वामन पुराण · अध्याय 69
इति श्रीवामनपुराणे अष्टषष्टितमो ऽध्यायः
पुलस्त्य उवाच ।
एतन्मया पुण्यतमं पुराणं तुभ्यं तथा नारद कीर्तितं वै ।
श्रुत्वा च कीर्त्या परया समेतो भक्त्या च विष्णोः पदमभ्युपैति
यथा पापानि पूयन्ते गङ्गावारिविगाहनात् ।
तथा पुराणश्रवणाद् दुरितानां विनाशनम्
न तस्य रोगा जायन्ते न विषं चाभिचारिकम् ।
शरीरे च कुले ब्रह्मन् यः श्रुणोति च वामनम्
श्रणोति नित्यं विधिवच्च भक्त्या संपूजयन् यः प्रणतश्च विष्णुम् ।
स चाश्वमेधस्य सदक्षिणस्य फलं समग्रं परिहिनपापः
प्राप्नोति दत्तस्य सुवर्णभूमेरश्वस्य गोनागरथस्य चैव नारी नरश्चापि च पादमेकं शृण्वन् शुचिः पुण्यतमः पृथिव्याम् ।
69.5 स्नाने कृते तीर्थवरे सुपुण्ये गङ्गाजले नैमिषपुष्करे वा ।
कोकामुखे यत् प्रवदन्ति विप्राः प्रयागमासाद्य च माघमासे
स तत्फलं प्राप्य च वामनस्य संकीर्तयन् नान्यमनाः पदं हि ।
गच्छेन्मया नारद ते ऽद्य चोक्तं यद् राजसूयस्य फलं प्रयच्छेत्
यद् भूमिलोके सुरलोकलभ्ये महत्सुखं प्राप्य नरः समग्रम् ।
प्रापनोति चास्य श्रवणान्महर्षे सौत्रामणेर्नास्ति च संशयो मे
रत्नस्य दानस्य च यत्फलं भवेद् यत्सूर्यस्य चेन्दोर्ग्रहणे च राहोः ।
अन्नस्य दानेन फलं यथोक्तं बुभुक्षिते विप्रवरे च साग्निके
दुर्भिक्षसंपीडितपुत्रभार्ये यामी सदा पोषणतत्परे च ।
देवाग्निविप्रर्षिरते च पित्रोः शुश्रुषके भ्रातरि ज्येष्ठसाम्ने ।
यत्तत्फलं संप्रवदन्ति देवाः स तत् फलं लभते चास्य पाठात्
चतुर्दशं वामनमाहुरग्र्यं श्रुते च यस्याघचयाश्च नाशम् ।
प्रयान्ति नास्त्यत्र च संशयो मे महान्ति पापान्यपि नारदाशु
पाठात् संश्रवणाद् विप्र श्रावणादपि कस्यचित् ।
सर्वपापानि नश्यन्ति वामनस्य सदा मुदे
इदं रहस्यं परमं तवोक्तं न वाच्यमेतद्धरिभक्तिवर्जिते ।
द्विजस्य निन्दारतिहिनदक्षिणे सहेतुवाक्यावृतपापसत्त्वे
नमो नमः कारण वामनाय नित्यं यो वदेन्नियतं द्विजः ।
तस्य विष्णुः पदं मोक्षं ददाति सुरपूजितः
वाचकाय प्रदातव्य गोभूस्वर्णविभूषणम् ।
वित्तशाठ्यं न कर्तव्यं कुर्वन् श्रवणनाशकम्
त्रिसंध्यं च पठन् शृण्वन् सर्वपापप्रणाशनम् ।
असूयारहितं विप्र सर्वसम्पत्प्रदायकम्
मूल पाठ: Vāmanapurāṇa, 1-69 · Edition: A.S. Gupta, Varanasi : All India Kashiraj Trust 1967 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0