाद् वामनस्य तु

22.4

सनत्कुमारमासीनं स्थाणोर्वटसमीपतः ।
ऋषिभिर्बालखिल्याद्यैर्ब्रह्मपुत्रैर्महात्मभिः

22.5

मार्कण्डेयो मुनिस्तत्र विनयेनाभिगम्य च ।
पप्रच्छ सरमाहात्म्यं प्रमाणां च स्थितिं तथा

22.6

मार्कण्डेय उवाच
ब्रह्मपुत्र महाभाग सर्वेशास्त्रविशारद ।
ब्रूहि मे सरमाहात्म्यं सर्वपापक्षयावहम्

22.7

कानि तीर्थानि दृश्यानि गुह्यानि द्विजसत्तम ।
लिङ्गानि ह्यतिपुण्यानि स्थाणोर्यानि समीपतः

22.8

येषां दर्शनामात्रेण मुक्तिं प्राप्नोति मानवः ।
वटस्य दर्शनं पुण्यमुत्पत्ति कथयस्व मे

22.9

प्रदक्षिणायां यत्पुण्यं तीर्थस्नानेन यत्फलम् ।
गुह्येषु चैव दृष्टेषु यत्पुण्यमभिजायते

22.10

देवदेवो यता स्थाणुः सरोमध्ये व्यवस्थितः ।
किमर्थं पांशुना शक्रस्तीर्थं पूरितवान् पुनः

22.11

स्थाणुतीर्थस्य माहात्म्यं चक्रतीर्थस्य यत्फलम् ।
सूर्यतीर्थस्य माहात्म्यं सोमतीर्थस्य ब्रूहि मे

22.12

संकरस्य च कुह्यानि विष्णोः स्तानानि यानि च ।
कथयस्य महाभाग सरस्वत्याः सविस्तरम्

22.13

ब्रूहि देवाधिदेवस्य माहात्म्यं देव तत्त्वतः ।
विरिञ्जस्य प्रसादेन विदितं सर्वमेव च

22.14

लोमहर्षण उवाच।
मार्कण्डेयवचः श्रुत्वा ब्रह्मत्मा स महामुनिः ।
अतिभक्त्या तु तीर्थस्य प्रवणीकृतमानसः

22.15

पर्यङ्कं शिथिलीकृत्वा नमस्कृत्वा महेश्वरम् ।
कथयामास तत्सर्वं यच्छ्रुतं ब्रह्मणः पुरा

22.16

सनत्कुमार उवाच
नमस्कृत्य महादेवमीशानं वरदं शिवम् ।
उत्पत्ति च प्रवक्ष्यामि तीर्थानां ब्रह्मभाषिताम्

22.17

पूर्वमेकार्णवे घोरे नष्टे स्थावरजङ्गमे ।
बृहदण्डमभूदेकं प्रजानां बीजसंभवम्

22.18

तस्मिन्नण्डे स्थितो ब्रह्मा शयनायोपचक्रमे ।
सहस्रयुगपर्यन्तं सुप्त्वा स प्रत्यबुध्यत

22.19

सुप्तोत्थितस्तदा ब्रह्मा शून्यं लोकमपश्यत ।
सृष्टिं चिन्तयतस्तस्य रजसा मोहितस्य च

22.20

रजः सृष्टिगुणं प्रोक्तं सत्त्वं स्थितिगुणं विदुः ।
उपसंहारकाले च तमोगुमः प्रवर्तते

22.21

गुणातीतः स भगवान् व्यापकः पुरुषः स्मृतः ।
तेनदं सकलं व्याप्तं यत्किञ्चिञ्जीवसंज्ञितम्

22.22

स ब्रह्म स च गोविन्द ईश्वरः स सनातनः ।
यस्तं वेद महात्मानं स सर्वं वेद मोक्षवित्

22.23

किं तेषां सकलैस्तीर्थैराश्रमैर्वा प्रयोजनम् ।
येषामनन्तकं चित्तमात्मन्येव व्यवस्थितम्

22.24

आत्मा नदी संयमपुण्यतीर्था सत्योदका शीलमाधियुक्ता ।
तस्यां स्नातः पुण्यकर्मा पुनाति न विरिणा सुद्ध्यति चान्तरात्मा

22.25

एतत्प्रधानं पुरुषस्य कर्म यदात्मसंबोधसुखे प्रविष्टम् ।
ज्ञेयं तदेव प्रवदन्ति सन्तस्तत्प्राप्य देही विजहाति कामान्

22.26

नैतादृसं ब्राह्मणस्यास्ति वित्तं यथैकता समता सत्यता च ।
शीले स्थितिर्दण्डविधानवर्जनमक्रोधनश्चोपरमः क्रियाभ्यः

22.27

एतद् ब्रह्म समासेन मयोक्तं ते द्विजोत्तम ।
यज्ज्ञात्वा ब्रह्म परमं प्राप्स्यसि त्वं न संशयः

22.28

इदानीं शृणु चोत्पत्तिं ब्रह्मणः परमात्मनः ।
इमं चोदाहरन्त्येव श्लोकं नारायणं प्रति

22.29

आपो नारा वै तनव इत्येवं नाम शुश्रुमः ।
तासु शेते स यस्माच्च तेन नारायणः स्मृतः

22.30

विबुद्धः सलिले तस्मिन् विज्ञायान्तर्गतं जगत् ।
अण्डं बिभेद भगवांस्तस्मादोमित्यजायत

22.31

ततो भूरभवत् तस्माद् भुव इत्यपरः स्मृतः ।
स्वः शब्दश्च तृतीयो ऽभद् भूर्भुवः स्वेति संज्ञितः

22.32

तस्मात्तेजः समभवत् तत्सवितुर्वरेण्यं यत् ।
उदकं शोषयामास यत्तेजो ऽण्डविनिःसृतम्

22.33

तेजसा शोषितं शेषं कललत्वमुपागतम् ।
कललाद् बुद्बुदं ज्ञेयं ततः काठिन्यतां गतम्

22.34

काठिन्याद् धरणी ज्ञेय भूतानां धारिणी इह सा ।
यस्मिन् स्तानेस्थितं ह्यण्डं तस्मिन् संनिहितंसरः

22.35

यदाद्यं निःसृतं तेजस्तस्मादादित्य उच्यते ।
अण्डमध्ये समुत्पन्नो ह्रह्मा लोकपितामहः

22.36

उल्बं तस्याभवन्मेरुर्जरायुः पर्वताः स्मृताः ।
गर्भोदकं समुद्राश्च तथा नद्यः सहस्रशः

22.37

नाभिस्थाने यदुदकं ब्रह्मणो निर्मलं महत् ।
महत्सरस्तेन पूर्णं विमलेन वराम्भसा

22.38

तस्मिन् मध्ये स्थाणुरूपी वृटवृक्षो महामनः ।
तस्माद् विनिर्गता वर्णा ब्राह्मणाः क्षत्रिया विशः

22.39

शूद्राश्च तस्मादुत्पन्नाः शुश्रूषार्थं द्विजन्मनाम् ।
ततश्चिन्तयतः सृष्टिं ब्रह्मणो ऽव्यक्तजन्मनः ।
मनसा मानसा जाताः सनकाद्या महर्षयः

22.40

पुनश्चिन्तयतस्तस्य प्रजाकामस्य धीमतः ।
उत्पन्ना ऋषयः सप्त ते प्रजापतयो ऽभवन्

22.41

पुनश्चिन्तयतस्तस्य रजसा मोहितस्य च ।
बालखिल्याः समुत्पन्नास्तपःस्वाध्यायतत्पराः

22.42

ते सदा स्नाननिरता देवार्चनपरायणाः ।
उपवासैर्व्रतैस्तीव्रैः शोषयन्ति कलेवरम्

22.43

वानप्रस्थेन विधिना अग्निहोत्रसमन्विताः ।
तपसा परमेणेह शोषयन्ति कलेवरम्

22.44

दिव्यं वर्षसहस्रं ते कृशा धमनिसंतताः ।
आराधयन्ति देवेशं न च तुष्यति शङ्करः

22.45

ततः कालेन महता उमया सह शङ्करः ।
आकाशमार्गेण तदा दृष्ट्वा देवी सुदुःखिताः

22.46

प्रसाद्य देवदेवेशं शङ्करं प्राह सुव्रता ।
क्लिश्यन्ते ते मुनिगणा देवदारुवनाश्रयाः

22.47

तेषां क्लेशक्षयं देव विधेहि कुरु मे दयाम् ।
किं वेदधर्मनिष्ठनामनन्तं देव दृष्कृतम्

22.48

नाद्यापि येन शुद्ध्यन्ति शुष्कस्नाय्वस्थिसोषिताः ।
तच्छ्रुत्वा वचनं देव्याः पिनाकी पातितान्धकः ।
प्रोवाच प्रहसन् मूर्ध्नि चारुचन्द्रांशुशोभितः

22.49

श्रीमहादेव उवाच
न वेत्सि देवि तत्त्वेन धर्मस्य गहना गतिः ।
नैते धर्मं विजानन्ति न च कामविवर्जिताः

22.50

न च क्रोधेन निर्मुक्ताः केवलं मूढबुद्धयः ।
एतच्छ्रुत्वाब्रवीद् देवी मा मैवं शंसितव्रतान्

22.51

देव प्रदर्शयात्मानं परं कौतूहलं हि मे ।
स इत्युक्त उवाचेदं देवीं देवः स्मिताननाः

22.52

तिष्ठ त्वमत्र यास्यामि यत्रैते मुनिपुङ्गवाः ।
साधयन्ति तपो घोरं दर्शयिष्यामि चेष्टितम्

22.53

इत्युक्ता तु ततो देवी शङ्करेण महात्मना ।
गच्छस्वेत्याह मुदिता भर्तरं भुवनेश्वरम्

22.54

यत्र ते मुनयः सर्वे काष्ठलेष्टसमाः स्थिताः ।
अधीयाना महाभागाः कृताग्निसदनक्रियाः

22.55

तान् विलोक्य ततो देवो नग्नः सर्वाङ्गसुन्दरः ।
वनमालाकृतापीडो युवा भिक्षाकपालभृत्

22.56

आश्रमे पर्यटन् भिक्षां मुनीनां दर्शनं प्रति ।
देहि भिक्षां ततश्चोक्त्वा ह्याश्रमादाश्रमं ययौ

22.57

तं विलोक्याश्रमगतं योषितो ब्रह्मवादिनाम् ।
सकौतुकस्वभावेन तस्य रूपेम मोहिताः

22.58

प्रोचुः परस्परं नार्य एहि पश्याम भिश्रुकम् ।
परस्परमिति चोक्त्वा गृह्य मूलफलं बहु

22.59

गृहाण भिक्षामूचुस्तास्तं देवं मुनियोषितः ।
स तु भिक्षाकपालं तं प्रसार्य बहु सादरम्

22.60

देहि देहि शिवं वो ऽस्तु भवतीभ्यस्तपोवने ।
हसमानस्तु देवोसस्तत्र देव्या निरीक्षितः ।
तस्मै दत्त्वैव तां भिक्षां पप्रच्छुस्तं स्मरातुराः

22.61

नार्य ऊचुः
को ऽसौ नाम व्रतविधिस्त्वया तापस सेव्यते ।
यत्र नग्नेन लिङ्गेन वनमालाविभूषितः ।
भवान् वै तापसो हृद्यो हृद्याः स्मो यदि मन्यसे

22.62

इत्युक्तस्तापसीभिस्तु प्रोवाच हसिताननः ।
इदमीदृग् व्रतं किञ्चिन्न रहस्यं प्रकाश्यते

22.63

शृण्वन्ति बहवो यत्र तत्र व्याख्या न विद्यते ।
अस्य व्रतस्य सुभगा इति मत्वा गमिष्यथ

22.64

एवमुक्तास्तदा तेन ताः प्रत्यूचुस्तदा मुनिम् ।
रहस्ये हि गमिष्यामो मुने नः कैतुकं महत्

22.65

इत्युक्त्वा तास्तदा तं वै जगृहुः पाणिपल्लवैः ।
काचित् कण्ठे सकन्दर्पा बाहुभ्यामपरास्तथा

22.66

जानुभ्यामपरा नार्यः केशेषु ललितापराः ।
अपरास्तु कटीरन्ध्रे अपराः पादयोरपि

22.67

क्षोभं विलोक्य मुनय आश्रमेषु स्वयोषिताम् ।
हन्यतामिति संभाष्य काष्ठपाषाणपाणयः

22.69

पातयन्ति स्म देवस्य लिङ्गमुद्धृत्य भीषणम् ।
पातिते तु ततो लिङ्गे गतो ऽन्तर्धानमीश्वरः ।
22.68 देव्या स भगवान् रुद्रः कैलासं नगमाश्रितः ।
पतिते देवदेवस्य लिङ्गे नष्टे चराचरे

22.70

क्षोभो बभूव सुमहानृषीणां भावितात्मनाम् ।
एवं देवे तदा तत्र वर्तति व्याकुलीकृते

22.71

उवाचैको मुनिवरस्तत्र बुद्धिमतां वरः ।
न वयं विद्मः सद्भावं तापसस्य महात्मनः

22.72

विरिञ्चिं शरणं यामः स हि ज्ञास्यति चेष्टितम् ।
एवमुक्ताः सर्व एव ऋषयो लञ्जिता भृशम्

22.73

ब्रह्मणः सदनं जग्मुर् देवैः सह निषेवितम् ।
प्रणिपत्याथ देवेशं लञ्जयाधोमुखाः स्थिताः

22.74

अथ तान् दुःखितान् दृष्ट्वा ब्रह्म वचनमब्रवीत् ।
अहो मुग्धा यदा यूयं क्रोधेन कलुषीकृताः

22.75

न धर्मस्य क्रिया काचिज्ज्ञायते मूढबुद्धयः ।
श्रुयतां धर्मसर्वस्वं तापसाः क्रूरचेष्टितः

22.76

विदित्वा यद् बुधः क्षिप्रं धर्मस्य फलमाप्नुयात् ।
यो ऽसावात्मनि देहे ऽस्मिन् विभुर्नित्योव्यवस्थितः

22.77

सो ऽनादिः स महास्थाणुः पृथक्त्वे परिसूचितः ।
मणिर्यथोपधानेन धत्ते वर्णोज्ज्वलो ऽपि वै

22.78

तन्मयो भवते तद्वदात्मापि मनसा कृतः ।
मनसो भेदमाश्रित्य कर्मभिश्चोपचीयते

22.79

ततः कर्मवशाद् भुङ्क्ते संभोगान् स्वर्गनारकान् ।
तन्मनः शोधयेद् धीमान् ज्ञानयोगाद्युपक्रमैः

22.80

तस्मिन् शुद्धे ह्यन्तरात्मा स्वयमेव निराकुलः ।
न शरीरस्य संक्लेशैरपि निर्दहनात्मकैः

22.81

शुद्धिमाप्नोति पुरुषः संशुद्धं यस्य नो मनः ।
क्रिया हि नियमार्थाय पातकेभ्यः प्रकीर्तिताः

22.82

यस्मादत्याविलं देहं न शीघ्रं शुद्ध्यते किल ।
तेन लोकेषु मार्गो ऽयं सत्पथस्य प्रवर्तितः

22.83

वर्णाश्रमविभागो ऽयं लोकाध्यक्षेण केनचित् ।
निर्मितो मोहमाहात्म्यं चिह्नं चोत्तमभागिनाम्

22.84

भवन्तः क्रोधकामाभ्यामभिभूताश्रमे स्थिताः ।
ज्ञानिनामाश्रमो वेश्म अनाश्रममयोगिनाम्

22.85

क्व च न्यस्तसमस्तेच्छा क्व च नारीमयो भ्रमः ।
क्व क्रोधमीदृशं घोरं येनात्मानं न जायथ

22.86

यत्क्रोधनो यजति यद् ददाति यद् वा तपस्तपतिल यज्जुहोति ।
न तस्य प्राप्नोति फलं हि लोके मोघं फलं तस्य हि क्रोधनस्य

मूल पाठ: Vāmanapurāṇa, Saromāhātmya · Edition: A.S. Gupta, Varanasi : All India Kashiraj Trust 1967 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc