वामनपुराण, सरोमाहात्म्य · अध्याय 2
इति श्रीवामनपुराणे सरोमाहात्म्ये प्रथमो ऽध्यायः
ऋषय ऊचुः
ब्रूहि वामनमाहात्म्यमुत्पत्तिं च विशेषतः ।
यथा बलिर्नियमितो दत्तं राज्यं शतक्रतोः
लोमहर्षण उवाच
शृणुध्वं मुनयः प्रीता वामनस्य महात्मनः ।
उत्पत्तिं च प्रभावं च निवासं कुरुजाङ्गले
तदेव वंशं दैत्यानां शृणुध्वं द्विजसत्तमाः ।
यस्य वंशे समभवद् बलिर्वैरोचनिः पुरा
दैत्यानामादिपुरुषो हिरण्यकशिपुः पुरा ।
तस्य पुत्रो महातेजाः प्रह्लादो नाम दानवः
तस्माद् विरोचनो जज्ञे बलिर्जज्ञे विरोचनात् ।
हते हिरण्यकशिपौ देवानुत्साद्य सर्वतः
राज्यं कृतं च तेनेष्टं त्रैलोक्ये सचराचरे ।
कृतयत्नेषु देवेषु त्रैलोक्ये दैत्यतां गते
जये तथा बलवतोर्मयशम्बरयोस्तथा ।
शुद्धासु दिक्षु सर्वासु प्रवृत्ते धर्मकर्मणि
संप्रवृत्ते दैत्यपथे अयनस्थे दिवाकरे ।
प्रह्लादशम्बरमयैरनुह्वादेन चैव हि
दिक्षु सर्वासु सुप्तासु गगने दैत्यपालिते ।
देवेषु मखशोभां च स्वर्गस्थां दर्शयत्सु च
प्रकृतिस्थे ततो लोके वर्तमाने च सत्पथे ।
अभावे सर्वपापानां धर्मभावे सदोत्थिते
चतुष्पादे स्थिते धर्मे ह्यधर्मे पादविग्रहे ।
प्रजापालनयुक्तेषु भ्राजमानेषु राजसु ।
स्वधर्मसंप्रयुक्तेषु तथाश्रमनिवासिषु
अभिषिक्तो ऽसुरैः सर्वैर्दैत्यराज्ये बलिस्तदा ।
हृष्टेष्वसुरसंघेषु नदत्सु मुदितेषु च
अथाभ्युपगता लक्ष्मीर् बलिं पद्मान्तरप्रभा ।
पद्मोद्यतकरा देवी वरदा सुप्रवेशिनी
श्रीरुवाच
बले बलवतां श्रेष्ठ दैत्यराज महाद्युते ।
प्रीतास्मि तव भद्रं ते देवराजपराजये
यत्त्वया युधि विक्रम्य देवराज्यं पराजितम् ।
दृष्ट्वा ते परमं सत्त्वं ततो ऽहं स्वयमागता
नाश्चर्यं दानवव्याघ्र हिरण्यकशिपोः कुले ।
प्रसूतस्यासुरेन्द्रस्य तव कर्मे दमीदृशम्
विशेषितस्त्वया राजन् दैत्येन्द्रः प्रपितामहः ।
येन भुक्तं हि निखिलं त्रैलोक्यमिदमव्ययम्
एवमुक्त्वा तु सा देवी लक्ष्मीर्दैत्यनृपं बलिम् ।
प्रविष्टा वरदा सेव्या सर्वदेवमनोरमा
तुष्टाश्च देव्यः प्रवराः ह्रीः कीर्तिर्द्युतिरेव च ।
प्रभा धृतिः क्षमा भूतिर् ऋद्धिर्दिव्या महामतिः
श्रुतिःस्मृतिरिडा कीर्तिः शान्तिः पुष्टिस्तथा क्रिया ।
सर्वाश्चप्सरसो दिव्या नृत्तगीतविशारदाः
प्रपद्यन्ते स्म दैत्येन्द्रं त्रैलोक्यं सचराचरम् ।
प्राप्तमैश्वर्यमतुलं बलिना ब्रह्मवादिना
मूल पाठ: Vāmanapurāṇa, Saromāhātmya · Edition: A.S. Gupta, Varanasi : All India Kashiraj Trust 1967 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0