भाषा

ENहिગુ
ग्रंथ पाठ

वामनपुराण, सरोमाहात्म्य · अध्याय 11

11.1

इति श्रीवामनपुराणे सरोमाहात्म्ये दशमो ऽध्यायः
ऋषय ऊचुः
कथमेषा समुत्पन्ना नदीनामुत्तमा नदी ।
सकखती महाभागा कुरुक्षेत्रप्रवाहिना

11.2

कथं सरः समासाद्य कृत्वा तीर्थानि पार्श्वतः ।
प्रयाता पश्चिमामाशां दृश्याहृश्यगतिः शुभा ।
एतद् विस्तरतो ब्रूहि तीर्थंवंशं सनातनम्

11.3

लोमहर्षण उवाच
प्लक्षवृक्षात् समुद्भूता सरिच्छ्रेष्ठा सनातनी ।
सर्वपापक्षयकरी स्मरणादेव नित्यशः

11.4

सैषा शैलसहस्राणि विदार्य च महानदी ।
प्रविष्टा पुण्यतोयौघा वनं द्वैतमिति स्मृतम्

11.5

तस्मिन् पल्क्षे स्थितां दृष्ट्वा मार्कण्डेयो महामुनिः ।
प्रणिपत्य तदा मूर्ध्ना तुष्टावाथ सरस्वतीम्

11.6

त्वं देवि सर्वलोकानां माता देवारणिः शुभा ।
सदसद् देवि यत्किञ्चिन्मोक्षदाय्यर्थवत् पदम्

11.7

तत् सर्वं त्वयि संयोगि योगिवद् देवि संस्थितम् ।
अक्षरं परमं देवी यत्र सर्वं प्रतिष्ठितम् ।
अक्षरं परमं ब्रह्म विश्वं चैतत् क्षरात्मकम्

11.8

दारुण्यवस्थितो वह्निर्भृमौ गन्धो यथा ध्रुवम् ।
तथा त्वयि स्थितं ब्रह्म जगच्चेदमशेषतः

11.9

ओङ्काराक्षरसंस्थानं यत् तद् देवि स्थिरास्थिरम् ।
तत्र मात्रात्रयं सर्वमस्ति यद् देवि नास्ति च

11.10

त्रयो लोकास्त्रयो वेदास्त्रैविद्यं पावकत्रयम् ।
त्रीणि ज्योतींषि वर्गाश्च त्रयो धर्मादयस्तथा

11.11

त्रयो गुणास्त्रयो वर्णास्त्रयो देवास्तथा क्रमात् ।
त्रैधातवस्तथावस्थाः पितरश्चैवमादयः

11.12

एतन्मात्रात्रयं देवि तव रूपं सरस्वति ।
विभिन्नदर्शनामाद्यां ब्रह्मणो हि सनातनीम्

11.13

सोमसंस्था हविःसंस्था पाकसंस्था सनातनी ।
तास्त्वदुच्चारणाद् देवि क्रियन्ते ब्रह्मवादिभिः

11.14

अनिर्देश्यपदं त्वेतदर्द्धमात्राश्रितं परम् ।
अविकार्यक्षयं दिव्यं परिणामविवर्जितम्

11.15

तवैतत् परमं रूपं यन्न शक्यं मयोदितुम् ।
न चास्येन न वा जिह्वाताल्वोष्ठादिभिरुच्यते

11.16

स विष्णुः स वृषो ब्रह्म चन्द्राक्रज्योतिरेव च ।
विश्वावासं विश्वरूपं विश्वात्मानमनीश्वरम्

11.17

साङ्ख्यसिद्धान्तवेदोक्तं बहुशाखास्थिरीकृतम् ।
अनादिमध्यनिधनं सदसच्च सदेव तु

11.18

एकं त्वनेकधाप्येकभाववेदसमाश्रितम् ।
अनाख्यं षड्गुणाख्यं च बह्वाख्यं त्रिगुणाश्रयम्

11.19

नानाशक्तिविभावज्ञं नानाशक्तिविभावकम् ।
सुखात् सुखं महात्सौख्यं रूपं तत्त्वगुणात्मकम्

11.20

एवं देवि त्वया व्याप्तं सकलं निष्कलं च यत् ।
अद्वैतावस्थितं ब्रह्म यच्च द्वैते व्यवस्थितम्

11.21

येऽर्था नित्या ये विनश्यन्ति चान्ये येऽर्थाः स्थूला ये तथा सन्ति सूक्ष्माः ।
ये वा भूमौ ये ऽन्तरिक्षेन्यतो वा तेषां देवि त्वत्त एवोपलब्धिः

11.22

यद्वा मूर्तं यदमूर्तं समस्तं यद्वा भूतेष्वेकमेकं च किञ्चित् ।
यच्च द्वैते व्यस्तभूतं च लक्ष्यं तत्संबद्धं त्वत्स्वरैर्व्यञ्जनैश्च

11.23

एवं स्तुता तदा देवी विष्णोर्जिह्वा सरस्वती ।
प्रत्युवाच महात्मानं मार्कण्डेय महासुनिम् ।
यत्र त्वं नेष्यसे विप्र तत्र यास्याम्यतन्द्रिता

11.24

मार्कण्डेय उवाच
आद्यं ब्रह्मसरः पुण्यं ततो रामह्वदः स्मृतः ।
कुरुणा ऋषिणा पुष्टं कुरुक्षेत्रं ततः स्मृतम् ।
तस्य मध्येन वै गाढं पुण्या पुण्यजलावहा

मूल पाठ: Vāmanapurāṇa, Saromāhātmya · Edition: A.S. Gupta, Varanasi : All India Kashiraj Trust 1967 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc