भाषा

ENहिગુ
ग्रंथ पाठ

वामनपुराण, सरोमाहात्म्य · अध्याय 14

14.1

इति श्रीवामनपुराणे सरोमाहात्म्ये त्रयोदसो ऽध्यायः
लोमहर्षण उवाच ।
ततो रामहृदं गच्छेत् तीर्थसेवी द्विजोत्तमः ।
यत्र रामेण विप्रेण तरसा दीप्ततेजसा

14.2

क्षत्रमुत्साद्य वीरेण ह्रदाः पञ्च निवेशिताः ।
पूरयित्वा नरव्याघ्र रुधिरेणेति नः श्रुतम्

14.3

पितरस्तर्पितास्तेन तथैव च पितामहाः ।
ततस्ते पितरः प्रीता राममूचुर्द्विजोत्तमाः

14.4

राम राम महाबाहो प्रीताः स्मस्तव भार्गव ।
अनया पितृभक्त्या च विक्रमेण च ते विभो

14.5

वरं वृणीष्व भद्रं ते किमिच्छसि महायशः ।
एवमुक्तस्तु पितृभी रामः प्रभवताः परः

14.6

अब्रवीत् प्राञ्जलिर्वाक्यं स पितृन् गगने स्थितान् ।
भवन्तो यदि मे प्रीता यद्य नुग्राह्यता मयि

14.7

पितृप्रसादादिच्छेयं तपसाप्यायनं पुनः ।
यच्च पोषाभिभूतेन क्षत्रमुत्सादितं मया

14.8

ततश्च पापान्मुच्येयं युष्माकं तेजसा ह्यहम् ।
ह्रदाश्चैते तीर्थभूता भवेयुर्भुवि विश्रुताः

14.9

एवमुक्ताः शुभं वाक्यं रामस्य पितरस्तदा ।
प्रत्यूचुः परमप्रीता रामं हर्षपुरस्कृताः

14.10

तपस्ते वर्द्धूतां पुत्र पितृभक्त्या विशेषतः ।
यच्च रोषाभिभूतेन क्षत्रमुत्सादितं त्वया

14.11

ततश्च पापान्मुक्तस्त्वं पातितास्ते क्वकर्मभिः ।
ह्रदाश्च तव तीर्थत्वं गमीष्यन्ति न संशयः

14.12

ह्रदेष्वेतेषु ये स्नात्वा स्वान् पितॄंस्तर्पयन्ति च ।
तेभ्यो दास्यन्ति पितरो यथाभिलषितं वरम्

14.13

ईप्सितान् मानसान् कामान् स्वर्गवासं च शाश्वतम् ।
एवं दत्त्वा वरान् विप्रा रामस्य पितरस्तदा

14.14

आमन्त्र्य भार्गवं प्रीतास्तत्रैवान्तर्हितास्तदा ।
एवं रामह्रदाः पुण्या भार्गवस्य महात्मनः

14.15

स्नात्वा ह्रदेषु रामस्य ब्रह्मचारी शुचिव्रतः ।
राममभ्यर्च्य श्रद्धावान् विन्देद् बहु सुवर्णकम्

14.16

वंशमूलं समासाद्य तीर्थसेवी सुसंयतः ।
स्ववंशसिद्धये विप्राः स्नात्वा वै वंशमूलके

14.17

कायशोधनमासाद्य तीर्थं त्रैलोक्यविश्रुतम् ।
शरीरसुद्धिमाप्नोति स्नातस्तस्मिन् न संशयः

14.18

सुद्धदेहश्च तं याति यस्मान्नावर्तते पुनः ।
तावद् भ्रमन्ति तीर्थेषु सिद्धास्तीर्थपरायणाः ।
यावन्न प्राप्नुवन्तीह तीर्थं तत्कायशोधनम्

14.20

तस्मिस्तीर्थे च संप्लाव्य कायं संयतमानसः ।
परं पदमवाप्नोति यस्मान्नावर्तते पुनः ।
14.19 ततो गच्छेत विप्रेन्द्रास्तीर्थं त्रैलोक्यविश्रुतम् ।
लोका यत्रोद्धताः सर्वे विष्णुना प्रभविष्णुना

14.21

लोकोद्धारं सामासाद्य तीर्थस्मरणतत्परः ।
स्नात्वातीर्थवरे तस्मिन् लोकान् पश्यति शाश्वतान्

14.22

यत्र विष्णुः स्थितो नित्यं शिवो देवः सनातनः ।
तौ देवौ प्रणिपातेन प्रसाद्य मुक्तिमाप्नुयात्

14.23

श्रीतीर्थं तु ततो गच्छेत् शालग्राममनुत्तमम् ।
तत्र स्नातस्य सान्निध्यं सदा देवी प्रयच्छति

14.24

कपिलाह्रदमासाद्य तीर्थं त्रैलोक्यविश्रुतम् ।
तत्र स्नात्वार्ऽचयित्वा च दैवतानि पितृस्तथा

14.25

कपिलानां सहस्रस्य फलं विन्दति मानवः ।
तत्र स्थितं महादेवं कापिलं वपुरास्थितम्

14.26

दृष्ट्वा मुक्तिमवाप्नोति ऋषिभिः पूजितं शिवम् ।
सूर्यतीर्थं समासाद्य स्नात्वा नियतमानसः

14.27

अर्चयित्वा पितृन् देवानुपवासपरायणः ।
अग्निष्टोममवाप्नोति सूर्यलोकं च गच्छति

14.28

सहस्रकिरणं देवं भानुं त्रैलोक्यविश्रुतम् ।
दृष्ट्वा मुक्तिमवाप्नोति नरो ज्ञानसमन्वितः

14.29

भवानीवनामासाद्य तीर्थसेवी यथाक्रमम् ।
तत्राभिषेकं कुर्वाणो गोसहस्रफलं लभेत्

14.30

पितामहस्य पिबतो ह्यमृतं पूर्वमेव हि ।
उद्गारात् सुरभिर्जाता सा च पातालमाश्रिता

14.31

तस्याः सुरभयो जाताः तनया लोकमातरः ।
ताभिस्तत्सकलं व्याप्तं पातालं सुनिरन्तरम्

14.32

पितामहस्य यजतो दक्षिणार्थमुपाहृताः ।
आहुता ब्रह्मणा ताश्च विभ्रान्ता विवरेण हि

14.33

तस्मिन् विवरद्वारे तु स्थितो गणपतिः स्वयम् ।
यं दृष्ट्वा सकलान् कामान् प्राप्नोतिसंयतेन्द्रियः

14.34

संगिनीं तु समासाद्य तीर्थं मुक्तिसमाश्रयम् ।
देव्यास्तीर्थे नरः स्नात्वा लभते रूपमुत्तमम्

14.35

अनन्तां श्रियमाप्नोति पुत्रपौत्रसमन्वितः ।
भोगांश्च विपुलान् भुक्त्वा प्राप्नोति परमं पदम्

14.36

ब्रह्मावर्ते नरः स्नात्वा ब्रह्मज्ञानसमन्वितः ।
भवते नात्र सन्देहः प्राणान् मुञ्चति स्वेच्छया

14.37

ततो गच्छेत विप्रेन्द्रा द्वारपालं तु रन्तुकम् ।
तस्य तीर्थं सरस्वत्यां यक्षेन्द्रस्य महात्मनः

14.38

तत्र स्नात्वा महाप्राज्ञ उपवासपरायणः ।
यक्षस्य च प्रसादेन लभते कामिकं फलम्

14.39

ततो गच्छेत विप्रेन्द्रा ब्रह्मवर्तं मुनिस्तुतम् ।
ब्रह्मावर्ते नरः स्नात्वा ब्रह्म चाप्नोति निश्चितम्

14.40

ततो गच्छेत विप्रेन्द्राः सुतीर्थकमनुत्तमम् ।
तत्र संनिहिता नित्यं पितरो दैवतैः सह

14.41

तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः ।
अश्वमेधमवाप्नोति पितृन् प्रीणाति शाश्वतान्

14.42

ततो ऽम्बुवनं धर्मज्ञ समासाद्य यथाक्रमम् ।
कामेश्वरस्य तीर्थं तु स्नात्वा श्रद्धासमन्वितः

14.43

सर्वव्याधिविनिर्मुक्तो ब्रह्मवाप्तिर्भवेद् ध्रुवम् ।
मातृतीर्थं च तत्रैव यत्र स्नातस्य भक्तितः

14.44

प्रजा विवर्द्धते नित्यमनन्तां चाप्नुभाच्छ्रियम् ।
ततः शीतवनं गच्छेन्नियतो नियताशनः

14.45

तीर्थं तत्र महाविप्रा महदन्यत्र दुर्लभम् ।
पुनाति दर्शनादेव दण्डकं च द्विजोत्तमाः

14.46

केशानभ्युक्ष्य वै तस्मिन् पूतो भवति पापतः ।
तत्र तीर्थवरं चान्यत् स्वानुलोमायनं महत्

14.47

तत्र विप्रा महाप्राज्ञा विद्वांसस्तीर्थतत्पराः ।
स्वनुलोमायने तीर्थे विप्रास्त्रैलोक्यविश्रुते

14.48

प्राणायामैर्निहरन्ति स्वलोमानि द्विजोत्तमाः ।
पूतात्मानश्च ते विप्राः प्रयान्ति परमां गतिम्

14.49

दशाश्वमेधिकं चैव तत्र तीर्थं सुविश्रुतम् ।
तत्र स्नात्वा भक्तियुक्तस्तदेव लभते फलम्

14.50

ततो गच्छेत श्रद्धावान् मानुषं लोकविश्रुतम् ।
दर्शनात् तस्य तीर्थस्य मुक्तो भवति किल्बिषैः

14.51

पुरा कृष्णमृगास्तत्र व्याधेन शरपीडिताः ।
विगाह्य तस्मिन् सरसि मानुषत्वमुपागताः

14.52

ततो व्याधाश्च ते सर्वे तानपृच्छन् द्विजोत्तमान् ।
मृगा अनेन वै याता अस्माभिः शरपीडिताः

14.53

निमग्नास्ते सरः प्राप्य क्व ते याता द्विजोत्तमाः ।
ते ऽब्रुवंस्तत्र वै पृष्टा वयं ते च द्विजोत्तमाः

14.54

अस्य तीर्थस्य माहात्म्यान् मानुषत्वमुपागताः ।
तस्माद् यूयं श्रद्दधानाः स्नात्वा तीर्थे विमत्सराः

14.55

सर्वपापविनिर्मुक्ता भविष्यथ न संशयः ।
ततः स्नाताश्च ते सर्वे शुद्धदेहा दिवं गताः

14.56

एतत् तीर्थस्य माहात्म्यं मानुषस्य द्विजोत्तमाः ।
ये शृण्वन्ति श्रद्दधानास्ते ऽपि यान्ति परां गतिम्

मूल पाठ: Vāmanapurāṇa, Saromāhātmya · Edition: A.S. Gupta, Varanasi : All India Kashiraj Trust 1967 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc