भाषा

ENहिગુ
ग्रंथ पाठ

वामनपुराण, सरोमाहात्म्य · अध्याय 17

17.1

इति क्षीवामनुराणे सरोमाहात्म्ये षोडशो ऽध्यायः
ऋषय ऊचुः ।
कथं मङ्कणकः सिद्धः कस्माज्जातो महानृषिः ।
नृत्यमानस्तु देवेन किमर्थं स निवारितः

17.2

लोमहर्षण उवाच
कश्यपस्य सुतो जज्ञे मानसो मङ्कणोमुनिः ।
स्नानं कर्तुं व्यवसितो गृहीत्वा वल्कलं द्विजः

17.3

तत्र गता ह्यप्सरसो रम्भाद्याः प्रियदर्शनाः ।
स्नायन्ति रुचिराः स्निग्धास्तेन सार्धमनिन्दिताः

17.4

ततो मुनेस्तदा क्षोभाद्रेतः स्कन्नं यदम्भसि ।
तद्रेतः स तु जग्राह कलशे वै महातपाः

17.6

सप्तधा प्रविभागं तु कलशस्थं जगाम ह ।
तत्रर्षयः स्पत जाता विदुर्यान् मरुतां गणान् ।
17.5 वायुवेगो वायुबलो वायुहा वायुमण्डलः ।
वायुज्वलो वायुरेतो वायुचक्रश्च वीर्यवान्

17.7

एते ह्यपत्यास्तस्यर्षेर्धारयन्ति चराचरम् ।
पुरा मङ्कणकः सिद्धः कुशाग्रेणेति मे श्रुतम्

17.8

क्षतः किल करे विप्रास्तस्य शाकरसो ऽस्रवत् ।
स वै शाकरसं दृष्ट्वा हर्षाविष्टः प्रनुत्तवान्

17.9

ततः सर्वं प्रनृत्तं च सथावरं जङ्मं च यत् ।
प्रनुत्तं च जगद् दृष्ट्वा तेजसा तस्य मोहितम्

17.10

ब्रह्मादिभिः सुरैस्तत्र ऋषिभिश्च तपोधनैः ।
विज्ञप्तो वै महादेवो मुनेरर्थे द्विजोत्तमाः

17.11

नाय नृत्येद् यथा देव तथा त्वं कर्तुमर्हसि ।
ततो देवो मुनिं दृष्ट्वा हर्षाविष्टमतीव हि

17.12

सुरणां हितकामार्थं महादेवो ऽभ्यभाषत ।
हर्षस्थानं किमर्थं च तवेदं मुनिसत्तम ।
तपस्विनो धर्मपथे स्थितस्य द्विजसत्तम

17.13

किं न पश्यसि मे ब्रह्मन् कराच्छाकरसं स्रुतम् ।
यं दृष्ट्वाहं प्रनुत्तो वै हर्षेण महतान्वितः

17.14

तं प्रहस्याब्रवीद् देवो मुनिं रागेम मोहितम् ।
अहं न विस्मयं विप्र गच्छामीह प्रपश्यताम्

17.15

एवमुक्त्वा मुनिश्रेष्ठं देवदेवो महाद्युतिः ।
अङ्गुल्यग्रेण विप्रेन्द्राः स्वाङ्गुष्ठं ताडयद् भवः

17.16

ततो भस्म क्षतात् तस्मान्निर्गतं हिमसन्निभम् ।
तद् दृष्ट्वा व्रीडितोविप्रः पादयोः पतितो ऽब्रवीत्

17.17

नान्यं देवादहं मन्ये शूलपाणेर्महात्मनः ।
चराचरस्य जगतो वरस्त्वमसि शूलधृक्

17.18

त्वदाश्रयाश्च दृश्यन्ते सुरा ब्रह्मादयो ऽनघ ।
पूर्वस्त्वमसि देवानां कर्ता कारयिता महत्

17.19

त्वत्प्रसादात् सुराः सर्वे मोदन्ते ह्यकुलोभयाः ।
एवं स्तुत्वा महादेवमृषिः स प्रणतो ऽब्रवीत्

17.20

भगवंस्त्वप्रसादाद्धि तपो मे न क्षयं व्रजेत् ।
ततो देवः प्रसान्नात्मा तमृषिं वाक्यमब्रवीत्

17.21

ईश्वर उवाच
तपस्ते वर्द्धतां विप्र मत्प्रसादात् सहस्रधा ।
आश्रमे चेह वत्स्यामि त्वया सार्द्धमहं सदा

17.22

सप्तसारस्वते स्नात्वा यो ममर्चिष्यते नरः ।
न तस्य दुर्लभं किञ्चिदिह लोके परत्र च

17.23

सारस्वतं च तं लोकं गमिष्यति न संशयः ।
शिवस्य च प्रसादेन पाप्नोति परमं पदम्

मूल पाठ: Vāmanapurāṇa, Saromāhātmya · Edition: A.S. Gupta, Varanasi : All India Kashiraj Trust 1967 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc