वल्लालचरित · अध्याय 2.18
इति वल्लालचरिते व्यासपुराणे गोत्रकीर्त्तनं नाम सप्तदशो ऽध्यायः ।
अथाष्टादशो ऽध्यायः
राजर्षय ऊचुः:
ब्राह्मणानां क्षत्रियाणां वैश्यामाञ्चान्त्यजन्मनाम् ।
भेदान् ब्रूहि महाप्राज्ञ श्रोतुं कौतुहलं परम्
व्यास उवाच:
सारस्वताः कान्यकुब्जाः गौडा मैथिलकोत्कलाः ।
पञ्च गौडा इति ख्याता विन्ध्यस्योत्तरवासिनः
कर्णाटाश्चैव तैलङ्गा गुर्ज्जरा राष्ट्रवासिनः ।
अन्ध्राश्च द्राविडाः पञ्च विन्ध्यदक्षिणवासिनः
मगास्तु ब्राह्मणाः पूर्व्वं निःसृताः सूर्यमण्डलात् ।
ज्वलदर्कप्रतीकाशाः शाकद्वीपमवातरन्
इति ब्रह्मवर्गाः ।
पाण्डवाः पौरवा बौधाः सहस्रार्ज्जुनहैहयाः ।
चन्द्रात्रेय-कलचुरि-रट्ट-यादव-तोमराः
कौशिकाः कौकुराः कुश्या एते सौम्याः प्रकीर्त्तिताः ।
ऐक्ष्वाकवो निकुम्भाश्च मौर्य्याश्च सागरास्तथा
[[086]]
तथा कच्छपघाताश्च राघवा गोभिलास्तथा ।
तथा गाहडवालाश्च एते सौराः प्रकीर्त्तिताः
चाहमानाश्च मल्लाश्च छिन्दाश्चापोत्कटास्तथा ।
चौलूक्याश्च सिलाराश्च हूनाश्च ब्रह्मवाहुजाः
अग्निकुण्डसमुत्पन्नाः परमारा महाबलाः ।
शालुकिकाः सेन्द्रकाश्च काद्रवेया इति स्मृताः
वेणाद्वैण्यः पृथु र्जातः पृष्वीहारास्ततो ऽभवन् ।
वैनतेयास्तु तार्क्ष्या वै पालास्तु क्षत्रियाधमाः
इति क्षत्रियवर्गाः ।
उपकेशाश्व प्राक्वाटा रोहिताश्च महोत्सवाः ।
माहिष्मत्याश्च वैशाल्याः कौशाम्ब्याः श्रावकास्तथा
आयोध्यिकाश्च वणिजो गुर्ज्जरा भुवि विश्रुताः ।
उजानिकाश्च धनिनः सुवर्णा वणिजाधमाः
जेजातुतीया वणिजश्चन्द्ररश्मिसमुद्भवाः
मूल पाठ: Vallālacarita · Edition: Haraprasāda Śāstrī: Vallāla Caritam, Calcutta : Asiatic Society 1904 (Bibliotheca Indica, 164) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0