भाषा

ENहिગુ
ग्रंथ पाठ

वामनपुराण, सरोमाहात्म्य · अध्याय 20

20.1

इति श्रीवामनपुराणे सरोमाहात्म्ये एकोनविंशो ऽध्यायः
लोमहर्षण उवाच ।
समुद्रास्तत्र चत्वारो दर्विणा आह-ताः पुरा ।
प्रत्येकं तु नरः स्नातो गोसहस्रफलं लभेत्

20.2

यत्किञ्चित् क्रियते तस्मिंस्तपस्तीर्थे द्विजोत्तमाः ।
परिपूर्णं हि तत्सर्वमपि दुष्कृतकर्मणः

20.3

शतसाहस्रिकं तीर्थं तथैव शतिकं द्विजाः ।
उभयोर्हि नरः स्नातो गोसहस्रफलं लभेत्

20.4

सोमतीर्थं च तत्रापि सरस्वत्यास्तटे स्थितम् ।
यस्मिन् स्नातस्तु पुरुषो राजसूयफलं लभेत्

20.5

रेणुकाश्रममासाद्य श्रद्दधानो जितेन्द्रियः ।
मातृभक्त्या च यत्पुण्यं तत्फलं प्राप्नुयान्नरः

20.6

ऋणैर्मुक्तो भवेन्नित्यं देवर्षिपितृसंभवैः ।
कुमारस्याभिषेकं च ओजसं नाम विश्रुतम्

20.7

तस्मिन् स्नातस्तु पुरुषो यशसा च समन्वितः ।
कुमारपुरमाप्नोति कृत्वा श्राद्धं तु मानवः

20.8

चैत्रषष्ठ्यां सिते पक्षे यस्तु श्राद्धं करिष्यति ।
गयाश्राद्धे च यत्पुण्यं तत्पुण्यं प्राप्नुयान्नरः

20.9

संनिहित्यां यथा श्राद्धं राहुग्रस्ते दिवाकरे ।
तथा श्राद्धं तत्र कृतं नात्र कार्या विचारणा

20.10

ओजसे ह्यक्षयं श्राद्धं वायुना कथितं पुरा ।
तस्मात् सर्वप्रयत्नेन श्राद्धं तत्र समाचरेत्

20.11

यस्तु स्नानं श्रद्दधानश्चैत्रषष्ठ्यां करिष्यति ।
अक्षय्यमुदकं तस्य पितॄणामुपजायते

20.12

तत्र पञ्चवटं नाम तीर्थं त्रैलोक्यविश्रुतम् ।
महादेवः स्थितो यत्र योगमूर्तिधरः स्वयम्

20.13

तत्र स्नात्वार्ऽचयित्वा व देवदेवं महेश्वरम् ।
गाणपत्यमवाप्नोति दैवतैः सह मोदते

20.14

कुरुतीर्थं च विख्यातं कुरुणा यत्र वै तपः ।
तप्तं सुघोरं क्षेत्रस्य कर्षणार्थं द्विजोत्तमाः

20.15

तस्य घोरेण तपसा तुष्ट इन्द्रोब्रवीद् वचः ।
राजर्षे परितुष्टो ऽस्मि तपसानेन सुव्रतः

20.16

यज्ञं ये च कुरुक्षेत्रे करिष्यन्ति शतक्रतोः ।
ते गमिष्यन्ति सुकृतांल्लोकान् पापविवर्जितान्

20.17

अवहस्य ततः शक्रो जगाम त्रिदिवं प्रभुः ।
आगम्यागम्य चैवैनं भूयो भूयो ऽवहस्य च

20.18

शतक्रतुरनिर्विण्णः पृष्ट्वा पृष्ट्वा जगाम ह ।
यदा तु तपसोग्रेण चकर्ष देहमात्मनः ।
ततः शक्रो ऽब्रवीत् प्रीत्य ब्रूहि यत्ते चिकीर्षितम्

20.19

कुरुरुवाच
ये श्रद्दधानास्तीर्थे ऽस्मिन् मानवा निवसन्ति ह ।
ते प्राप्नुवन्तु सदनं ब्रह्मणः परमात्मनः

20.20

अन्यत्र कृतपापा ये पञ्चपातकदूषिताः ।
अस्मिस्तीर्थे नराः स्नात्वा मुक्ता यान्तु परां गतिम्

20.21

कुरुक्षेत्रे पुण्यतमं कुरुतीर्थं द्विजोत्तमाः ।
ते दृष्ट्वा पापमुक्तस्तु परं पदमवाप्नुयात्

20.22

कुरुतीर्थे नरः स्नातो मुक्तो भवति किल्विषैः ।
कुरुणा समनुज्ञातः प्राप्नोति परमं पदम्

20.23

स्वर्गद्वारं ततो गच्छेत् शिवद्वारे व्यवस्थितम् ।
तत्र स्नात्वा शिवद्वारे प्राप्नोति परमं पदम्

20.24

ततो गच्छेदनरकं तीर्थं त्रैलोक्यविश्रुतम् ।
यत्र पूर्वे स्थितो ब्रह्म दक्षिणे तु महेश्वरः

20.25

रुद्रपत्नी पश्चिमतः पद्मनाभोत्तरे स्थितः ।
मध्ये अनरकं तीर्थं त्रैलोक्यस्यापि दुर्लभम्

20.26

यस्मिन् स्नातस्तु मुच्येत पातकैरुपपातकैः ।
वैशाखे च यदा षष्ठी मङ्गलस्य दिनं भवेत्

20.27

तदा स्नानं तत्र कृत्वा मुक्तो भवति पातकैः ।
यः प्रयच्छेत करकांश्चतुरो भक्ष्यसंयुतान्

20.28

कलशं च तथा दद्यादपूपैः परिशोभितम् ।
देवताः प्रीमयेत् पूर्वं करकैरन्नसंयुतैः

20.29

ततस्तु कलशं दद्यात् सर्वपातकनाशनम् ।
अनेनैव विधानेन यस्तु स्नानं समाचरेत्

20.30

स मुक्ताः कलुषैः सर्वैः प्रयाति परमं पदम् ।
अन्यत्रापि यदा षष्ठी मङ्गलेन भविष्यति

20.31

तत्रापि मुक्तिफलदा क्रिया तस्मिन् भविष्यति ।
तीर्थे च सर्वतीर्थानां यस्मिन् स्नातो द्विजोत्तमाः

20.32

सर्वदेवैरनुज्ञातः परं पदमवाप्नुयात् ।
काम्यकं च वनं पुण्यं सर्वपातकनाशनम्

20.33

यस्मिन् प्रविष्टमात्रस्तु मुक्तो भवति किल्बिषैः ।
यमाश्रित्य वनं पुण्यं सविता प्रकटः स्थितः

20.34

पूषा नाम द्विजश्रेष्ठ दर्शनान्मुक्तिमाप्नुयात् ।
आदित्यस्य दिने प्राप्ते तस्मिन् स्नातस्तु मानवः ।
विशुद्धदेहो भवति मनसा चिन्तितं लभेत्

मूल पाठ: Vāmanapurāṇa, Saromāhātmya · Edition: A.S. Gupta, Varanasi : All India Kashiraj Trust 1967 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc