भाषा

ENहिગુ
ग्रंथ पाठ

वामनपुराण, सरोमाहात्म्य · अध्याय 1

1.1

देवदेव उवाच
सरस्वतीदृषद्वत्योरन्तरे कुरुजाङ्गले ।
सुनिप्रवरमासीनं पुराणं लोमहर्षणम् ।
अष्टच्छन्त द्विजवराः प्रभावं सरसस्तदा

1.2

प्रमाणं सरसो ब्रूहि तीर्थानां च विशेषतः ।
देवतानां च माहात्म्यमुत्पत्तिं वामनस्य च

1.3

एतच्छ्रुत्वा वचस्तेषां रोमहर्षसमन्वितः ।
प्रणिपत्य पुराणर्षिरिदं वचनमव्रवीत्

1.4

लोमहर्षण उवाच
ब्रह्मणमग्र्यं कमलासनस्थं विष्णुं तथा लक्ष्मिसमन्वितं च ।
रुद्रं च देवं प्रणिपत्य मूर्ध्ना तीर्थं महद् ब्रह्मसरः प्रवक्ष्ये

1.5

रन्तुकादौजसं यावत् पावनाच्च चतुर्मुखम् ।
सरः संनिहितं प्रोक्तं ब्रह्मणा पूर्वमेव तु

1.6

कलिद्वापरयोर्मध्ये व्यासेन च महात्मना ।
सरःप्रमाणं यत्प्रोक्तं तच्छृणुध्वं द्विजोत्तमाः

1.7

विश्वेश्वरादस्थिपुरं रथा कन्या जरद्गवी ।
यावदोघवती प्रोक्ता तावत्संनिहितं सरः

1.8

मया श्रुतं प्रमाणं यत् पठ्यमानं तु वामने ।
तच्छृणुध्वं द्विजश्रेष्ठाः पुण्यं वृद्धिकरं महत्

1.9

विश्वेश्वराद् देववरा नृपावनात् सरस्वती ।
सरः संनिहितं ज्ञेयं समन्तादर्थयोजनम्

1.10

एतदाश्रित्य देवाश्च ऋषयश्च समागताः ।
सेवन्ते मुक्तिकामार्थं स्वर्गार्थे चापरे स्थिताः

1.11

ब्रह्मणा सेवितमिदं सृष्टिकामेन योगिना ।
विष्णुना स्थितिकामेन हरिरूपेण सेवितम्

1.12

रुद्रेण च सरोमध्यं प्रविष्टेन महात्मना ।
सेव्य तीर्थं महातेजाः स्थाणुत्वं प्राप्तवान् हरः

1.13

आद्यैषा ब्रह्मणो वेदिस्ततो रामहृदः स्मृतः ।
करुणा च यतः कृष्टं कुरुक्षेत्रं ततः स्मृतम्

1.14

तरन्तुकारन्तुकयोर्यदन्तरं यदन्तरं रामहृदाच्चतुर्मुखम् ।
एत्कुरुक्षेत्रसमन्तपञ्चकं पितामहस्योत्तरवेदिरुच्यते

मूल पाठ: Vāmanapurāṇa, Saromāhātmya · Edition: A.S. Gupta, Varanasi : All India Kashiraj Trust 1967 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc