भाषा

ENहिગુ
ग्रंथ पाठ

वैतानश्रौतसूत्र · भाग 120

<1.1.1> (1.1) अथ वितानस्य । ब्रह्मा कर्माणि ब्रह्मवेदविद् दक्षिणतो विधिवद् उपविशति वाग्यतः ॥
<1.1.2> (1.2) होमान् आदिष्टान् अनुमन्त्रयते ॥
<1.1.3> (1.3) मन्त्रानादेशे लिङ्गवतेति भागलिः । <प्रजापते न त्वद् एतान्य् अन्यः [7.85(80).3]> इति युवा कौशिकः । यथादेवतम् इति माठरः । <ओं भूर् भुवः स्वर् जनद् ओ3म्> इत्य् आचार्याः ॥
<1.1.4> (1.4) प्रधानहोममन्त्रान् पुरस्ताद्धोमसंस्थितहोमेष्व् आवपन्त्य् एके ॥
<1.1.5> (1.5) वाचयति यजमानं भृग्वङ्गिरोविदा संस्कृतम् ॥
<1.1.6> (1.6) अग्निर् आहवनीयः ॥
<1.1.7> (1.7) संचरवाग्यमौ ब्रह्मवद् यजमानस्य ॥
<1.1.8> (1.8) देवताहविर्दक्षिणा यजुर्वेदात् ॥
<1.1.9> (1.9) आग्नीध्रस्योत्तरत उपाचारः । स्फ्यसंमार्गपाणेस् तिष्ठतो दक्षिणामुखस्य ॥
<1.1.10> (1.10) यथास्वरम् <अस्तु श्रौ3षट्> इति प्रत्याश्रावणम् ॥
<1.1.11> (1.11) यजमानो ऽमावास्यायां पूर्वेद्युर् उपवत्स्यद्भक्तम् अश्नात्य् अपराह्णे ॥
<1.1.12> (1.12) आहवनीयगार्हपत्यदक्षिणाग्निषु <ममाग्ने वर्चः [5.3.1]> इति समिधो ऽन्वादधाति विभागम् ॥
<1.1.13> (1.13) व्रतम् उपैति <व्रतेन त्वं व्रतपते [7.78(74).4]> इति । अनशनम् इत्यादि ॥
<1.1.14> (1.14) <ममाग्ने वर्चः [5.3.1-4]> इति चतसृभिर् देवताः परिगृह्णाति । <सिनीवालि पृथुष्टुके [7.48(46)]> इति मन्त्रोक्ताम् ॥
<1.1.15> (1.15) <अन्व् अद्य नः [7.21(20)]> इति पौर्णमास्याम् ॥
<1.1.16> (1.16) प्रातर् हुत्वाग्निहोत्रम् <कुहूं देवीम् [7.49(47)]> <यत् ते देवाः [7.84(79)]> इत्य् अमावास्यायाम् । <राकाम् अहम् [7.50(48)]> <पूर्णा पश्चात् [7.85(80)]> इति पौर्णमास्याम् ॥
<1.1.17> (1.17) अथ ब्रह्माणं वृणीते <भूपते भुवनपते भुवां पते महतो भूतस्य पते ब्रह्माणं त्वा वृणीमहे [त्ब् 3.7.6.1]> इति ॥
<1.1.18> (1.18) वृतो जपति <अहं भूपतिः, अहं भुवनपतिः, अहं भुवां पतिः, अहं महतो भूतस्य पतिः, तद् अहं मनसे प्रब्रवीमि मनो वाच वाग् गायत्र्यै गायत्र्य् उष्णिह उष्णिग् अनुष्टुभे ऽनुष्टुब् बृहत्यै बृहती पङ्क्तये पङ्क्तिस् त्रिष्टुभे त्रिष्टुब् जगत्यै जगती प्रजापतये प्रजापतिर् विश्वेभ्यो देवेभ्यः [त्ब् 3.7.6.1+2, मान्श्स् 5.2.15.2]> <ओं भूर् भुवः स्वर् जनद् ओ3म्> इति अप्रतिरथञ् च ॥
<1.1.19> (1.19) जीवाभिर् आचम्येत्यादि प्रपदनान्तम् ॥
<1.1.20> (1.20) उत्तरतो ऽग्नेर् दक्षिणतो ऽपराग्निभ्यां प्रपद्यासादं वीक्स्.य <अहे दैधिषव्य [त्स् 3.2.4.4]> इत्याद्य् आ द्यावापृथिव्योः समीक्षणात् ॥
<1.2.1> (2.1) यत्र विजानाति <ब्रह्मन्न् अपः प्रणेष्यामीति तत्र प्रणय यज्ञं देवता वर्धय त्वम् । नाकस्य पृष्ठे स्वर्गे लोके यजमानो अस्तु सप्त ऋषीणां सुकृतां यत्र लोकस् तत्रेमं यज्ञं यजमानं च धेहि, ओं भूर् भुवः स्वर् जनद् ओ3ं प्रणय [च्f. आप्श्स् 1.16.5]> इति यथास्वरम् अनुजानाति । एवं सर्वत्रानुज्ञापदम् आद्यन्तयोः ॥
<1.2.2> (2.2) प्रणीतासु प्रणीयमानासु वाचं यच्छत्य् आ हविष्कृत उद्वादनात् ॥
<1.2.3> (2.3) यदि वदेद् वैष्णवीं जपेत् ॥
<1.2.4> (2.4) आग्नीध्रो ऽन्वाहार्याधिश्रयणाद् वेदिं परिसमुह्योत्करदेशे निदधाति । स्तम्बयजुषो द्वितीयपुरीषे प्रहृते ऽवस्तभ्नाति च <अररो दिवं मा पप्तः [व्स्म् 1.26]> इति ॥
<1.2.5> (2.5) <बृहस्पते परिगृहाण [सकल अत् कौश्स् 137.11, कात्य्श्स् 2.2.12]> इति वेदिं परिगृह्यमाणाम् अनुमन्त्रयते ॥
<1.2.6> (2.6) <आशासाना सौमनसम् [14.1.42]> इति पत्नीं संनह्यमानाम् ॥
<1.2.7> (2.7) <घृतं ते अग्ने [7.87(82).6]> इत्य् आज्ये निरुप्यमाणे ऽग्निम् । <परि स्तृणीहि [7.104(99)]> इति वेदिं परिस्तृणन्तम् ॥
<1.2.8> (2.8) <यस्यां वृक्षाः [12.1.27]> इति परिधीन् निधीयमानान् ॥
<1.2.9> (2.9) <ऋषीणां प्रस्तरो ऽसि [16.2.6]> इति प्रस्तरम् ॥
<1.2.10> (2.10) आसादितेषु हविःषूक्तान् पुरस्ताद्धोमान् जुहोति । अभिचारेष्व् आभिचारिकान् संस्थितहोमांश् च ॥
<1.2.11> (2.11) <अग्नेर् मन्वे [4.23]> इति सामिधेनीर् अनुमन्त्रयते ॥
<1.2.12> (2.12) <प्रजापते न त्वद् एतान्य् अन्यः [7.85(80).3]> इति प्राजापत्यम् आघारम् ॥
<1.2.13> (2.13) <अग्नीत् परिधींश् चाग्निं च त्रिस्त्रिः संमृड्ढि [च्f. आप्श्स् 2.12.10]> इति प्रेषति आग्नीध्रः स्फ्यम् अग्निं च [चलन्द्, अऌ., सुग्गेस्त्स् {अग्निं च}: इन्तेर्पोलतिओन्] संमार्गम् अन्तरा कृत्वा परिधीन् मध्यमदक्षिणोत्तरान् त्रिस्त्रिः संमार्ष्टि <अग्ने वाजजित् वाजं त्वा सरिष्.यन्तं वाजजितं संमार्ज्मि [व्स्म् 2.7]> इति । संमार्गेणार्वाञ्चम् अग्निम् उपवाजयति <वाजं त्वाग्ने जेष्यन्तं सनिष्यन्तं संमार्ज्मि वाजं जय [च्f. बौध्श्स् 1.15:23.2 एत्च्.]> इति ॥
<1.2.14> (2.14) <इन्द्रेमम् [6.5.2]> इत्य् ऐन्द्रम् आघारम् ॥
<1.2.15> (2.15) प्रवरे प्रव्रियमाणे वाचयेद् <देवाः पितरः [6.123.3-5]> इति तिस्रः ॥
<1.2.16> (2.16) <ग्रीष्मो हेमन्तः [6.55.2]> इति प्रयाजान् ॥
<1.2.17> (2.17) <अहं जजान [6.61.3]> इत्य् आज्यभागौ ॥
<1.3.1> (3.1) <येनेन्द्राय [1.9.3]> इत्य् आग्नेयम् ॥
<1.3.2> (3.2) <मा वनिं मा वाचम् [5.7.6]> इत्य् ऐन्द्राग्नम् ॥
<1.3.3> (3.3) सांनाय्यस्यैन्द्रं माहेन्द्रं वा <इन्द्रेमम् [6.5.2]> <त्वम् इन्द्रस् त्वं महेन्द्रः [17.1.18]> इति ॥

<1.3.4> (3.4) पौर्णमास्याम् आग्नेयाग्नीषोमीयाव् अन्तरोपांशुयाजम् अन्गीषोमीयम् <अस्मै क्षत्रम् [6.54.2]> इति । नामावास्यायाम् अविधानात् ॥
<1.3.5> (3.5) <आ देवानाम् [19.59.3]> इति सौविष्टकृतम् ॥
<1.3.6> (3.6) इष्टे स्विष्टकृति वाचं यच्छत्य् आनुयाजानाम् प्रसवात् ॥
<1.3.7> (3.7) प्राशित्रं यवमात्रम् अधस्ताद् उपरिष्टाद् वाभिघारितम् अग्रेणाध्वर्युः परिहरति ॥
<1.3.8> (3.8) तत् <सूर्यस्य त्वा चक्षुषा प्रतीक्षे [प्स् 20.57.11, कौश्स् 91.2, ग्ब् 2.1.2]> इति प्रतीक्षते ॥
<1.3.9> (3.9) <देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां प्रसूतः प्रशिषा प्रतिगृह्णामि [कौश्स् 2.2, व्स्म् 2.11]> इति प्रतिगृह्णाति ॥
<1.3.10> (3.10) तद् व्युह्य तृणानि प्राग्दण्डं स्थण्डिले निदधाति <पृथिव्यास् त्वा नाभौ सादयामि [व्स्म् 2.11]> इति ॥
<1.3.11> (3.11) <अग्नेष् ट्वास्येन [प्स् 20.57.14, कौश्स् 65.14, ग्ब् 2.1.2]> <आत्मास्य् आत्मन्न् आत्मानं मे मा हिंसीः स्वाहा [कौश्स् 65.14]> इत्य् अनामिकाङ्गुष्ठाभ्यां दन्तैर् अनुपस्पृशन् प्राश्नाति ॥
<1.3.12> (3.12) प्राशितम् अनुमन्त्रयते <यो ऽग्निर् नृमणा नाम ब्राह्मणेषु प्रविष्टस् तस्मिन् एतत् सुहुतम् अस्तु प्राशित्रं तन् मा मा हिंसीत् परमे व्योमन् [प्स् 20.57.15, कौश्स् 65.15]> इति ॥
<1.3.13> (3.13) मातल्याद्भिः मार्जयित्वा प्राणान् संस्पृशते ॥ [च्: आचम्याद्भिः, ग्: पात्राण्य् अद्भिर्]
<1.3.14> (3.14) <वाङ् म आसन् नसोः प्राणश् चक्षुर् अक्ष्णोः श्रोत्रं कर्णयोर् बाह्वोर् बलम् ऊर्वोर् ओजो जङ्घयोर् जवः पादयोः प्रतिष्ठा । अरिष्टानि मे सर्वाङ्गानि सन्तु तनूस् तन्वा मे सह [च्f. 19.60.1, त्स् 5.5.9.2 एत्च्.]> इति नाभिम् ॥
<1.3.15> (3.15) <इडैवास्मान् [7.28(27).1]> इतीडाम् उपहूयमानाम् अनुमन्त्रयते ॥
<1.3.16> (3.16) आग्नीध्रः षडवत्तं प्राश्नाति <पृथिव्याः त्वा दात्रा प्राश्नाम्य् अन्तरिक्षस्य त्वा दिवस् त्वा [मान्श्स् 1.3.3.16]> इति ॥
<1.3.17> (3.17) <उप त्वा देवः [7.115(110).3अब्]> इतीडाभागं प्रतिगृह्य <इन्द्र गीर्भिः [7.115(110).3च्द्]> इति प्राश्नन्ति ॥
<1.3.18> (3.18) <अपो दिव्याः [7.94(89).1-3]> इति तिसृभिः पवित्रवति मार्जयन्ते ॥
<1.3.19> (3.19) यजमानो ऽन्वाहार्यम् अन्तर् वेद्याम् ॥
<1.3.20> (3.20) <प्रजापतेर् भागो ऽस्य् ऊर्जस्वान् पयस्वान् अक्षितो ऽस्य् अक्षित्यै त्वा मा मे क्षेष्ठाः, अमुत्रामुष्मिंल् लोक इह च, प्राणापानौ मे पाहि, समानव्यानौ मे पाहि, उदानरूपे मे पाहि, ऊर्ग् असि ऊर्जं मे धेहि, कुर्वतो मे मा क्षेष्ठाः, ददतो मे मोपदसः, प्रजापतिर् अहं त्वया समक्षम् ऋध्यासम् [ग्ब् 2.1.7]> इत्य् अभिमन्त्र्य ऋत्विग्भ्यो ददाति दक्षिणाम् ॥
<1.3.21> (3.21) प्रतिगृह्य <क इदम् [3.29.7]> इत्य् उक्तम् ॥
<1.3.22> (3.22) संप्रेषित आग्नीध्रः ॥
<1.4.1> (4.1) <एधो ऽसि [7.94(89).4]> इति समिद्वत्या समिधम् आधाय सकृत्सकृत् परिधीन् संमार्ष्टि <अग्ने वाजविद् वाजं त्वा ससृवांसं वाजजितं संमार्ज्मि [च्f. बौध्श्स् 1.19:28.2 एत्च्.]> इति ॥
<1.4.2> (4.2) अग्निं च प्राञ्चं <वाजं त्वाग्ने जिगीवांसं संमार्ज्मि वाजम् अजैः [च्f. बौध्श्स् 1.19:28.2]> इति ॥
<1.4.3> (4.3) <मनोज्योतिर् जुषताम् आज्यम् अरिष्टं यज्ञं सम् इमं तनोतु बृहस्पतिः प्रतिगृह्णातु नो विश्वे देवास इह मादयन्ताम् [च्f. अव्परिश् 22.9.4, त्स् 1.5.3.2 एत्च्.]> इत्य् अनुयाजान् ॥
<1.4.4> (4.4) <ये देवा दिवि ष्ठ [1.30.3]> इत्य् अनुवषट्कारम् ॥
<1.4.5> (4.5) <नुदस्व काम [9.2.4]> इति स्रुचौ विप्रणुद्यमाने अनुमन्त्रयते ॥
<1.4.6> (4.6) <सम् बर्हिर् अक्तम् [7.103(98)]> इति प्रस्तरं प्रह्रियमाणम् ॥
<1.4.7> (4.7) <संस्रावभागाः [सकल अत् कौश्स् 6.9, प्स् 20.35.2]> इति संस्रावम् ॥
<1.4.8> (4.8) <न घ्रंस् तताप [7.19(18).2]> <सं वर्चसा [6.53.3]> <देवानां पत्नीः [9.7.6]> <सुगार्हपत्य [12.2.45च्द्]> इति पत्नीसंयाजान् ॥
<1.4.7> (4.7) दक्षिणाग्निहोमान् । तृतीयम् <उलूखले मुसले [10.9.26]> इति ॥
<1.4.10> (4.10) आग्नीध्रः संमार्गम् अग्नौ प्रहरति <यो अग्नौ [7.92(87).1]> इति ॥
<1.4.11> (4.11) <वि ते मुञ्चामि [7.83(78).1]> <अहं वि ष्यामि [14.1.57]> <प्र त्वा मुञ्चामि [14.1.19]> इति पत्नीं योक्त्रेण विमुच्यमानाम् अनुमन्त्रयते ॥
<1.4.12> (4.12) <वेदः स्वस्तिः [7.29(28)]> इति वेदं विचृतति ॥
<1.4.13> (4.13) समिष्टयजुषः <यान् आवहः [7.102(97).3-8]> इति षड्भिः संस्थितहोमान् जुहोति । <मनसस्पते [7.102(97)].8]> इत्य् आसाम् उत्तमा ॥
<1.4.14> (4.14) प्रणीता विमुच्यमानाः <सस्रुषीः [6.23]> इत्य् अनुमन्त्रयते ॥
<1.4.15> (4.15) <येषां प्रयाजाः [1.30.4]> इति यजमानम् आशास्ते ॥
<1.4.16> (4.16) <यद् अन्नम् [6.71]> इति भागं प्राश्य <देव सवितर् एतत् ते प्राह, तत् प्र च सुव प्र च यज । बृहस्पतिर् ब्रह्मा स यज्ञं पाहि, स यज्ञपतिं पाहि स मां पाहि, स मां कर्मण्यं पाहि [ग्ब् 2.1.4 एत्च्.]> इत्य् आह ॥
<1.4.17> (4.17) यजमान उदपात्रे ऽञ्जलाव् आसिक्ते <सं वर्चसा [6.53.3]> इति मुखं विमार्ष्टि ॥
<1.4.18> (4.18) अन्तरेणापराग्नी दक्षिणेनाग्निं विष्णुक्रमादीक्षणान्तम् ॥
<1.4.19> (4.19) <अग्ने गृहपते [सकल अत् कौश्स् 70.9, च्f. व्स्म् 2.27 एत्च्.]> इति गार्हपत्यम् उपतिष्ठते ॥
<1.4.20> (4.20) <यस्योरुषु [7.26.3]> इत्य् आहवनीयम् अभिव्रज्य <प्राणापानौ [2.16]> <ओजो ऽसि [2.17]> इति_उक्तम् ॥
<1.4.21> (4.21) <अयं नो अग्निः [सकल अत् कौश्स् 89.13, प्स् 20.61.5-6]> इति द्वाभ्याम् उपस्थाय <सं यज्ञपतिर् आशिषा [व्स्म् 6.10 एत्च्.]> इति भागं प्राश्नाति ॥

<1.4.22> (4.22) <व्रतानि व्रतपतये [सकल अत् कौश्स् 42.17, प्स् 19.51.4]> इति व्रतविसर्जनीम् आदधाति ॥
<1.4.23> (4.23) एतस्माद् याजमानाद् ऋते_अपसिद्धिः । तद् अपि श्लोकौ वदतः <प्रवर्ग्यो याजमानानि पत्नीमन्त्राश् च तत् त्रयम् । अङ्गं च यज्ञे भवत्य् ऋते चैभ्यो ऽपसिद्ध्यति ॥ प्रवर्ग्याच् छौर्यम् आप्नोति याजमानेन चाशिषः । पत्नीमन्त्रैः प्रजाम् आयुस् तस्मात् तेनैव सिद्ध्यति ॥> इति ॥
<1.4.24> (4.24) दर्शपौर्णमासौ त्रिंशतं वर्णानि । पञ्चदश दाक्षायणयज्ञः ॥
<1.4.25> (4.25) पौर्णमास्यां पौर्णमासम् अपरेद्युश् च । एवम् अमावास्यायाम् ॥
<1.4.26> (4.26) संवत्सरं वा ॥
<1.4.27> (4.27) साकंप्रस्थाय्यादीनि च । एताभ्याम् इष्टयो व्याख्याता व्याख्याताः ॥
<2.1.1> (5.1) अथाग्न्याधेयम् ॥
<2.1.2> (5.2) वसन्ते ब्राह्मणास्य । ग्रीष्मे राजन्यस्य । वर्षासु वैश्यस्य । त्रीणि पर्वाणि [कौश्स् 94.7] इत्य् उक्तम् ॥
<2.1.3> (5.3) यदैव कदा चिद् आदध्याच् छ्रद्धा त्वेवैनं नातीयात् ॥ [ग् न्वेवैनं]
<2.1.4> (5.4) उक्तो ब्रह्मौदनः ॥
<2.1.5> (5.5) ऋत्विज उपसादयति ॥
<2.1.6> (5.6) अभिमन्त्रितं वादध्यात् ॥
<2.1.7> (5.7) <यो अश्वत्थः शमीगर्भ आरुरोह त्वे सचा । तं ते हरामि ब्रह्मणा यज्ञियैः केतुभिः सह ॥ जातवेदो भुवनस्य यद् रेत इह सिञ्च तपसो यज् जनिष्यते । अग्निम् अश्वत्थाद् अधि हव्यवाहं शमीगर्भाज् जनयन् यो मयोभूः [त्ब् 1.2.1.8 एत्च्.]> इति मन्त्रोक्ते अरणी गृह्णन्तम् आधास्यमानं वाचयति ॥
<2.1.8> (5.8) वाग्यता जाग्रतो रात्रिम् आसते । पररात्रं वा ॥
<2.1.9> (5.9) <बृहस्पते सवितः [7.16.1]> इति स्वपतो बोधयेत् ॥
<2.1.10> (5.10) उषसि शान्त्युदकं करोति चित्यादिभिर् आथर्वणीभिः कपूर्विपर्वारोदाकावृक्कावतीनाडानिर्दहन्तीभिर् आङ्गिरसीभिश् च । चातनैर् मातृनामभिर् वास्तोष्पत्यैर् अनुयोजितैः ॥
<2.1.11> (5.11) तेनाग्निपदम् अश्वं स्नापयन्न् अभ्युक्षञ् छमयति ॥
<2.1.12> (5.12) अनुदित उदिते वाधास्यमानः आकृतिलोष्टेत्याद्य् [कौश्स् 69.10?] उपस्थानान्तम् ॥
<2.1.13> (5.13) <यत् त्वा क्रुद्धाः [12.2.5]> इत्य् उपोद्धरन्त्य् आचार्याः । आहवनीयदक्षिणाग्न्योर् लक्षणान्तम् ॥
<2.1.14> (5.14) <पुरीष्यो ऽसि विश्वभराः । अथर्वा त्वा प्रथमो निर् अमन्थद् अग्ने ॥ त्वाम् अग्ने पुष्कराद् अध्य् अथर्वा निर् अमन्थत । मूर्ध्नो विश्वस्य वाघतः ॥ तम् उ त्वा दध्यङ्ङ् ऋषिः पुत्र ईधे अथर्वणः । वृत्रहणं पुरंदरम् ॥ तम् उ त्वा पाथ्यो वृषा समीधे दस्युहन्तमम् । धनंजयं रणेरणे [त्स् 4.1.3.2-3]> इति मथ्यमानम् अनुमन्त्रयते ॥
<2.1.15> (5.15) जातं <सुजातं जातवेदसम् [4.23.4]> इति ॥
<2.1.36> (5.36) जातरूपेणान्तर्धाय । नासिक्येनोष्मणास्येन वा । <मय्य् अग्र [7.82.2]> इत्य् एतयापानति ॥
<2.1.17> (5.17) अश्वपादं लक्षणे निधाप्यमानं <सम् अध्वराय [3.16.6]> इत्य् अनुमन्त्रयते ॥
<2.1.18> (5.18) रथेनाग्नौ प्रणीयमाने ऽश्वे ऽन्वारब्धं वाचयति ॥
<2.2.1> (6.1) <यद् अक्रन्दः प्रथमं जायमान उद्यन्त् समुद्राद् उत वा पुरीषात् । श्येनस्य पक्षा हरिणस्य बाहू उपस्तुत्यं महि जातं ते अर्वन् ॥ यद् अक्रन्दः सलिले जातो अर्वन्त् सहस्वान् वाजिन् बलवान् बलेन । तं त्वादधुर् ब्रह्मणे भागम् अग्ने अथर्वाणः सामवेदो यजूंषि ॥ ऋग्भिः पूतं प्रजापतिर् अथर्वणे ऽश्वं प्रथमं निनाय । तस्य पदे प्रथमं ज्योतिर् आदधे स मा वहाति सुकृतां यत्र लोकः ॥ अभितिष्ठ पृतन्यतो मह्यं प्रजाम् आयुश् च वाजिन् धेहि । त्वया वधेयं द्विषतः सपत्नान् स्वर्गं मे लोकं यजमानाय धेहि ॥ अभितिष्ठ पृतन्यतः सहस्व पृतनायतः । यथाहम् अभिभूः सर्वाणि तानि धूर्वतो जनान् [-, प्रतीक अत् ग्ब् 1.2.18]> इति ॥
<2.2.2> (6.2) आहवनीयदक्षिणाग्नी गार्हपत्यात् सह प्रणीयमाणौ <व्याकरोमि [12.2.32]> इत्य् अनुमन्त्रयते ॥
<2.2.3> (6.3) आहितम् आहवनीयम् <आयं गौः [6.31.1-3]> इत्य् उपतिष्ठते ॥
<2.2.4> (6.4) दक्षिणाग्निर् निर्मथ्य आहार्यो वा ॥
<2.2.5> (6.5) सभ्यावसथ्ययोर् आहवनीयाद् विहारः । सभ्याद् वावसथ्यस्य । सभ्यः सभायै । आवसथ्य आवसथाय ॥
<2.2.6> (6.6) अग्निपदम् अश्वं रथं चातुष्प्राश्यां हिरण्यं च ब्रह्मणे ददाति ॥
<2.2.7> (6.7) <अग्निं त्वाहुर् वैश्वानरं सदनान् प्रदहन् न्व् अगाः । स नो देवत्राधि ब्रूहि मा रिषामा वयं तव [प्स् 1.95.3, सकल अल्सो अत् ग्ब् 1.2.21]> इत्य् अश्वं शमयित्वा <यद् अक्रन्दः [वैत्स् 6.1]> इत्य् उपाकुरुते ॥ [ग् प्रदहन् न्व् अगाः; व् प्रदहन्वगाः]
<2.2.8> (6.8) <इन्द्रस्यौजो मरुताम् अनीकम् [6.125.3]> इति रथम् अभि हुत्वा <वनस्पते वीड्वङ्गः [6.125.1]> इत्य् आतिष्ठति ॥
<2.2.9> (6.9) उपविश्य पूर्णहोमम् <उप त्वा नमसा [3.15.7-8]> इति ॥
<2.2.10> (6.10) <इदम् उग्राय [7.109.1]> इत्य् अन्वक्तान् अक्षान् विदेवनायाध्वर्यवे प्रयच्छति ॥
<2.2.11> (6.11) आग्न्याधेयिकीष्व् इष्टिष्व् अग्नेः पवमानस्य पावकस्य शुचेर् अदितेर् इति <पवमानः पुनातु [6.19.2]> <त्वेषस् ते [18.4.59]> <अग्नी रक्षांसि [8.3.26]> <अदितिर् द्यौः [7.6.1]> इति ॥
<2.2.12> (6.12) यजमानो द्वादशरात्रम् उपवत्स्यद्भक्तम् [कौश्स् 1.31-32] इत्य् उक्तम् ॥
<2.2.13> (6.13) ब्रह्मचारी व्रत्य् अधो ऽग्नीन् उपशेते ॥
<2.3.1> (7.1) सायंप्रातर् अग्निहोत्रम् ॥
<2.3.2> (7.2) गवीडां दोहयित्वाग्निहोत्रम् अधिश्रयति ॥
<2.3.3> (7.3) अभिज्वाल्य समुद्वान्तम् अद्भिः प्रत्यानीयोदग् उद्वासयति ॥

<2.3.4> (7.4) अग्निपरिस्तरणं पर्युक्षणम् <ऋतं त्वा [त्ब् 2.1.11.1]> इति ॥
<2.3.5> (7.5) गार्हपत्याद् आहवनीयम् उदकधारां निनयत्य् <अमृतम् अस्य् अमृतम् अमृतेन संधेहि [अव्परिश् 45.1.11; च्f. कौश्स् 80.56]> इति ॥
<2.3.6> (7.6) स्रुक्स्रुवं प्रक्षालितं प्रतपति <निष्टप्तम् [कौश् 3.9]> इति ॥
<2.3.7> (7.7) स्रुवेण स्रुचि ग्रहान् उन्नयति
<2.3.8> (7.8) समिदुत्तरां स्रुचं मुखसंमिताम् उद्गृह्याहवनीयम् अभिप्रक्रामति <इदम् अहं यजमानं स्वर्गं लोकम् उन्नयामि [अव्परिश् 45.1.16]> इति ॥
<2.3.9> (7.9) बर्हिषि निधाय समिधम् आदधात्य् <अग्निज्योतिषं त्वा वायुमतीं प्राणवतीं स्वर्ग्यां स्वर्गायोपदधामि भास्वतीम् [अव्परिश् 45.1.18]> इति ॥
<2.3.10> (7.10) <सूर्यज्योतिषम्> इति प्रातः ॥
<2.3.11> (7.11) प्रदीप्ताम् अभिजुहोति <सजूर् देवेन सवित्रा सजू रात्र्येन्द्रवत्या । जुषाणो अग्निर् वेतु स्वाहा [अव्परिश् 45.1.20]> इति । <सजूर् उषसा> इति <जुषाणः सूर्यः [अव्परिश् 45.1.21]> इति प्रातः ॥
<2.3.12> (7.12) <अयं मा लोको ऽनुसंतनुताम् [-]> इति गार्हपत्यम् अवेक्ष्य <प्रजापते न त्वद् एतान्य् अन्यः [7.80.3]> इति मनसैव पूर्णतराम् उत्तरां जुहोति ॥
<2.3.13> (7.13) स्रुवं त्रिर् उदञ्चम् उन्नयति <रुद्रान् प्रीणामि [अव्परिश् 45.1.25]> इति ॥
<2.3.14> (7.14) बर्हिषि निधायोन्मृज्योत्तरतः पाणी निमार्ष्ट्य् <ओषधिवनस्पतीन् प्रीणामि [-]> इति ॥
<2.3.15> (7.15) द्वितीयम् उन्मृज्य पित्र्युपवीतं कृत्वा दक्षिणतः <पितृभ्यः स्वधां करोमि [अव्परिश् 45.1.27]> इति ॥
<2.3.16> (7.16) अपराग्न्योः काम्यम् अग्निहोत्रं नित्यम् इत्य् आचार्याः ॥
<2.3.17> (7.17) गार्हपत्ये समिधम् आधाय स्थाल्याः स्रुवेण जुहोति <इह पुष्टिं पुष्टिपतिर् दधात्व् इह प्रजां रमयतु प्रजापतिः । अग्नये गृहपतये रयिमते पुष्टिपतये स्वाहा [अव्परिश् 45.2.3]> इति ॥
<2.3.18> (7.18) उक्तोत्तरा ॥
<2.3.19> (7.19) दक्षिणाग्नाव् <अग्नये ऽन्नादायान्नपतये स्वाहा [अव्परिश् 45.2.4]> इति पूर्वा ॥
<2.3.20> (7.20) <सत्यं त्वर्तेन [कौश्स् 6.20, च्f. त्ब् 2.1.11.1]> इति पर्युक्ष्य स्रुवं स्रुचं बर्हिश् चोत्तरेणाग्निं निदधाति ॥
<2.3.21> (7.21) स्रुक्शेषं प्राश्नाति ॥
<2.3.22> (7.22) <प्राणान् प्रीणामि> इत्य् उपस्पृश्य । <गर्भान्> इति द्वितीयम् । <विश्वान् देवान् [अव्परिश् 45.2.7]> इत्य् अन्ततः सर्वम् । अप्रक्षालितयोदकं स्रुचा निनयति सर्पेतरजनान् इति । बर्हिषि प्रक्षाल्य सर्पपुण्यजनान् इति द्वितीयम् । गन्धर्वाप्सरस इत्य् अपरेण तृतीयम् ॥
<2.3.23> (7.23) सप्तर्षीन् इति स्रुवं स्रुचं च प्रतपति ॥ [प्रतितपति ग्]
<2.3.24> (7.24) दक्षिणान् नयामीति स्रुग्दण्डम् अवमार्ष्टि । प्रातर् उन्मार्ष्टि ॥
<2.3.25> (7.25) ब्राह्मणोक्तम् अग्न्युपस्थानम् ॥
<2.3.26> (7.26) अथ गवीडादिभ्रेषे तस्यै तस्यै देवतायै जुहुयात् ॥
<2.4.1> (8.1) त्रयोदश्याम् आग्नावैष्णवम् एकादशकपालं निर्वपेद् दर्शपूर्णमासाव् आरिप्समानो <अग्नाविष्णू [7.29.1]> इति ॥
<2.4.2> (8.2) पूर्वं पौर्णमासम् आरभमाणः सरस्वत्यै च चरुं सरस्वते द्वादशकपालं <सरस्वति व्रतेषु [7.68.1]> <यस्य व्रतम् [7.40.1]> इति ॥
<2.4.3> (8.3) आधानाद् वृद्धिश् चेद् अर्वाक् संवत्सराद् रोहिण्याम् उत्सृज्याग्निहोत्रं पुनर्वस्वोः पुनर् आदधीतों भूर् भुवः स्वर् जनद् ओम् इति ॥
<2.4.4> (8.4) ओषधीषु पक्वास्व् आग्रयणेष्टिः ॥
<2.4.5> (8.5) <इदावत्सराय [6.55.3]> इति पुरस्ताद्धोमसंस्थितहोमेष्व् आवपेत ॥
<2.4.6> (8.6) <अग्न इन्द्र [7.110.1]> इत्य् आग्नेन्द्रम् । ऐन्द्राग्नं च <इन्द्राग्नी अस्मान् [सकल अत् कौश्स् 5.2, श्स् 10.1.21च्द् + र्व् 1.93.3च्द्]> इति ॥
<2.4.7> (8.7) <यद् विद्वांसः [6.115.1]> <द्वावापृथिवी उपश्रुत्या [2.16.1]> <सोमो वीरुधाम् [5.24.7]> इति वैश्वदेवद्यावापृथिवीयसौम्यान् ॥
<2.4.8> (8.8) फाल्गुन्यां पौर्णमास्यां चातुर्मास्यानि प्रयुञ्जीत ॥
<2.4.9> (8.9) पूर्वेद्युर् वैश्वानरपार्जन्येष्टिर् वा <अग्ने वैश्वानर [2.16.4]> <अभि क्रन्द स्तनय [4.15.6]> इति ॥
<2.4.10> (8.10) वैश्वदेवे निर्मथ्यं प्रहृतं <भवतं नः समनसौ [सकल अत् कौश्स् 108.2, च्f. व्स्म् 5.3 एत्च्.]> इत्य् अनुमन्त्रयते ॥
<2.4.11> (8.11) <अग्नाव् अग्निः [4.39.9]> इति होमम् ॥
<2.4.12> (8.12) एवं निर्मन्थनम् ॥
<2.4.13> (8.13) आग्नेयं सौम्यं सावित्रं सारस्वतं पौष्णं मारुतं वैश्वदेवं द्यावापृथिवीयम् <अग्निर् वनस्पतीनाम् [5.24.2]> <सोमो वीरुधाम् [5.24.7]> <सविता प्रसवानाम् [5.24.1]> <सरस्वति व्रतेषु [7.68.1]> <प्रपथे पथाम् [7.9.1]> <मरुतः पर्वतानाम् [5.24.6]> <विश्वे देवा मम [9.2.7]> <द्यावापृथिवी दातॄणाम् [5.24.3]> इति ॥
<2.4.14> (8.14) वाजिनस्य <अर्वाचीनं वसुविदम् [3.16.6च्द्]> इति ॥
<2.4.15> (8.15) तस्य प्राणभक्षान् भक्षयन्ति होत्रध्वर्युब्रह्माग्नीध्राः । प्रत्यक्षं यजमानः । मिथः समुपहूय ॥
<2.4.16> (8.16) <यन् मे रेतः प्रसिच्यते यद् वा मे अपगच्छति यद् वा जायते पुनस् तेन मा शिवम् आविश । तेन मा वाजिनं कृणु तेन सुप्रजसं कृणु तस्य ते वाजिपीतस्योपहूतो भक्षयामि ॥ [च्f. बौध्श्स् 5.4:132.6 एत्च्.]> इति प्रकृतिः ॥ [ग्: प्रसिध्यति]
<2.4.17> (8.17) आषाढ्यां वरुणप्रघासेष्व् अग्न्योः प्रणीयमानयोर् <अग्ने प्रेहि [4.15.5]> इति जपन्न् एति ॥

<2.4.18> (8.18) दक्षिणम् अग्निम् उपविशति ॥
<2.4.19> (8.19) पुरस्ताद् अतिव्रज्योत्तरे ऽग्नौ हुत्वा दक्षिणे जुहोति ॥
<2.4.20> (8.20) अतिचारं पृष्टां पत्नीम् <इदम् आपः प्र वहत [7.89.3]> इति मार्जयन्ति ॥
<2.4.21> (8.21) पौष्णान्तान् पञ्च ॥
<2.4.22> (8.22) ऐन्द्राग्नं वारुणं मारुतं कायं <वरुणो ऽपां [5.24.4]> <य आत्मदाः [4.2.1]> इति ॥
<2.4.23> (8.23) अवभृथः सोमात् ॥ अन्तरेण वेदी विष्णुक्रमाः ॥ [ग्: अवभृथसोमाद् अन्तरेण ...]
<2.5.1> (9.1) कार्त्तिक्यां साकमेधाः ॥
<2.5.2> (9.2) पूर्वेद्युर् इष्ट्याम् अग्नेर् अनीकवतो <अचिक्रदत् [3.3.1]> इति । मध्यंदिने सांतपनानां मरुतां <सांतपना इदम् [7.77.1]> इति । सायं गृहमेधिनां <तिग्मम् अनीकम् [4.27.7]> इति ॥
<2.5.3> (9.3) आज्यभागाद् ईडान्ता ॥
<2.5.4> (9.4) श्वो भूते पूर्णदर्व्यं <पूर्णा दर्वे [3.10.7]> इति ॥ [ग्: पूर्णदर्वं]
<2.5.5> (9.5) क्रीडिनां मरुतां <कृष्णं नियानम् [6.22.1]> इति ॥
<2.5.6> (9.6) माहेन्द्र्यां षड् ऐन्द्राग्नान्तान् ॥
<2.5.7> (9.7) माहेन्द्रं वैश्वकर्मणं <ये भक्षयन्तः [2.35.1]> इति ॥
<2.5.8> (9.8) पित्र्यायाम् आज्यभागान्तं दैवावृत् । <सोमाय पितृमते । पितृभ्यः सोमवड्भ्यः [18.4.72-73]> वा <बर्हिषदः पितरः [18.1.51]> <उपहूता नः पितरः [18.3.45]> <अग्निष्वात्ताः पितरः [18.3.44]> <अग्नये कव्यवाहनाय [18.4.71]> इति ॥
<2.5.9> (9.9) पुरस्ताद्धोमान् दक्षिणाग्नेर् अतिप्रणीते जुहोति ॥
<2.5.10> (9.10) दक्षिणेनाग्निम् अतिक्रम्य प्रत्यङ्ङ् उपविशति । उत्तरेण यजमान आग्नीध्रश् च ॥
<2.5.11> (9.11) <अस्तु स्वधा> इति प्रत्याश्रावयत् ॥
<2.5.12> (9.12) तद् अपि श्लोकौ वदतः <पित्र्यायां प्राङ्मुखो ब्रह्मा हुत्वा होमान् पुरोगमान् । गत्वा तु दक्षिणेनाग्नेः प्रत्यङ्ङ् आसीत कर्मणि ॥ आग्नीध्रो यजमानश् चोत्तरेण तु ताव् उभौ अस्तु स्वधेति वक्तव्यं प्रत्याश्रावणम् अत्र तु> इति ॥ [ग्: आसीद]
<2.5.13> (9.13) इडाम् अवजिघ्रति ॥
<2.5.14> (9.14) परिषिक्ते दैवावृत् । शंय्वन्ता ॥
<2.5.14> (9.14) विमितान् निष्क्रामन्तो जपन्ति <अया विष्ठा [7.3.1]> इति ॥
<2.5.16> (9.16) प्राञ्चो ऽभ्युत्क्रम्य <उद् अस्य केतवः [13.2.1]> इत्य् आदित्यम् उपतिष्ठन्ते ॥
<2.5.17> (9.17) दक्षिणाञ्चो <दिवं पृथिवीम् [3.21.7]> इत्य् अग्नीन् ॥
<2.5.18> (9.18) अथोदञ्चश् चतुष्पथे त्रैयम्बकं <यो अग्नौ [7.78.1]> इति ॥
<2.5.19> (9.19) यजमानार्यजनाः सव्यहस्तपुरोडाशा दक्षिणान् ऊरून् आघ्नानास् त्रिः प्रसव्यम् अग्निम् अनुपरियन्ति <त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकम् इव बन्धनान् मृत्योर् मुक्षीय मामृतात् [ऋव् 7.59.12]> इति ॥
<2.5.20> (9.20) दक्षिणहस्तपुरोडाशाः प्रदक्षिणम् ॥
<2.5.21> (9.21) मूतयोः प्रमुक्तयोर् <यो नः स्वः [1.19.3]> इति जपति ॥
<2.5.22> (9.22) दक्षिणावृत आव्रजन्ति ॥
<2.5.23> (9.23) अथादित्येष्टिः ॥
<2.5.24> (9.24) फाल्गुन्यां शुनासीर्यम् ॥
<2.5.25> (9.25) पुनःप्रयोगे पूर्वेद्युः ॥
<2.5.26> (9.26) पौष्णान्तान् पञ्च ॥
<2.5.27> (9.27) वायव्यं शुनासीर्यं सौर्यम् <एकया च [7.4.1]> <शुनासीरेह [3.17.7]> <सूर्यश् चक्षुषाम् [5.24.9]> इति ॥
<2.6.1> (10.1) अथ पशौ वैष्णवं पूर्णहोमम् <उरु विष्णो [श्स् 7.26.3च्; प्स् 20.7.7]> इति ॥
<2.6.2> (10.2) <अरातीयोः [10.6.1]> इति यूपं वृश्च्यमानम् अनुमन्त्रयते ॥
<2.6.3> (10.3) <यत् त्वा शिक्वः [10.6.3]> इति प्रक्षाल्यमानम् ॥
<2.6.4> (10.4) <अञ्जते व्यञ्जते [18.3.18]> इत्य् अभ्यज्यमानम् ॥
<2.6.5> (10.5) <स्वाक्तं मे [7.30]> इत्य् आज्यमानम् । गन्धप्रवादाभिर् अनुलिप्यमानम् ॥
<2.6.6> (10.6) <यत् ते वासः [8.2.16]> इति परिधाप्यमानम् ॥
<2.6.7> (10.7) <वनस्पते स्तीर्णम् [12.3.33]> इति बर्हिष्य् आसाद्यमानम् ॥

<2.6.8> (10.8) <वनस्पतिः सह [12.3.15]> <यस्यां सदः [12.1.38]> इत्य् उच्छ्रीयमाणम् ॥
% नोते प्रतीक स्प्लित्तिन्ग् चोम्पोउन्द् सदोहविर्धाने.
<2.6.9> (10.9) <धर्ता ध्रियस्व [12.3.35]> इति पादेनावटे निधीयमानम् ॥
<2.6.10> (10.10) <विष्णोः कर्माणि [7.26.6-7]> इति द्वाभ्याम् उच्छ्रितम् ॥
<2.6.11> (10.11) <समिद्धो अद्य [5.12.1]> इति प्रयाजान् ॥
<2.6.12> (10.12) नाराशंसिनां <देवो देवेषु [5.27.2-3] > इति द्वितीयम् ॥
<2.6.13> (10.13) <ऊर्ध्वा अस्य [5.27]> इतीष्टकापशौ ॥
<2.6.14> (10.14) <आनयैतम् [9.5.1] > इत्याद्याञ्जनान्तम् ॥
<2.6.15> (10.15) <इन्द्राय भागम् [9.5.2]> इति यथादेवतम् ॥
<2.6.16> (10.16) <य ईशे [2.34.1]> इति प्रमुच्यमानम् अनुमन्त्रयते ॥
<2.6.17> (10.17) नीयमाने प्रमुच्यमानहोमाञ् जुहुयात् <प्रमुच्यमानो भुवनस्य गोप पशुर् नो अत्र प्रति भागम् एतु । अग्निर् यज्ञं त्रिवृतं सप्ततन्तुं देवो देवेभ्यो हव्यं वहतु प्रजानन् ॥ यौ ते दंष्ट्रौ रोपयिष्णू जिह्मायेते दक्षिणा सं च पश्यतः । अनाष्ट्रं नः पितरस् तत् कृणोत यूपे बद्धं प्रमुमुचिमा यदन्नम् ॥ अह्रस्तस् त्वम् अभिजुष्टः परेहीन्द्रस्य गोष्ठम् अपि धाव विद्वान् । धीरासस् त्वा कवयः संमृजन्त्व् इषम् ऊर्जं यजमानाय दत्त्वा [प्स् 5.28.1-3]> इति ॥
<2.6.18> (10.18) शास्यमाने प्रदक्षिणम् आवर्तन्ते ॥
<2.6.19> (10.19) वपायाः <जातवेदो वपया [सकल अत् कौश्स् 45.11, च्f. त्स् 3.1.4.4]> इति । शंभुमयोभुभ्यां चात्वाले मर्जयन्ति ॥
<2.6.20> (10.20) ऐन्द्राग्नं पुरोदाशम् आवदानिकं च ॥
<2.6.21> (10.21) संप्रेषित आग्नीध्रः शामित्राद् औपयजान् अङ्गारान् होतुः पुरस्तान् निर्वपति ॥
<2.6.22> (10.22) हृदयशूल उपमिते <अप्सु ते राजन् [7.83.1]> इति जपन्ति ॥
<2.6.23> (10.23) ऐन्द्राग्नेनेष्ट्वा काम्यः पशुः ॥
<3.1.1> (11.1) सोमेन यक्ष्यमाण <ऐन्द्राग्नम् उस्रम् आलभेत यस्य पिता पितामहः सोमं न पिबेत् [ग्ब् 2.1.16]> ॥
<3.1.2> (11.2) ऋत्विजो वृणीते । अथर्वाङ्गिरोविदं ब्रह्माणम् । सामविदम् उद्गातारम् । ऋग्विदं होतारम् । यजुर्विदम् अध्वर्युम् ॥
<3.1.3> (11.3) ब्राह्मणाच्छंसी पोताग्नीध्र इति ब्रह्मणो ऽनुचराः सदस्यश् च । प्रस्तोता प्रतिहर्ता सुब्रह्मण्य इत्य् उद्गातुः । मैत्रावरुणो ऽच्छावाको ग्रावस्तुद् इति होतुः । प्रतिप्रस्थाता नेष्टोन्नेतेत्य् अध्वर्योः ॥
<3.1.4> (11.4) वसन्तादिषु यथावर्णम् । देवयजनम् इत्य् उक्तम् ॥
<3.1.5> (11.5) <यस्य श्वभ्र ऊर्मो वृक्षः पर्वतो नदी पन्था वा पुरस्तात् स्यात् । न देवयजनमात्रं पुरस्तात् पर्यवशिष्येत् [ग्ब् 1.2.14]> ॥
<3.1.6> (11.6) सोमरूपाण्य् अनुध्यायेत् ॥
<3.1.7> (11.7) दीक्षणीयायाम् आग्नावैष्णवम् ॥
<3.1.8> (11.8) पत्नीसंयाजान्ता ॥
<3.1.9> (11.9) दीक्षितः <अभ्यञ्जनम् [6.124.3] > इत्य् अभ्यज्यमानो जपति ॥
<3.1.10> (11.10) <पुनन्तु मा [6.19.1]> इति पाव्यमानः ॥
<3.1.11> (11.11) <सुत्रामाणम् [7.6.3]> इति कृष्णाजिनम् उपवेशितः ॥
<3.1.12> (11.12) दीक्षितावेदनात् कामं चरन्ति ॥
<3.1.13> (11.13) अस्तम् इते वाग्विसर्जनाद् <अस्तंयते नमः [17.1.23]> इति नमस्कृत्य <नक्षत्राणां मा संकाशश् च प्रतीकाशश् चावताम् [च्f. कौश्स् 82.11]> इति नक्षत्राण्य् उपतिष्ठते ॥
<3.1.14> (11.14) दक्षिणेनाग्निं कशिप्वित्यादि वीक्षणान्तम् ॥
<3.1.15> (11.15) <पुनः प्राणः [6.53.2]> इति मन्त्रोक्तान्य् अभिमन्त्रयते ॥
<3.1.16> (11.16) <आदित्यस्य मा संकाशः [-, ऊह ओf 11.13]> । <उद्यते नमः [17.1.22]> इत्य् आदित्यम् उपतिष्ठते ॥
<3.1.17> (11.17) व्रतानि ॥
<3.1.18> (11.18) अप्रत्युत्थायिकः । अनभिवादुकः ॥
<3.1.19> (11.19) न नाम गृह्णाति । विचक्षणोत्तरं ब्राह्मणस्य चनसितोत्तरं प्राजापत्यस्य ॥
<3.1.20> (11.20) न दानहोमपाकाध्ययनानि । न वसूनि ॥
<3.1.21> (11.21) कृष्णाजिनं वसीत ॥
<3.1.22> (11.22) कुरीरं धारयेत् ॥
<3.1.23> (11.23) मुष्टी कुर्यात् ॥

<3.1.24> (11.24) अङ्गुष्ठप्रभृतयस् तिस्र उच्छ्रयेत् ॥
<3.1.25> (11.25) मृगशृङ्गं गृह्णीयात् । तेन कषेत ॥
<3.1.26> (11.26) यस्य वाग् वायता स्यान् मुष्टी वावसृष्टौ स एतानि जपेत् ॥
<3.2.1> (12.1) अग्निहोत्रं च मा पौर्णमासश् च यज्ञः पुरस्तात् प्रत्यञ्चम् उभौ कामप्रौ भूत्वा क्षित्या सहाविशताम् । वसतिश् च मामावास्यश् च यज्ञः पश्चात् प्राञ्चम् । मनश् च मा पितृयज्ञश् च यज्ञो दक्षिणत उदञ्चम् । वाक् च मेष्टिश् चोत्तरतो दक्षिणाञ्चम् । रेतश् च मान्नं चेत ऊर्ध्वम् । चक्षुश् च मा पशुबन्धश् च यज्ञो ऽमुतो ऽर्वाञ्चम् इति ॥ [ग्ब् 1.3.22]
<3.2.2> (12.2) दीक्षान्ते च वसुसंपत्तये ॥
<3.2.3> (12.3) नैनं बहिर्वेद्यभ्युदियान् नाभ्यस्तमियात् । नाधिष्ण्ये प्रतपेत् ॥
<3.2.4> (12.4) सत्यं वदेत् ॥
<3.2.5> (12.5) व्रतलोपे <यद् अस्मृति [7.106.1]> इत्य् अग्निम् उपतिष्ठते ॥
<3.2.6> (12.6) <सत्यं बृहत् [12.1.1]> इति लोष्टम् आदाय <शुद्धा न आपः [12.1.30अब्च्]> इति मूत्रपुरीषे क्षारयति । <पवित्रेण पृथिवि [12.30.1द्]> इति लोष्टेनात्मानम् उत्पुनाति ॥
<3.2.7> (12.7) <य ऋते चिद् अभिश्रिषः [14.2.47]> इति शीर्णं दण्डाद्य् अभिमन्त्रयते । स्वप्नेषूक्तम् । <दिवो नु माम् [6.124.1]> इति च ॥
<3.2.8> (12.8) <यद् अत्रापि मधोर् अहं निरष्ठविषम् अस्मृतम् । अग्निश् च तत् सविता च पुनर् मे जठरे धत्ताम् [प्स् 20.38.6, ग्ब् 1.2.7]> इति जाम्बीलस्कन्दन आत्मानम् अनुमन्त्रयते ॥
<3.2.9> (12.9) <यद् अत्रापि रसस्य मे परा पपातास्मृतम् । तद् इहोपह्वयामहे तन् म आ प्यायतां पुनः [प्स् 20.27.8, ग्ब् 1.2.7]> इति रेतसः ॥
<3.2.10> (12.10) <परो ऽपेहि [5.7.7]> इत्य् अशस्तशंसने ॥
<3.2.11> (12.11) <अश्मन्वती [12.2.26]> इत्य् अपां तरणे ॥
<3.2.12> (12.12) <अपः समुद्रात् [4.27.4]> इत्य् अनाच्छादिताभिवर्षणे ॥
<3.2.13> (12.13) <अव ज्याम् इव [6.42.1]> इति क्रोधे ॥
<3.2.14> (12.14) ऋतुमतीं जायां सारूपवत्सं श्रपयित्वाभिघार्योद्वास्योद्धृत्याभिहिंकृत्य गर्भवेदनपुंसवनैः संपातवन्तं पराम् एव प्राशयेत् ॥
<3.3.1> (13.1) तिस्रो दीक्षाः । अपरिमिता वा । द्वादशाहीनस्य ॥
<3.3.2> (13.2) दीक्षान्ते प्रायणीयायां पथ्यायाः स्वस्तेर् अग्नेः सोमस्य सवितुर् अदितेः <पथ्या रेवतीः [3.4.7]> <वेदः स्वस्तिः [7.28.1]> इति ॥
<3.3.3> (13.3) शंय्वन्ता ॥
<3.3.4> (13.4) ध्रौवस्य पूर्णाहुतिं <यस्योरुषु [7.26.3]> इति ॥
<3.3.5> (13.5) निष्क्रम्य सोमक्रयणीं प्रपाद्यमानां <दिवं च रोह [13.1.34]> इत्य् अनुमन्त्रयते ॥
<3.3.6> (13.6) पदाभिहोमम् <इडायास् पदम् [3.10.6]> इति ॥
<3.3.7> (13.7) उपरवदेशे चर्मणि सोमम् <अभि त्यम् [7.14.1]> इति हिरण्यपाणिर् विचिनोति ॥
<3.3.8> (13.8) <अयं सहस्रम् [7.22.1]> इत्य् अनुमन्त्रयते ॥
<3.3.9> (13.9) क्रीते कुरीरं निर्मुष्णाति ॥
<3.3.10> (13.10) <उद् आयुषा [3.31.10]> इत्य् उत्तिष्ठति ॥
<3.3.11> (13.11) प्रोह्यमाणे ऽप्रतिरथं जपति ॥
<3.3.12> (13.12) <ध्रुवं ध्रुवेण [7.94.1]> इति राजानं राजवहनाद् आसन्द्यां नीयमानम् अनुमन्त्रयते ॥
<3.3.13> (13.13) दक्षिणेनाग्निम् आस्थापित आतिथ्यायां हविर् अभिमृशन्ति <यज्ञेन यज्ञम् [7.5.1]> इति ॥
<3.3.14> (13.14) वैष्णवं <विष्णोर् नु कम् [7.26.1]> इति ॥
<3.3.15> (13.15) इडान्ता ॥
<3.3.16> (13.16) तानूनप्त्रपात्रे पञ्चकृत्वो ऽवद्यन्त्य् आज्यम् <आपतये त्वा गृह्णामि परिपतये त्वा तनूनप्त्रे त्वा शाक्वराय त्वा शक्मन ओजिष्ठाय त्वा [त्स् 1.2.10.2, ग्ब् 2.2.3, एत्च्.]> इति ॥ [ग्ब्, ग्: अवद्यति]
<3.3.17> (13.17) तद् अभिमृशन्ति ॥
<3.3.18> (13.18) <अनाधृष्टम् अस्यनाधृष्यं देवानाम् ओजो ऽभिशस्तिपा अनभिशस्तिः । अनु मे दीक्षां दीक्षापतिर् मन्यताम् अनु तपस् तपस्पतिः । अञ्जसा सत्यम् उपगेषं स्विते मा धाः [त्स् 1.2.10.2, ग्ब् 2.2.3, एत्च्.]> इति दीक्षालिङ्गं दीक्षितः ॥
<3.3.19> (13.19) अध्वर्युर् आग्नीध्रम् आह <अग्नीत् मदन्त्यापा3ः> इति ॥
<3.3.20> (13.20) आग्नीध्रो <मदन्ति देवीर् अमृता ऋतावृधः> इति ॥
<3.3.21> (13.21) अध्वर्युस् <ताभिर् उदेहि> इति ॥
<3.3.22> (13.22) आग्नीध्रस् ताः कुशैर् उदानयति ॥
<3.3.23> (13.23) ता उपस्पृश्य सोमम् आप्याययन्ति <अंशुर् अंशुष् टे देव सोमाप्यायताम् इन्द्रायैकधनविदे । आ तुभ्यम् इन्द्रः प्यायताम् आ त्वम् इन्द्राय प्यायस्व ॥ आप्याययास्मान्त् सखीन्त् सन्या मेधया प्रजया धनेन । स्वस्ति ते देव सोम सुत्याम् उदृचम् अशीय [त्स् 1.2.11.1, ग्ब् 2.2.4]> इति ॥

<3.3.24> (13.24) पुनर् उपस्पृश्योत्तानहस्ताः प्रस्तरे निह्नुवत <एष्टा राय एष्टा वामानि प्रेषे भगाय ऋतमृतवादिभ्यो नमो दिवे नमः पृथिव्यै [त्स् 1.2.11.1, ग्ब् 2.2.4]> इति ॥
<3.3.25> (13.25) प्रवर्ग्याय पुरस्ताद्धोमान् हुत्वा गार्हपत्यं दक्षिणेनोपविशति ॥
<3.3.26> (13.26) न प्रथमयज्ञे प्रवर्ग्यं कुर्वीत । कामम् अनूचानः श्रोत्रियः ॥
<3.3.27> (13.27) अन्तर्धायाध्वर्युर् आह <ब्रह्मन् घर्मेण प्रचरिष्यामः [ग्ब् 2.2.6]> इति ॥
<3.3.28> (13.28) प्रचरत घर्मम् इत्य् अनुजानाति ॥ [ग्ब् 2.2.6]
<3.3.29> (13.29) उच्चैः सर्वम् उपांशु वा ॥
<3.3.30> (13.30) घर्मं ताप्यमानुम् उपासीत ॥
<3.4.1> (14.1) <घर्मं तपाम्य् अमृतस्य धारया देवेभ्यो हव्यं परिदां सवित्रे । शुक्रं देवाः शृतम् अदन्तु हव्यम् आसञ् जुह्वानम् अमृतस्य योनौ ॥ [प्स् 5.16.2]> <देवानाम् अधिपा एति घर्म ऋतेन भ्राजन्न् अमृतं विचष्टे । हिरण्यवर्णो नभसो देव सूर्यो घर्मो भ्राजन् दिवो अन्तान् पर्येषि विद्युता ॥ [प्स् 16.150.6]> <वैश्वानरः समुद्रं पर्येति शुक्रो घर्मो भ्राजन् तेजसा रोचमानः । नुदञ् छत्रून् प्रदहन् मे सपत्नान् आदित्यो द्याम् अध्यरुक्षद् विपश्चित् ॥ [प्स् 16.150.10]> <वि द्योतते द्योतत आ च द्योतत अप्स्व् अन्तर् अमृतो घर्म उद्यन् ॥ हन्ता वृत्रस्य हरिताम् अनीकम् अनाधृष्टास् तन्वः सूर्यस्य ॥ घर्मः पश्चाद् उत घर्मः पुरस्ताद् अयोदंष्ट्राय द्विषतो ऽपि दध्मः । वैश्वानरः शीतरूरे वसानः सपत्नान् मे द्विषतो हन्तु सर्वान् । ऋतून् ऋतुभिः श्रपयति ब्रह्मणैकवीरो घर्मः शुचानः समिधा समिद्धः ॥ ब्रह्म त्वा तपति ब्रह्मणा तेजसा च ॥ [प्स् 16.151.5-7]> <घर्मः साहस्रः समिधा समिद्धः । असपत्नाः प्रदिशो मे भवन्तु । सपत्नान् सर्वान् मे सूर्यो हन्तु वैश्वानरो हरिः ॥ घर्मस् तप्तः प्र दहतु भ्रातृव्यान् द्विषतो वृषा । उद्यन् मे शुक्र आदित्यो विमृधो हन्तु सूर्यः ॥ [प्स् 16.152.5-7]> <ब्रह्म जज्ञानम् [4.1.1]> <इयं पित्र्या [4.1.2]> इति शस्त्रवद् अर्धर्चश आहावप्रतिगरवर्जम् ॥
<3.4.2> (14.2) <रुचिर् असि [17.1.21]> इति रुचितम् अनुमन्त्रयते ॥
<3.4.3> (14.3) घर्मधुग् दोहायोत्तिष्ठतः <उत् तिष्ठताव पश्यत [7.72.1]> इति ॥
<3.4.4> (14.4) <उप ह्वये [7.73.7]> इति घर्मदुघाम् ॥
<3.4.5> (14.5) घर्मसूक्तेन घर्मं हूयमानम् । <स्वाहाकृतः [7.73.3-4]> इति द्वाभ्यां घर्मस्य वषट्कृते ऽनुवषट्कृते ॥
<3.4.6> (14.6) भक्षो वाजिनवत् <शृतं हविर् मधु हविर् अश्याम ते घर्म मधुमतः पितृमतो वाजिमतो बृहस्पतिमतो विश्वदेव्यावतः [-]> इति ॥
<3.4.7> (14.7) सत्रे होताध्वर्युर् ब्रह्मोद्गातानुचरा गृहपतिश् च ॥
<3.4.8> (14.8) उच्छिष्टखरे पवित्रैर् मार्जयन्ते ॥
<3.4.9> (14.9) <सूयवसात् [7.73.11]> इति त्रिरुक्तायां संस्थितहोमान् ॥
<3.5.1> (15.1) उपसद्याग्नेयसौम्यवैष्णवान् ॥
<3.5.2> (15.2) वषट्कारान्ता । आप्यायननिह्नवने ॥
<3.5.3> (15.3) यत्राहाध्वर्युर् <अग्नीद् देवपत्नीर् व्याचक्ष्व> इति तदपरेण गार्हपत्यं प्राङ्मुखस् तिष्ठन्न् अनवानन्न् आग्नीध्रो देवपत्नीर् व्याचष्टे । <पृथिव्य् अग्नेः पत्नी वाग् वातस्य पत्नी सेनेन्द्रस्य पत्नी धेना बृहस्पतेः पत्नी पथ्या पूष्णः पत्नी गायत्री वसूनां पत्नी त्रिष्टुब् रुद्राणां पत्नी जगत्य् आदित्यानां पत्न्य् अनुष्टुब् मित्रस्य पत्नी विराड् वरुणस्य पत्नी पङ्क्तिर् विष्णोः पत्नी दीक्षा सोमस्य राज्ञः पत्नी [ग्ब् 2.2.9, त 3.9.1]> इति ॥
<3.5.4> (15.4) सुब्रह्मण्याह्वाने सर्वत्र <यस्यां सदः [12.1.38-40]> इति तिस्रो जपति ॥
<3.5.5> (15.5) एवम् अपराह्णे घर्मोपसदौ । अपरेद्युः पूर्वाह्णे ऽपराह्णे च । औपवसथ्ये समासे ॥
<3.5.6> (15.6) एवं तिस्रो ऽग्निष्टोमस्य । द्वादशाहीनस्य ॥
<3.5.7> (15.7) <वि मिमीष्व [13.1.27]> इति वेदिं मिमानम् अनुमन्त्रयते ॥
<3.5.8> (15.8) <यस्यां वेदिम् [12.1.13]> इति वेदिं परिगृह्यमाणाम् ॥
<3.5.9> (15.9) अग्नौ प्रणीयमाने <अग्ने प्रेहि [4.14.5]> इति जपित्वा बहिर्वेद्य् उपविशति ॥
<3.5.10> (15.10) दक्षिणहविर्धानस्य वर्त्माभिहोमम् <इदं विष्णुः [7.26.4]> इति । उत्तरस्य <त्रीणि पदा [7.26.5]> इति ॥
<3.5.11> (15.11) हविर्धाने प्रवर्त्यमाने <इतश् च मा [18.3.38-39]> इति द्वाभ्याम् अनुमन्त्रयते ॥
<3.5.12> (15.12) <विष्णोर् नु कम् [7.26.1]> इत्य् उपस्तम्भनम् उपस्तभ्यमानम् ॥
<3.5.13> (15.13) <मन्वे वां द्यावापृथिवी [4.26.1]> इत्य् औदुम्बर्या अभिहोमम् ॥
<3.5.14> (15.14) अग्नीषोमयोः प्रणयनायामन्त्रितस् तीर्थेन पत्नीशालम् आव्रजति । चात्वालोत्कराव् अन्तरेणाग्नीध्रीयलक्षणम् उत्तरेण सदश् चेति तीर्थम् ॥
<3.5.15> (15.15) आचमनादि वीक्षणान्तम् ॥
<3.5.16> (15.16) <सोमं राजानम् [3.20.4अब्]> इत्य् अर्धर्चेनाग्नीषोमौ प्रणीयमानाव् अनुव्रजति ॥
<3.5.17> (15.17) आग्नीध्रीयहोमाद् आग्नीध्रीयम् उत्तरेणाग्निम् अपरेणातिव्रज्यासाद उपविशति ॥
<3.5.18> (15.18) अथाग्नीषोमीये पशाव् उक्ता धर्माः । एतेन पशवो व्याख्याताः ॥
<3.5.19> (15.19) पत्नीसंयाजान्तः ॥
<3.6.1> (16.1) वसतीवरीः परिह्रियमाणाः <पूर्ण. नारि प्रभर [3.12.8]> इत्य् अनुमन्त्रयते ।
<3.6.2> (16.2) आग्नीध्रीये स्थाप्यमाना उत्तरया <अमूर्याः [1.4.2]> इति च ॥
<3.6.3> (16.3) दीक्षितस् तत्र वसति ॥
<3.6.4> (16.4) अपररात्र ऋत्विजः प्रबोधिताः शालाद्वार्ये ऽप उपस्पृशन्ति ॥
<3.6.5> (16.5) हविरुपावहृत इत्यादि वैश्वानरो ऽग्निष्टोम इत्यन्ताभिर् यज्ञतनूभिः पुरा प्रचरितोर् आग्नीध्रीये जुहोति ॥

<3.6.6> (16.6) <यजूंषि यज्ञे [5.26]> इति च । विष्पर्धायां चतुर्भिश्चतुर्भिः पुरस्तात् प्रातरनुवाकस्य ॥
<3.6.7> (16.7) एनं दक्षिणेनाहवनीयम् अपरेणातिव्रज्यासाद उपविशति ॥
<3.6.8> (16.8) उपविष्टे होतरि होतारं <यद् अस्मृति [7.106]> इति हुत्वा पुरस्ताद्धोमान् जुहोति ॥
<3.6.9> (16.9) <पातं न इन्द्रापूषणा [6.3-6]> इति चत्वारि सूक्तानि प्रातरनुवाकम् अनु जपति ॥
<3.6.10> (16.10) <अम्बयो यन्ति [1.4-6]> इति त्रीण्य् अपोनप्त्रीयम् ॥
<3.6.11> (16.11) <इन्द्र जुषस्व [2.5]> इति राज्ञ्य् अभिषूयमाणे ऽभिषवणहोमान् जुहोति । उपांशुग्रहहोमम् <सूर्यो द्याम् <13.1.45]> इत्य् उदिते । अन्तर्यामीयं च ॥
<3.6.12> (16.12) हविर्धाने पूर्वेणातीत्य खरे चोपविश्य <दिवस् पृथिव्याः [9.1]> इति मधुसूक्तेन राजानं संश्रयति ॥
<3.6.13> (16.13) <इन्द्राय सोमम् ऋत्विजः [6.2]> इति द्रोणकलशस्थम् अनुमन्त्रयते ॥
<3.6.14> (16.14) <धृषत् पिब [7.76.2]> इति माध्यन्दिने ॥
<3.6.15> (16.15) यत्र विजानाति <ब्रह्मन्त् सोमो ऽस्कन्> इति तम् एतयालभ्याभिमन्त्रयते <अभूद् देवः सविता वन्द्यो नू न इदानीम् अह्न उपवाच्यो नृभिः । वि यो रत्ना भजति मानवेभ्यः श्रेष्ठं नो अत्र द्रविणं यथा दधत् [ऋव् 4.54.1]> इति ॥ [ग्ब् 2.2.12]
<3.6.16> (16.16) <ये अग्नयो अप्स्व् अन्तः [3.21.1-7]> इति सप्तभिर् अभिजुहोति ॥
<3.6.17> (16.17) अध्वर्युः प्रतिप्रस्थाता प्रस्तोतोद्गाता प्रतिहर्ता ब्रह्मा सुन्वन् समन्वारब्धा बहिष्पवमानाय विसृप्य वैप्रुषान् होमान् जुह्वति <द्रप्सश् चस्कन्द [18.4.28, प्स् 20.13.7]> इति ॥ <यस् ते द्रप्सः स्कन्दति यस् ते अंशुर् बाहुच्युतो धिषणाया उपस्थात् । अध्वर्योर् वा परि यः पवित्रात् तं ते जुहोमि मनसा वषट्कृतम् ॥ द्रप्सः पतितो ऽत्यस्यवश् च यः परः स्रुचः । अयं देवो बृहस्पतिः सं तं सिञ्चतु राधसे ॥ यस् ते द्रप्सः पतितः पृथिव्यां धानासोमः परीवापः करम्भः । अयं देवो बृहस्पतिः सं तं सिञ्चतु वर्चसे ॥ [प्स् 20.13.8-10]> <यन् मे स्कन्नम् [सकल अत् कौश्स् 6.1, नोत् अत्तेस्तेद् एल्सेwहेरे]> इति ॥
<3.7.1> (17.1) चात्वालाद् दक्षिणत उपविशन्ति ॥
<3.7.2> (17.2) <दोषो गाय [6.1]> इति जपन्न् उद्गातारम् ईक्षते ॥
<3.7.3> (17.3) स्तोत्रोपाकरणात् प्रस्तोता ब्रह्माणम् आमन्त्रयते <ब्रह्मन् स्तोष्यामः प्रशास्तः> इति ॥
<3.7.4> (17.4) तत्र <रश्मिर् असि क्षयाय त्वा क्षयं जिन्व । सवितृप्रसूता बृहस्पतये स्तुत । देव सवितर् एतत् ते प्राह तत् प्र च सुव प्र च यज । आयुष्मत्या ऋचो मापगायत तनूपात् साम्नः । सत्या व आशिषः सन्तु सत्या आकूतयः । ऋतं च सत्यं च वदत । बृहस्पते ऽनुमत्यों भूर् जनद् इन्द्रवन्त इत्य् उक्त्वा <स्तुत> इति प्रथमया स्वरमात्रया प्रसौति । मध्यमया माध्यंदिने । उत्तमया तृतीयसवने ॥
<3.7.5> (17.5) <भुवः> इति माध्यंदिने । <स्वर्> इति तृतीयसवने ॥
<3.7.6> (17.6) उक्थ्यादिष्व् अहीने च ओं भूर् भुवः स्वर् जनद् वृधत् करद् रुहन् महत् तच् छम् ओम् इति च ॥
<3.7.7> (17.7) विष्पर्धमानयोः सवृतसोमयोः स्तोमभागानाम् उपर्युपरि <स्तुतेषे स्तुतोर्जे स्तुत देवस्य सवितुः सवे । बृहस्पतिं वः प्रजापतिं वो वसून् वो देवान् रुद्रान् वो देवान् आदित्यान् वो देवान् साध्यान् वो देवान् आप्यान् वो देवान् विश्वान् वो देवान् सर्वान् वो देवान् विश्वतस् परि हवामहे । जनेभ्यो ऽस्माकम् अस्तु केवल इतः कृणोतु वीर्यम्> इति जपन् परेषां ब्रह्माणम् अवेक्षेत ॥ [ग्ब् 2.2.15]
<3.7.8> (17.8) <स्तुतस्य स्तुतम् अस्य् ऊर्जस्वत् पयस्वत् । ऊर्जं मह्यं स्तुतं दुहाम् आ मा स्तुतस्य स्तुतं गमेत् । इन्द्रियावन्तो हवामहे धुक्षीमहि प्रजाम् इषम् । सा मे सत्याशीर् देवेष्व् अस्तु । ब्रह्मवर्चसं मा गमयेत् [च्f. त्स् 3.2.7.1-2]> इति स्तोत्रम् अनुमन्त्रयते ॥
<3.7.9> (17.9) <इन्द्रस्य कुक्षिः [7.111.1]> इत्य् आसिक्ते सोमे पूतभृतम् ॥
<3.7.10> (17.10) स्तुते बहिष्पवमाने वाचयति <श्येनो ऽसि [6.48.1]> इति । <वृषासि [6.48.3]> इति माध्यंदिने । <ऋभुर् असि [6.48.2]> इत्य् आर्भवे ॥
<3.7.11> (17.11) ब्राह्मणोक्तान् इत्य् अनुब्राह्मणिनः ॥
<3.7.12> (17.12) अथाध्वर्युर् आह <अग्नीद् अग्नीन् विहर बर्हि स्तृणीहि परोडाशान् अलंकुरु [ग्ब् 2.2.16]> इति ॥
<3.8.1> (18.1) आग्नीध्र आग्नीध्रीयाद् अङ्गारैर् द्वे सवने विहरति । शलाकाभिस् तृतीयसवनम् । प्रत्यङ्मुखो होतृमैत्रावरुणब्राह्मणाच्छंसिपोतृनेष्ट्रच्छावाकानां धिष्ण्येषु मार्जालीये ॥
<3.8.2> (18.2) तत्रैव प्रत्यानयति ॥
<3.8.3> (18.3) अनु पृष्ट्याम् आस्तीर्य पुरोडाशान् अलंकुरुते ॥
<3.8.4> (18.4) <ये अग्नयो विहृता धिष्ण्याः पृथिवीम् अनु । ते नः पान्तु ते नो ऽवन्तु तेभ्यो नमस् ते नो मा हिंसिषुः [-]> इति विहृतान् अनुमन्त्रयते । उत्तरयोः सवनयोः <पुनर् मैत्व् इन्द्रियम् [7.67.1]> इति । आहवनीयम् अपरेणेत्युक्तम् ॥
<3.8.5> (18.5) प्रवृताः प्रवृताहुतीर् जुह्वति <जुष्टो वाचे भूयासं जुष्टो वाचस्पतये देवि वाग् यद् वाचो मधुमत्तमं तस्मिन् मा धाः स्वाहा । वाचे स्वाहा वाचस्पतये स्वाहा सरस्वत्यै स्वाहा []> इति । मनसा चतुर्थीम् ॥ [ग्ब् 2.2.17]
<3.8.6> (18.6) सप्ताहुतीर् इत्य् एके <सरस्वते स्वाहा महोभ्यः संमहोभ्यः स्वाहा । ऋचा स्तोमम्> इति ॥
<3.8.7> (18.7) वपामार्जनान्त उपोत्थाय <दिवस् पृष्ठे [13.2.37]> इत्य् आदित्यम् उपतिष्ठन्ते ॥
<3.8.8> (18.8) <मा प्र गाम [13.1.59]> इत्य् आव्रज्याहवनीयं निर्मथ्यं यूपम् आदित्यम् <अग्नयः सगरा स्थ सगरेण नाम्ना रौद्रेणानीकेन पात माग्नयः पिपृत माग्नयो गोपायत मा नमो वो ऽस्तु मा मा हिंसिष्ट [च्f. व्स्म् 5.34]> इति ॥
<3.8.9> (18.9) आग्नीध्रीयम् उत्तरेण सदो ऽभिव्रजन्ति ॥
<3.8.10> (18.10) धिष्ण्यवन्तो यजमानश् च पूर्वया द्वारा प्रसर्पन्ति । अपरे ऽपरया ॥
<3.8.11> (18.11) सदः प्रसृप्स्यन्तो धिष्ण्यान् नमस्कुर्वन्ति <धिष्ण्येभ्यो नमो नमः [च्f. ग्ब् 2.2.18]> इति ॥
<3.8.12> (18.12) <द्रष्ट्रे नमः [आप्श्स् 12.20.6, 20.1.17 एत्च्.]> इति द्रष्टारं प्रसर्पन्तः । <उपश्रोत्रे नमः [आप्श्स् 24.11.2]> इत्य् उपश्रोतारम् ॥ [च्f. ग्ब् 2.2.19]
<3.8.13> (18.13) चात्वालोत्करशामित्रोवध्यगोहास्तावाअग्नीध्रीयाच्छावाकवादं मार्जालीयं खरं धिष्ण्यान् अन्यांश् चोपतिष्ठन्ते <अग्नयः सगरा स्थ [च्f. अबोवे]> इति ॥
<3.8.14> (18.14) <उर्व् अन्तरिक्षं वीहि [आप्श्स् 6.8.6]> इति सदो ऽभिमृशन्ति । देवी द्वारौ मा मा सन्ताप्तं [त्स् 3.2.4.4]> <लोकं मे लोककृतौ कृणुतम् [1.1.12.1]> इति द्वार्ये ॥
<3.8.15> (18.15) प्रसृप्य <अनुख्यात्रे नमः [आप्श्स् 20.1.17 एत्च्.]> इत्य् अनुख्यातारम् । उत्तरेण धिष्ण्यान् परिक्रम्य स्वं स्वं धिष्ण्यम् अभिप्रसृप्ताः <उपद्रष्ट्रे नमः [आप्श्स् 20.1.17]> इत्य् उपद्रष्टारम् ॥
<3.8.16> (18.16) उपविश्य जपन्त्य् <अभि त्वेन्द्र [6.99.1]> इति । स्तोत्रं यजमानः ॥

<3.8.17> (18.17) सदस्यो ब्रह्माणं दक्षिणेन । स्तोत्रानुमन्त्रणाज् <जनत्> इति मनसा ॥
<3.8.18> (18.18) विसंस्थिते यथाधिष्ण्यम् उत्तरेण पूर्वया द्वारा निष्क्रामन्ति । मैत्रावरुणधिष्ण्यम् अधिष्ण्यवन्तः ॥
<3.9.1> (19.1) सवनीयपुरोडाशानाम् ऐन्द्रान् ॥
<3.9.2> (19.2) द्विदेवत्यानाम् । ऐन्द्रवायवस्य होमौ <वायुर् अन्तरिक्षस्य [5.24.8]> <इन्द्रवायू [3.20.6]> इति ॥
<3.9.3> (19.3) मैत्रावरुणस्य <मित्रावरुणौ वृष्ट्याः [5.24.5]> इति ॥
<3.9.4> (19.4) आश्विनस्य <अश्विना ब्रह्मणा [5.26.12अब्]> इत्य् अर्धर्चेन ॥
<3.9.5> (19.5) प्रस्थितैश् चरिष्यन्न् अध्वर्युः संप्रेष्यति <होतर् यज प्रशास्तर् ब्राह्मणाच्छंसिन् पोतर् नेष्टर् अग्नीत् [च्f. आप्श्स् 12.23.16, 12.24.1]> इति ॥
<3.9.6> (19.6) <इन्द्र त्वा वृषभं वयम् [20.1.1]> इति ब्राह्मणाच्छंसी यजति । उत्तराभ्यां पोत्राग्नीध्रौ ॥
<3.9.7> (19.7) याज्यानाम् अन्तः प्लवते ॥
<3.9.8> (19.8) <ये3 यजामहे वौ3षट्> इत्याद्यन्तौ । आदिप्लुतौ ॥
<3.9.9> (19.9) अनवानं प्रातःसवने । वषट्कृत्य <वाग् ओजः सह ओजो मयि प्राणापानौ [व्स्म् 36.1, ग्ब् 2.3.6]> इत्य् अनुमन्त्रयते ॥
<3.9.10> (19.10) <सोमस्याग्ने वीही3 [आप्श्स् 19.3.1, ग्ब् 2.3.1]> इत्य् अन्तप्लुतेनानुवषट्कुर्वन्ति ॥
<3.9.11> (19.11) शुक्रामन्थिचमसहोमान् ऐन्द्रान् <इन्द्रो दिवः [5.24.11]> इति ॥
<3.9.12> (19.12) अनुवषट्काराणाम् <आ देवानाम् [19.59.3]> इति । अनुहोमांश् च । मैत्रावरुणम् ऐन्द्रं मारुतं त्वाष्ट्रम् आग्नेयम् ॥
<3.9.13> (19.13) अग्नीधेष्टे ऽध्वर्युर् आह <अयाड् अग्नीत् [आप्श्स् 12.24.3]> इति । <अयाट्> इत्य् अग्नीत् ॥
<3.9.14> (19.14) पूर्ववद् इडाभक्षः ॥
<3.9.15> (19.15) सदसि सोमान् भक्षयन्त्य् उपहूताः ॥
<3.9.16> (19.16) प्राशित्रवत् प्रतीक्ष्य प्रतिगृह्य <अग्निहुतस्येन्द्रपीतस्येन्दोर् इन्द्रियावतः । यो भक्षो गोसनिर् अश्वसनिर् धनसनिः प्रजासनिर् लोकसनिः । तस्य त उपहूतस्योपहूतो भक्षयामि गायत्रेण छन्दसा तेजसा ब्राह्मणवर्चसेन [कात्य्श्स् 9.12.3-4, आप्श्स् 12.25.16-23]> इति ॥
<3.9.17> (19.17) त्रैष्टुभेनेति माध्यांदिने । जागतेनेति तृतीयसवने । अनुष्टुप्छन्दसेति पर्यायेषु । पङ्क्तिच्छन्दसेति संधिचमसेषु । अतिच्छन्दसेत्य् अप्तोर्याम्णि ॥
<3.9.18> (19.18) भक्षित आत्मानं प्रत्यभिमृशन्ति <शं नो भव हृद आ पीत इन्द्रो पितेव सोम सूनवे सुशेवः । सखेव सख्य उरुशंस धीरः प्र ण आयुर् जीवसे सोम तारीः ॥ [ग्ब् 2.3.6]> <हिन्वा मे गात्रा हरिवो गणान् मे मा व्यरीरिषः । शिवो मे सप्तर्षीन् उपतिष्ठ मा मे ऽवाग् नाभिर् अभि गाः [च्f. त्स् 3.2.5.3]> इति ॥
<3.9.19> (19.19) चमसान् आप्याययन्त्य् <आ प्यायस्व सं ते पयांसि [सकल अत् कौश्स् 68.10, पोस्सिब्ल्य् प्स् 20.55.4+6]> इति ॥
<3.9.20> (19.20) तत्र श्लोकः <पञ्चैव कृत्वश् चमसान् यज्ञ आप्याययेत् कविः । आज्ये मरुत्वतीये च प्रस्थिताश् चापि सर्वशः [-]> इति ॥
<3.9.21> (19.21) अच्छावाकचमसहोमम् ऐन्द्राग्नम् ॥
<3.9.22> (19.22) यद्य् अश्नन्त्य् आग्नीध्रीये ॥
<3.9.23> (19.23) सदस्य् उपविष्टा यथाप्रैषम् ऋतून् यजन्ति ॥
<3.10.1> (20.1) <मरुतः पोत्रात् [20.2.1]> इति प्रथमोत्तमाभ्यां पोता । द्वितीययाग्नीध्रः । तृतीयया ब्राह्मणाच्छंसी ॥
<3.10.2> (20.2) यजमानो ऽतिप्रेष्यति <होतर् एतद् यज [आप्श्स् 12.27.6 एत्च्.]> इति ॥
<3.10.3> (20.3) नानुवषट्कुर्वन्ति ॥
<3.10.4> (20.4) तत्र श्लोकः <द्विदेवत्यान् ऋतुयाजान् यश् च पात्नीवतो ग्रहः । आदित्यग्रहसावित्रौ तान् स्म मानुवषट्कृथाः [बौध्श्स् 25.20:252.4 एत्च्.]> इति ॥ [ग्: ट्ल्̥त्राव् एते नानुवषट्कृता इति]
<3.10.5> (20.5) ऋतुहोमान् । ऐन्द्रं मारुतं त्वाष्ट्रम् आग्नेयम् ऐन्द्रं मैत्रावरुणं चतुरो द्राविणोदसान् आश्विनं गार्हपत्यम् ॥
<3.10.6> (20.6) ऋतुपात्रे भक्षयन्ति लिम्पन्ति वावजिघ्रन्ति वा <को ऽसि यशो ऽसि यशोदा असि यशो मयि धेहि [-]> इति ॥
<3.10.7> (20.7) नाराशंसांस् तूष्णीं प्रतिगृह्य भक्षयन्ति <नराशंसपीतस्य देव सोम ते नृभिः ष्टुतस्य मतिविदः । ऊमैः पितृभिर् भक्षितस्योपहूतस्योपहूतो भक्षयामि [च्f. अब् 7.34, प्ब् 1.5.9]> इति ॥
<3.10.8> (20.8) <ऊर्वैः> इति माध्यंदिने । <काव्यैः> इति तृतीयसवने ॥ [च्f. अब् 7.34]
<3.10.9> (20.9) <मनो न्व् आ ह्वामहि [सकल अत् कौश्स् 89.1, प्स् 19.24.10-13]> इति मन उपाह्वयन्ते ॥
<3.10.10> (20.10) पञ्चकृत्वो नाराशंसान् भक्षयन्ति ॥
<3.10.11> (20.11) तत्र श्लोकः <पञ्चैव कृत्वश् चमसान् नाराशंसेषु भक्षयेत् । होतुः पूर्वेषु शस्त्रेषु यानि प्राग् आग्निमारुतात् [-]> इति ॥
<3.10.12> (20.12) आज्यशस्त्राद् ऐन्द्राग्नम् ॥
<3.10.13> (20.13) होत्रे प्रौगस्तोत्राय प्रसौति <प्रेतिर् असि धर्मणे त्वा धर्मं जिन्व [प्ब् 1.9.2, त्स् 4.4.1.1, च्f. ग्ब् 2.2.13]> । मैत्रावरुणाय <अन्वितिर् असि दिवे त्वा दिवं जिन्व [प्ब् 1.9.3, त्स् 3.5.2.2, च्f. ग्ब् 2.2.13]> । ब्राह्मणाच्छंसिने <संधिर् अस्य् अन्तरिक्षाय त्वान्तरिक्षं जिन्व [प्ब् 1.9.4, त्स् 4.4.1.1, च्f. ग्ब् 2.2.13]> । अच्छावाकाय <प्रतिधिर् असि पृथिव्यै त्वा पृथिवीं जिन्व [प्ब् 1.9.5, त्स् 4.4.1.1]> इति ॥
<3.10.14> (20.14) प्रौगशस्त्राद् वैश्वदेवम् । मैत्रावरुणस्य मैत्रावरुणम् । ब्राह्मणाच्छंसिन ऐन्द्रम् । अच्छावाकस्यैन्द्राग्नम् ॥
<3.10.15> (20.15) ब्राह्मणाच्छंस्य् उत्तमात् प्रतीहारात् त्रिर् हिङ्कृत्य <शंसावोम्> इत्य् अध्वर्युम् आह्वयते ॥

<3.10.16> (20.16) अहिङ्कारम् अनुरूपायोक्थमुखाय परिधानीयायै । प्रगाथाय च माध्यंदिने ॥
<3.10.17> (20.17) योनय एके ॥
<3.10.18> (20.18) <अध्वर्यो शंसावोम् [ग्ब् 2.4.4]> इति स्तोत्रियाय <अध्वर्यो शंशंसावोम् [ग्ब् 2.3.10]> इति तृतीयसवने ॥
<3.10.19> (20.19) आहावेषु <शंसावो दैव [ग्ब् 2.3.10]> इत्य् अध्वर्युः प्रतिगृणाति ॥
<3.10.20> (20.20) <ओथामो दैव> इत्य् अवसाने । <ओमोथामो दैव> इति प्रणवे । <ओम्> इति शस्त्रान्ते ॥
<3.10.21> (20.21) उक्थप्रतिगरम् आह । उक्थसंपत्सु <ओम् उक्थशा उक्थशा यजोक्थशाः [च्f. ग्ब् 2.3.10]> इति । साम्ना शस्त्रम् उपसंतनोति । अर्धर्चशो मन्द्रया वाचा । बलीयस्या माध्यंदिने । बलिष्ठतमया तृतीयसवने । उत्तरिण्योत्तरिण्योत्सहेद् आ समापनात् ॥
<3.11.1> (21.1) <आ याहि सुषुमा हि ते [20.3]> <आ नो याहि सुतावतः [20.4]> इति स्तोत्रियानुरूपौ ॥
<3.11.2> (21.2) <अयम् उ त्वा विचर्षणे [20.5]> इत्य् उक्थमुखम् । <उद्धेद् अभि श्रुताम् अघम् [20.7.1-2]> इति पर्यासः । उत्तमा परिधानीया ॥
<3.11.3> (21.3) त्रिः प्रथमां त्रिर् उत्तमाम् अन्वाह ॥
<3.11.4> (21.4) अर्धर्चशस्य ऋगन्तं प्रणवेनोपसंतनोति स्वरादिम् अपनीय । पच्छःशस्ये ऽर्धर्चान्तम् । शस्त्रान्तं मकारान्तेनैव ॥
<3.11.5> (21.5) शस्त्वा <उक्थं वाचि [ग्ब् 2.3.10 एत्च्.]> इत्य् आह । <उक्थं वाचीन्द्राय [ग्ब् 2.3.10 एत्च्.]> इति माध्यंदिने । <उक्थं वाचीन्द्राय देवेभ्यः [ग्ब् 2.3.10 एत्च्.]> इति तृतीयसवने ॥
<3.11.6> (21.6) उक्थ्यसंपदः । परिधानीयोत्तरा याज्या ॥
<3.11.7> (21.7) अच्छावाकभक्षाद् <अग्निः प्रातःसवने [6.47.1]> <श्येनो ऽसि [6.48.1]> <यथा सोमः प्रातःसवने [9.1.11]> इति यथासवनम् आज्यं जुहोति ॥
<3.11.8> (21.8) संस्थितहोमान् ॥
<3.11.9> (21.9) संस्थितेसंस्थिते सवने वाचयति <मयि भर्गो मयि महो मयि यशो मयि सर्वम् [ग्ब् 1.5.15 एत्च्.]> इति ॥
<3.11.10> (21.10) प्रेषिता माध्यंदिनायौदुम्बरीम् अभ्यपरया द्वारा निष्क्रम्याग्नीध्रीयात् सर्पन्ति । यजमानः पूर्वया ॥
<3.11.11> (21.11) पुरस्ताद्धोमान् ॥
<3.11.12> (21.12) उक्तम् अभिषवादि ॥
<3.11.13> (21.13) पवमानाय सदः प्रसर्पन्ति ॥
<3.11.14> (21.14) आमन्त्रितः प्रसौति <विष्टम्भो ऽसि वृष्ट्यै त्वा वृष्टिं जिन्व [प्ब् 1.9.6, त्स् 4.4.1.1, च्f. ग्ब् 2.2.13]> इति ॥
<3.11.15> (21.15) विहरणे धिष्ण्यवान् बहिश् चेद् धिष्ण्यम् अभ्येत्य <परि त्वाग्ने [7.71.1]> इति जपति ॥
<3.11.16> (21.16) ब्रह्मा च ॥
<3.11.17> (21.17) दीक्षितो बहिर्वेद्यभ्याश्रावणे ऽस्तमये ऽभ्युदये वा <अग्नय उपाह्वयध्वम्> इति ॥
<3.11.18> (21.18) <श्रातं मन्य [7.72.3]> इति दधिघर्महोमम् ॥
<3.11.19> (21.19) घर्मवद्भक्षो रसप्राशन्या ॥
<3.11.20> (21.20) पशुपुरोडाशस्य ॥
<3.11.21> (21.21) <एवा पाहि [20.8.1-3]> इति प्रस्थितयाज्याः ॥
<3.11.22> (21.22) प्रस्थितहोमान् ऐन्द्रान् ॥
<3.11.23> (21.23) गार्हपत्ये दाक्षिणहोमाव् <उद् उ त्यं [13.2.16]> <चित्रं देवानाम् [13.2.35]> इति ॥
<3.11.24> (21.24) हिरण्यहस्तो यजमानो बहिर्वेदि दक्षिणा आयतीः <आ गावः [4.21.1]> इति प्रत्युत्तिष्ठति ॥
<3.11.25> (21.25) हिरण्यम् आत्रेयाय ददाति । आग्नीध्रायोपबर्हणम् ॥
<3.11.26> (21.26) अग्रेण गार्हपत्यं जघनेन सदो ऽन्तर् आग्नीध्रीयं च सदश् च चात्वालं चोदीचीर् दक्षिणा उत्सृज्यमानाः <सं वः सृजतु [3.14.2-3]> इति द्वाभ्याम् अनुमन्त्रयते ॥
<3.12.1> (22.1) <यस्यां पूर्वे भूतकृतः [12.1.39]> इति भागलिः । <इहेद् असाथ [3.8.4]> इति कौशिकः ॥
<3.12.2> (22.2) अन्ततः प्रतिहर्त्रे देयम् ॥
<3.12.3> (22.3) मरुत्वतीयहोमम् <इन्द्रो मा मरुत्वान् [18.3.25]> इति ॥
<3.12.4> (22.4) शस्त्रयाज्यायाः । होत्रादिभ्यः प्रसौति <प्रवास्य् अह्ने त्वाहर् जिन्व । अनुवासि रात्र्यै त्वा रात्रिं जिन्व । उशिग् असि वसुभ्यस् त्वा वसून् जिन्व । प्रकेतो ऽसि रुद्रेभ्यस् त्वा रुद्रान् जिन्व [च्f. प्ब् 1.9.8, त्स् 3.5.2.3, ग्ब् 2.2.13]> इति ॥
<3.12.5> (22.5) निष्केवल्यस्य माहेन्द्रम् ॥
<3.12.6> (22.6) प्रशास्त्रादीनाम् ऐन्द्रम् ॥
<3.12.7> (22.7) <तं वो दस्ममृतीषहम् [20.9.2]> <तत् त्वा यामि सुवीर्यम् [20.9.3]> इति स्तोत्रियानुरुपौ ॥
<3.12.8> (22.8) द्वे तिस्रः करोति पुनर् आदायम् । प्रथमां शस्त्वा तस्या उत्तमं पादम् अभ्यस्यावसायोत्तरस्या अर्धर्चेन द्वितीयां शस्त्वा तस्या उत्तमं पादम् अभ्यस्योत्तरेणार्धर्चेन तृतीयां शंसति ॥

<3.12.9> (22.9) एवं बार्हतानां स्तोत्रियानुरूपाणां प्रग्रथनम् ॥
<3.12.10> (22.10) मध्यमोच्चैस्तरया वाचा शंस्तव्यौ ॥
<3.12.11> (22.11) <उद् उ त्ये मधुमत्तमाः [20.10]> इति सामप्रगाथः स्वरवत्या ॥
<3.12.12> (22.12) <इन्द्रः पूर्भिद् आतिरत् [20.11]> इत्य् उक्थमुखं पच्छः प्रतिवीततमया ॥
<3.12.13> (22.13) <उद् उ ब्रह्माण्य् ऐरत श्रवस्य [20.12.1]> इति पर्यासः ॥
<3.12.14> (22.14) <एवेद् इन्द्रम् [20.12.6]> इति परिदधाति । परया यजति ॥
<3.12.15> (22.15) अच्छावाकभक्षाद् आदित्यग्रहहोमं <यद् देवा देवहेडनम् [6.114-115]> इति द्वाभ्याम् । पवमानसर्पणान्तम् ॥
<3.12.16> (22.16) आशिरं पूतभृत्यासिच्यमानम् <आशीर्ण ऊर्जम् [2.29.3]> इत्य् अनुमन्त्रयते ॥
<3.12.17> (22.17) पवमानाय प्रसौति <सुदितिर् अस्य् आदित्येभ्यस् त्वादित्यान् जिन्व [प्ब् 1.9.11, ग्ब् 2.2.1]> इति
<3.12.18> (22.18) अवदानहोमम् आग्नेयम् ॥
<3.12.19> (22.19) ऐन्द्राग्नम् उक्थ्ये । ऐन्द्रं षोडशिनि । सारस्वतम् अतिरात्रे ॥
<3.12.20> (22.20) पश्व् एकादशिन्याम् आग्नेयं साउम्यं वैष्णवं सारस्वतं पौष्णम् बार्हस्पत्यं वैश्वदेवम् ऐन्द्रम् ऐन्द्राग्नं सावित्रं वारुणम् ॥
<3.12.21> (22.21) सवनीयहोमादि । <इन्द्रश् च सोमं पिबतं बृहस्पते [20.13.2-3]> इति प्रस्थितयाज्याः । होमान् ऐन्द्रं मैत्रावरुणम् ऐन्द्राबार्हस्पत्यं मारुतं त्वाष्ट्रम् ऐन्द्रावैष्णवम् आग्नेयम् ॥
<3.12.22> (22.22) हविर्धाने यथाचमसं दक्षिणतः स्वेभ्य उपासनेभ्यस् त्रींस्त्रीन् पुरोडाशसंवर्तान् <एतत् ते प्रततामह [18.4.75]> इति निपृणन्ति ॥
<3.12.23> (22.23) <अत्र पितरः [सकल अत् कौश्स् 88.18, च्f. व्स्म् 2.31, मन्ब् 2.3.6 एत्च्.]> इति जपित्वा <एतं भागम् [6.122.1]> <एतं सधस्थाः [6.123.1]> <श्येनो नृचक्षाः [7.42.2]> इत्य् अनुमन्त्रयते ॥
<3.13.1> (23.1) आग्नीध्रीये हविरुच्छिष्टं भक्षयन्ति ॥
<3.13.2> (23.2) सावित्रग्रहहोमम् ॥
<3.13.3> (23.3) वैश्वदेवयाज्यायाः । धिष्ण्यहोमात् <ऐभिर् अग्ने [20.13.4]> इत्य् उपांशु पात्नीवतस्याग्नीध्रो यजति ॥
<3.13.4> (23.4) तस्य होमम् ॥
<3.13.5> (23.5) नेष्टुर् उपस्थे धिष्ण्यान्ते वासीनो भक्षयति ॥
<3.13.6> (23.6) अग्निष्टोमसाम्ने होत्रे प्रसौति <ओजो ऽसि पितृभ्यस् त्वा पितॄन् जिन्व [प्ब् 1.9.12, त्स् 3.5.2.3, ग्ब् 2.2.13]> इति ॥
<3.13.7> (23.7) <ध्रुवं ध्रुवेण [7.94.1]> इति ध्रुवम् अवनीयमानम् अनुमन्त्रयते ॥
<3.13.8> (23.8) आग्निमारुतयाज्याहोमं <प्रति त्यं चारुम् अध्वरम् [सकल अत् कौश्स् 127.7, प्स् 6.17.1, ऋव् 1.19.1]> इति संप्रेषित आग्नीध्र इत्य् उक्तम् ॥
<3.13.9> (23.9) हारियोजनहोमम् <आ मन्द्रैः [7.117.1]> इति ॥
<3.13.10> (23.10) तेनैव निष्क्रामन्ति ॥
<3.13.11> (23.11) आग्नीध्रीये सर्वप्रायश्चित्तीयान् जुहोति ॥
<3.13.12> (23.12) अग्नौ शाकलान् सर्वे । <देवकृतस्यैनसो ऽवयजनम् असि स्वाहा । पितृकृतस्य । मनुष्यकृतस्य । आत्मकृतस्य । अनाज्ञाताज्ञातकृतस्य ॥ [त्स् 3.2.5.7, प्ब् 1.6.10]> <यद् वो देवाश् चकृम जिह्वया गुरु मनसो वा प्रयुती देवहेडनम् । अरावा यो नो अभि दुच्छुनायते तस्मिंस् तद् एनो वसवो नि धत्तन [ऋव् 10.37.12]> इति ॥ देवहेडनस्य सूक्ताभ्यां च ॥
<3.13.13> (23.13) द्रोणकलशाद् धाना हस्त आदाय भस्मान्ते निवपन्ते ॥
<3.13.14> (23.14) चात्वालाद् अपरेणाध्वर्य्वासादितान् अप्सुसोमचमसान् वैष्णव्यर्चा निनयन्ति ॥
<3.13.15> (23.15) <उभा कवी युवाना सत्यादा धर्मणस् परि । सत्यस्य धर्मणा वि सख्यानि सृजामहे [आप्श्स् 13.18.2 एत्च्.]> इति सख्यानि विसृजन्ते ॥
<3.13.16> (23.16) <सं सख्यानि> इति संसृजन्ते ऽहर्गणे प्राग् उत्तमात् ॥
<3.13.17> (23.17) आग्नीध्रीये दधि भक्षयन्ति <दधिक्राव्णः [20.137.3]> इति ॥
<3.13.18> (23.18) पत्नीसंयाजेभ्यः शालामुखीयम् उपविशति ॥
<3.13.19> (23.19) दक्षिणासंचरेणाहवनीयम् अपरेणातिव्रज्य समिष्टयजुर्भ्यः संस्थितहोमान् जुहोति ॥
<3.13.20> (23.20) अप्स्व् अवभृथेष्ट्याम् <अप्सु ते [7.83.1]> इति पुरस्ताद्धोमान् । साविकान् संस्थितहोमान् । वारुणं <त्वं नो अग्ने [3.20.5]> <स त्वं नः [20.46.3]> इति ॥
<3.13.21> (23.21) इडान्तानुयाजान्तैके ॥
<3.13.22> (23.22) सोमलिप्तानि दध्नाभिजुहोत्य् <अभूद् देवः [वैत्स् 16.15]> द्रप्सवत्यो <यत् ते ग्रावा [वैत्स् 24.1]> इत्य् एतैः ॥
<3.14.1> (24.1) <यत् ते ग्रावा बाहुच्युतो अचुच्योन् नरो यद् वा ते हस्तयोर् अधुक्षन् । तत् त आप्यायतां तत् ते निष्ट्यायतां सोम राजन् ॥ यत् ते ग्राव्णा चिच्छिदुः सोम राजन् प्रियाण्य् अङ्गा सुकृता पुरूणि । तत् संधत्स्वाज्येनोत वर्धयस्वानागसो यथा सदम् इत् संक्षियेम ॥ यां ते त्वचं बिभिदुर् यां च योनिं यद् वा स्थानात् प्रच्युतो यदि वासुतो ऽसि । त्वया सोम कॢप्तम् अस्माकम् एतद् उप नो राजन् सुकृते ह्वयस्व । सं प्राणापानाभ्यां सम् उ चक्षुषा सं श्रोत्रेण गच्छस्व सोम राजन् । यत् ते विरिष्टं समु तत् त एतज् जानीतान् नः संगमने पथीनाम् ॥ अहाः शरीरं पयसा समेत्य् अन्यो अन्यो भवति वर्णो अस्य । तस्मै त इन्दो हविषा विधेम वयं स्याम पतयो रयीणाम् ॥ अभिक्षरन्ति जुह्वो घृतेनाङ्गा परूंषि तव वर्धयन्ति । तस्मै ते सोम नम इद् वषट् चोप नो राजन् सुकृते ह्वयस्व [प्स् 2.39]> ॥
<3.14.2> (24.2) कृष्णाजिनं निधाय संप्रोक्षति ॥
<3.14.3> (24.3) अपां सूक्तैर् इत्याद्य् उपस्पर्शनान्तम् ॥ [कौश्स् 7.14]

<3.14.4> (24.4) <उद् वयम् [7.53.7]> इत्य् उत्क्रामन्ति ॥
<3.14.5> (24.5) <अपाम सोमम् [अथर्वशिरसुप् 3, ऋव् 8.48.3, त्स् 3.2.4.5]> <अगन्म स्वर् [16.9.3]> इत्य् आव्रजन्ति ॥
<3.14.6> (24.6) <अपो दिव्याः [7.89.1]> इत्य् आहवनीयम् उपतिष्ठन्ते ॥
<3.14.7> (24.7) विमुञ्चामीत्यादि मार्जनान्तम् ॥ [कौश्स् 6.11-13]
<3.14.8> (24.8) उदयनीया प्रायणीयावत् । पथ्यायाश् चतुर्थम् ॥
<3.14.9> (24.9) अन्तसंस्था ॥
<3.14.10> (24.10) अनूबन्ध्यायाम् अपराजितायां तिष्ठन्त्यां <सपत्नहनम् [9.2.1]> इति कामं नमस्करोति ॥
<3.14.11> (24.11) यूपैकादशिनी चेद् वपामार्जना त्वाष्ट्रः पशुः ॥
<3.14.12> (24.12) पर्यग्निकृतस्योत्सर्गः ॥
<3.14.13> (24.13) अस्याज्यावदानहोमम् । वशापशुपुरोडाशाद् देविकाहवींषि ॥
<3.14.14> (24.14) <अयं ते योनिः [3.20.1]> इत्य् अरण्योर् अग्निं समारोप्यमाणम् अनुमन्त्रयते । <या ते अग्ने यज्ञिया तनूस् तया मे ह्य् आरोह तया मे ह्य् आविश । अयं ते योनिः> इत्य् आत्मन् ॥ [ग्ब् 2.4.9]
<3.14.15> (24.15) <अपमित्यम् अप्रतीत्तम् [6.117.1]> इति वेदिम् उपोष्यमाणाम् ॥
<3.14.16> (24.16) सक्तुहोमे <विश्वलोप विश्वदावस्य त्वासन् जुहोमि [त्स् 3.3.8.2, ग्ब् 2.4.8]> इत्य् आह ॥
<3.14.17> (24.17) <यो अग्नौ [7.87.1]> इति नमस्कृत्य तेनैव निष्क्रामन्ति ॥
<3.14.18> (24.18) <उपावरोह [सकल अत् कौश्स् 40.13, च्f. त्ब् 2.5.8.8 एत्च्.]> इति मथ्यमानम् अनुमन्त्रयते ॥
<3.14.19> (24.19) इत्य् अग्निष्टोमः ॥
<3.14.20> (24.20) अल्पस्व एकगुनापि यजेत यजेत ॥
<4.1.1> (25.1) अग्निष्टोमसाम्नो होत्रे षोडशिस्तोत्रेणात्यग्निष्टोमे । उक्थ्ये मैत्रावरुणादिभ्यः प्रसौति <तन्तुर् असि प्रजाभ्यस् त्वा प्रजां जिन्व । रेवद् अस्य् ओषधीभ्यस् त्वौषषीर् जिन्व । पृतनाषाड् असि पशुभ्यस् त्वा पशून् जिन्व [च्f. प्ब् 1.10.1-3, ग्ब् 2.2.13]> इति ॥
<4.1.2> (25.2) एतेषां याज्याहोमान् <इन्द्रावरुणा सुतपौ [7.58.1]> <बृहस्पतिर् नः [7.51]> <उभा जिग्यथुः [7.44]> इति ॥
<4.1.3> (25.3) <वयम् उ त्वाम् अपूर्व्य [20.14.2]> <यो न इदम् इदं पुरा [20.14.3]> इति स्तोत्रियानुरुपौ ॥
<4.1.4> (25.4) स्तोत्रियस्य प्रथमां शस्त्वा तस्या उत्तमं पादं द्वितीयस्याः पूर्वेण संधायावसाय द्वितीयेन द्वितीयां शंसति । तस्या एवोत्तमम् उत्तरेण संधायावसायोत्तमेन तृतीयाम् ॥
<4.1.5> (25.5) एवं काकुभानां स्तोत्रियानुरूपाणां प्रग्रथनम् ॥
<4.1.6> (25.6) इतः पच्छः शंसति ॥
<4.1.7> (25.7) <प्र मंहिष्ठाय बृहते बृहद्रये [20.15]> इत्य् उक्थमुखम् ॥
<4.1.8> (25.8) <उदप्रुतो न वयो रक्षमाणाः [20.16]> इति बार्हस्पत्यं सांशंसिकम् ॥
<4.1.9> (25.9) <अच्छा म इन्द्रं मतयः स्वर्विदः [20.17.1]> इति पर्यासः ॥
<4.1.10> (25.10) इत्य् ऐकाहिकानाम् उत्तमया परिदधाति ॥
<4.1.11> (25.11) परया यजति ॥
<4.1.12> (25.12) षोडशिनि ग्रहम् उपतिष्ठन्ते <य आ बभूव भुवनानि विश्वा यस्माद् अन्यन् न परं किं चनास्ति । प्रजापतिः प्रजाभिः संविदानस् त्रीणि ज्योतींषि दधते स षोडशी [च्f. व्स्म् 32.5, प्ब् 12.13.32; प्स् 18.25.10द्, प्स् 16.151.9च्द्]> इति
<4.1.13> (25.13) होत्रे प्रसौत्य् <अभिजिद् असि युक्तग्रावेन्द्राय त्वेन्द्रं जिन्व [त्स् 3.5.2.4, प्ब् 1.10.4]> इति ॥
<4.1.14> (25.14) षोडशिग्रहस्य <इन्द्र जुषस्व [2.5.1]> इति । <इन्द्र षोडशिन्न् ओजस्वांस् त्वं देवेष्व् असि । ओजस्वन्तं माम् आयुष्मन्तं मनुष्येषु कृणुहि । तस्य त उपहूतस्योपहूतो भक्षयामि [आश्व्श्स् 6.3.22]> इति भक्षयन्ति । द्वौ द्वौ त्रयश् छन्दोगाः ॥
<4.1.15> (25.15) घर्मवत् सत्त्रे ॥
<4.2.1> (26.1) अतिरात्रे होत्रादिभ्यः प्रसौत्य् <अधिपतिर् असि प्राणाय त्वा प्राणं जिन्व । धरुणो ऽस्य् अपानाय त्वापानं जिन्व । संसर्पो ऽसि चक्षुषे त्वा चक्षुर् जिन्व । वयोधा असि श्रोत्राय त्वा श्रोत्रं जिन्व [च्f. त्स् 4.4.1.2-3, क्स् 17.7, प्ब् 1.10.5-9, ग्ब् 2.2.14]> इति ॥
<4.2.2> (26.2) होमान् ऐन्द्रान् । आश्विनाद् आश्विनम् ॥
<4.2.3> (26.3) स्तोत्रियानुरूपयोः प्रथमानि पदानि पुनरादायम् अर्धर्चशस्यवच् छंसति । मध्यमे पर्याये मध्यमान्य् उत्तम उत्तमानि ॥
<4.2.4> (26.4) प्रातःसवनवद् आहावोक्थसंपदाव् अस्वरौ ॥
<4.2.5> (26.5) <वयम् उ त्वा तद् इद् अर्थाः [20.18.1-3]> <वयम् इन्द्र त्वायवः [20.18.4]> इति स्तोत्रियानुरूपौ ॥
<4.2.6> (26.6) ऊर्ध्वं सर्वत्र त्रीणि सूक्तानि । अन्त्यं पच्छः पर्यासः ॥
<4.2.7> (26.7) <य उद् ऋचि [20.21.11]> इति परिधानीया । <अप्सु धूतस्य [20.33.1]> इति याज्या ॥
<4.2.8> (26.8) मध्यमे <त्रिवृद् असि त्रिवृते त्वा त्रिवृतं जिन्व । प्रवृद् असि प्रवृते त्वा प्रवृतं जिन्व । स्ववृद् असि स्ववृते त्वा स्ववृतं जिन्व । अनुवृद् अस्य् अनुवृते त्वानुवृतं जिन्व [च्f. त्स् 4.4.1.3, प्ब् 1.10.9, क्स् 37.17, ग्ब् 2.2.14]> इति ॥

<4.2.9> (26.9) <अभि त्वा वृषभा सुते [20.22.1-3]> <अभि प्र गोपतिं गिरा [20.22.4-6]> इति स्तोत्रियानुरूपौ ॥
<4.2.10> (26.10) <बर्हिर् वा यत् स्वपत्याय [20.25.6]> इति परिधानीया । <प्रोग्रां पीतिम् [20.25.7]> इति याज्या ॥
<4.2.11> (26.11) उत्तमे <आरोहो ऽस्य् आरोहाय त्वारोहं जिन्व । प्ररोहो ऽसि प्ररोहाय त्वा प्ररोहं जिन्व । संरोहो ऽसि संरोहाय त्वा संरोहं जिन्व । अनुरोहो ऽस्य् अनुरोहाय त्वानुरोहं जिन्व [च्f. त्स् 4.4.1.3, प्ब् 1.10.10, ग्ब् 2.2.14]> इति ॥
<4.2.12> (26.12) <योगेयोगे तवस्तरम् [20.26.1-3]> <युञ्जन्ति ब्रध्नम् अरुषम् [20.26.4-6]> इति स्तोत्रियानुरूपौ ॥
<4.2.13> (26.13) <अपाः पूर्वेषाम् [20.32.3]> इति परिधानीया । <ऊती शचीवः [20.33.3]> इति याज्या ॥
<4.2.14> (26.14) होत्र आश्विनाय प्रसौति <वसुको ऽसि वस्यष्टिर् असि वेषश्रीर् असि । वसुकाय त्वा वस्यष्ट्यै त्वा वेषश्रियै त्वा । वसुकं जिन्व वस्यष्टिं जिन्व वेषश्रियं जिन्व [च्f. त्स् 4.4.1.3, प्ब् 1.10.11, क्स् 37.17, ग्ब् 2.2.14]> इति ॥
<4.2.15> (26.15) एवं चतुःसंस्थो ज्योतिष्टोमो ऽत्यग्निष्टोमवर्जम् ॥
<4.2.16> (26.16) एष सोमानां प्रकृतिः ॥
<4.3.1> (27.1) वाजपेयः शरदि ॥
<4.3.2> (27.2) सर्वः सप्तदश ॥
<4.3.3> (27.3) हिरण्यस्रज ऋत्विजः ॥
<4.3.4-5> (27.4-5) मरुत्वतीयाद् बार्हस्पत्येष्टिर् आज्यभागादीडान्ता ॥
<4.3.6> (27.6) यूपम् आरोह्यमाणो यजमान आह <देवस्य सवितुः सवे स्वर्गं वर्षिष्ठं नाकं रुहेयम् [ग्ब् 2.5.8]> <पृष्ठात् पृथिव्या अहम् [4.14.3-5]> इति ॥
<4.3.7> (27.7) आरूढः <यावत् ते [12.1.33]> इति वीक्षते ॥
<4.3.8> (27.8) अवरुह्य <भूमे मातः [12.1.63]> इति यूपवासांसि ब्रह्मणे ददाति ॥
<4.3.9> (27.9) तीर्थदेशे रथचक्रम् आरुह्यापराजिताभिमुखो ऽश्वरथान् ईक्षमाण आसीनो वाजसामाभिगायति त्रिः <आविर् मर्या आ वाजं वाजिनो ऽग्मन् । देवस्य सवितुः सवे स्वर्गम् अर्वन्तो जयेम [स्व् 1.435]> इति ॥
<4.3.10> (27.10) <तद् वो गाय [20.78.1]> इति स्तोत्रियः ॥
<4.3.11> (27.11) अभिप्लवस्तोत्रियान् आवपते ॥
<4.3.12> (27.12) माध्यंदिने <इन्द्र क्रतुं न आ भर [20.79.1-2]> इति स्तोत्रियः । <इन्द्र ज्येष्ठम् [20.80.1-2]> <उद् उ त्ये मधुमत्तमाः [20.59.1-2]> इति वा ॥
<4.3.13> (27.13) <कन् नव्यो अतसीनाम् [20.50.1-2]> इति सामप्रगाथः ॥
<4.3.14> (27.14) अहीनसूक्तम् आवपते ॥
<4.3.15> (27.15) तृतीयसवने <य एक इद् विदयते [20.63.4-6]> <य इन्द्र सोमपातमः [20.63.7-9]> इत्य् उक्थस्तोत्रियानुरूपौ ॥
<4.3.16> (27.16) ऊर्ध्वं षोडशिनो होत्रे <नाभुर् असि सप्तदश प्रजापतिर् असि प्रजापतये त्वा प्रजापतिं जिन्व [च्f. ग्ब् 2.2.13]> इति ॥
<4.3.17> (27.17) बृहस्पतिसवं परियज्ञम् एके ॥
<4.3.18> (27.18) अप्तोर्याम्णि गर्भकारं शंसति ॥
<4.3.19> (27.19) <युञ्जन्ति ब्रध्नम् अरुषम् [20.26.4-6]> इति स्तोत्रियम् । अभितः <आ याहि [20.3.1-3]> इति ॥
<4.3.20> (27.20) <भिन्धि विश्वा अप द्विषः [20.43.1-3]> इत्य् अनुरूपम् । अभितः <आ नो याहि [20.4.1-3]> इति ॥
<4.3.21> (27.21) वाजपेयवद् आवापः ॥
<4.3.22> (27.22) माध्यंदिने <यद् द्याव इन्द्र ते शतम् [20.81.1-2]> <यद् इन्द्र यावतस् त्वम् [20.82.1-2]> इति स्तोत्रियानुरूपाव् अभितः स्तोत्रियानुरूपौ ॥
<4.3.23> (27.23) सामप्रगाथात् <इन्द्र त्रिधातु शरणम् [20.83.1-2]> इति सामप्रगाथः ॥
<4.3.24> (27.24) सुकीर्तिवृषाकपी सामसूक्तम् अहीनसूक्तम् आवपते ॥
<4.3.25> (27.25) तृतीयसवने <सुरूपकृत्नुम् ऊतये [20.57.1-3]> <शुष्मिन्तमं न ऊतये [20.57.4-6]> इति स्तोत्रियानुरूपाव् अभितः स्तोत्रियानुरूपौ ॥
<4.3.26> (27.26) शेषं पृष्ठ्यषष्ठवत् सातिरात्रम् ॥
<4.3.27> (27.27) अतिरिक्तोक्थेषु होत्रादिभ्यः प्रसौत्य् <आक्रमो ऽस्य् आक्रमाय त्वाक्रमं जिन्व । संक्रमो ऽसि संक्रमाय त्वा संक्रमं जिन्व । उत्क्रमो ऽस्य् उत्क्रमाय त्वोत्क्रमं जिन्व । उत्क्रान्तिर् अस्य् उत्क्रान्त्यै त्वोत्क्रान्तिं जिन्व [व्स्म् 15.9, प्ब् 1.10.12, ग्ब् 2.2.14]> इति ॥
<4.3.28> (27.28) <तम् इन्द्रं वाजयामसि [20.47.1-3]> <महा;म् इन्द्रो य ओजसा [20.138.1-3]> इति स्तोत्रियानुरुपौ । उत्तरौ वा ॥
<4.3.29> (27.29) <आ नूनम् अश्विना युवम् [20.139]> <तं वां रथम् [20.143]> इति सूक्ते । पूर्वस्य दशमीं द्वादशीम् उत्तरं च पच्छः ॥
<4.3.30> (27.30) <मधुमतीर् ओषधीः [20.143.8]> इति परिधानीया । उत्तरा याज्युत्तरा याज्या ॥
<5.1.1> (28.1) कामम् अप्रथमयज्ञे ऽग्निः ॥
<5.1.2> (28.2) समहाव्रते नित्यम् ॥
<5.1.3> (28.3) फाल्गुन्याम् । सत्त्रे पौष्यां तद्गुणानुरोधात् ॥

<5.1.4> (28.4) प्राजापत्ये पशौ समिध्यमानवतीम् अनु <समास् त्वाग्ने [2.6]> इति जपति ॥
<5.1.5> (28.5) <य आत्मदाः [4.2.1]> इत्य् अवदानानाम् ॥
<5.1.6> (28.6) अष्टम्याम् उखा संभरणीया ॥
<5.1.7> (28.7) अष्टगृहीतस्यर्चा स्तोमम् इति ॥ [कौश्स् 5.7]
<5.1.8> (28.8) <परि त्वाग्ने [7.71.1]> इति मृत्पिण्डं परिलिख्यमानम् ॥
<5.1.9> (28.9) <पुरीष्यो ऽसि [त्स् 4.1.3.2-3, वैत्स् 5.14]> इत्य् अभिमृश्यमानम् ॥
<5.1.10> (28.10) <त्वाम् अग्ने [2.6.3]> इति पुष्करपर्णे निधीयमानम् ॥
<5.1.11> (28.11) <आपो हि ष्ठा [1.5.1-4]> इति पलाशफाण्टेनाभिषिच्यमानम् ॥
<5.1.12> (28.12) <पृथिवीं त्वा पृथिव्याम् [12.3.22-23]> इत्य् उखां क्रियमाणाम् । पुनःकरण इति भागलिः ॥
<5.1.13> (28.13) तृतीयया पच्यमानाम् ॥
<5.1.14> (28.14) आमावास्येनेष्टे । दीक्षणीयायां वैश्वानरादित्ययोश् च । <यद् अग्ने यानि कानि चिद् [19.64.3]> इत्य् उख्ये समिध आधीयमानाः ॥
<5.1.15> (28.15) <संशितं मे [3.19]> इत्य् उख्यम् उन्नीयमानम् ॥
<5.1.16> (28.16) <आ त्वाहार्षम् [6.87.1]> इत्य् उन्नीतम् ॥
<5.1.17> (28.17) <उद् उत्तमम् [7.83.3]> इति पाशान् उन्मुच्यमानान् ॥
<5.1.18> (28.18) संवत्सरम् उख्यं बिभर्ति । सद्यो वा ॥
<5.1.19> (28.19) <आ नो भर [5.7]> इति वनीवाहने वाचयति ॥
<5.1.20> (28.20) <गर्भो अस्य् ओषधीनाम् [5.25.7]> इत्य् उख्यं भस्माप्स्व् ओप्यमानम् ॥
<5.1.21> (28.21) <सह रय्या निवर्तस्व [सकल अत् कौश्स् 72.14, प्स् 1.41.3-4]> इति द्वाभ्याम् उप्तम् आदीयमानम् ॥
<5.1.22> (28.22) <पुनस् त्वा [12.2.6]> इत्य् उख्ये समिध आधीयमानाः ॥
<5.1.23> (28.23) दीक्षान्ते <वि मिमीष्व [13.1.27]> इति वेद्यग्नि मिमानम् ॥
<5.1.24> (28.24) <अपेत वीत []18.1.55> इति गार्हपत्यम् उदुह्यमानम् ॥
<5.1.25> (28.25) <अयं ते योनिः [3.20.1]> इति गार्हपत्येष्टका निधीयमानाः ॥
<5.1.26> (28.26) <नमो ऽस्तु ते निरृते [6.63.2]> इति पित्र्युपवीती नैरृतीः ॥
<5.1.27> (28.27) <यत् ते देवी [6.63.1]> इति शिक्यासन्दीरुक्मपाशान् नैरृत्यां प्रास्तान् ॥
<5.1.28> (28.28) अनपेक्षमाणा एत्य <निवेशनः संगमनः [10.8.42]> इत्य् ऐन्द्र्या गार्हपत्यम् उपतिष्ठन्ते ॥
<5.1.29> (28.29) प्रायणीयादि ॥
<5.1.30> (28.30) <सीरा युञ्जन्ति [3.17.1-2अ]> इति सीरं युज्यमानम् ॥
<5.1.31> (28.31) <लाङ्गलं पवीरवत् [3.17.3]> इति कर्षमाणम् ॥
<5.1.32> (28.32) <कृते योनौ [3.17.2ब्च्द्]> इत्य् ओषधीर् आवपन्तम् ॥
<5.1.33> (28.33) <ब्रह्म जज्ञानम् [4.1.1]> इति रुक्मं निधीयमानम् ॥
<5.1.34> (28.34) <हिरण्यगर्भः [4.2.7]> इति हिरण्यपुरुषम् ॥
<5.2.1> (29.1) <मधु वाताः [सकल अत् कौश्स् 91.1, प्स् 19.45.5-7]> इति कूर्मम् अभ्यज्यमानम् ॥
<5.2.2> (29.2) <विष्णोः कर्माणि [7.26.6]> इत्य् उलूखलमुसलं निधीयमानम् ॥
<5.2.3> (29.3) <अजो हि [4.14.1]> इत्य् अजशिरः ॥
<5.2.4> (29.4) पूर्वाह्णिकीर् उपसदो ऽनु चितीश् चिन्वन्ति ॥
<5.2.5> (29.5) <वार्त्रहत्याय शवसे [20.19.1]> <वि न इन्द्र [1.21.2]> <मृगो न भीमः [7.84.3]> <वैश्वानरो न ऊतये [6.35.1]> इति चितिंचितिं पुरीषाच्छन्नाम् ॥
<5.2.6> (29.6) <अग्ने जातान् [7.34.1, 7.35.1]> इति द्वाभ्यां पञ्चम्यां चिताव् असपत्नेष्टका निधीयमानाः ॥
<5.2.7> (29.7) एकान्नत्रिंशत्स्तोमभागैः स्तोमभागिकीः ॥
<5.2.8> (29.8) <त्वाम् अग्ने पुष्कराद् अधि [त्स् 4.1.3.2, वैत्स् 5.14]> इति गायत्रीः । <अबोध्य् अग्निः [13.2.46]> इति त्रैष्टुभीः । <सं समिद् [6.63.4]> इत्य् आनुष्टुभीः । <अग्निं होतारं मन्ये [20.67.3]> इत्य् अतिच्छान्दसीः । गार्हपत्य उक्थम् ॥
<5.2.9> (29.9) <अयम् अग्निः सत्पतिः [7.62.1]> <येना सहस्रम् [9.5.17]> इति पुनश्चितौ ॥

<5.2.10> (29.10) <मा नो देवाः [6.56.1]> <भवाशर्वौ मृडतम् [11.2.1]> <यस् ते सर्पः [12.1.46]> इति रौद्रान् ॥
<5.2.11> (29.11) <अश्मवर्म मे [5.10.1-7]> इति परिश्रितः ॥
<5.2.12> (29.12) हवनप्रासनाद् आग्नीध्रः <या आपो दिव्याः [4.8.5]> इति चितिं परिषिञ्चति ॥
<5.2.13> (29.13) <इदं व आपः [3.13.7]> <हिमस्य त्वा [6.106.3]> <उप द्याम् उप वेतसम् [18.3.5]> <अपाम् इदम् [6.106.2]> इति मण्डूकावकावेतसैर् दक्षिणादि प्रतिदिशं विकृष्यमाणाम् ॥
<5.2.14> (29.14) <यो विश्वचर्षणिः [13.2.26]> इत्य् औपवसथ्ये षोडशगृहीतार्धस्य । <स नः पिता जनिता [2.1.3]> इत्य् उत्तरार्धस्य ॥
<5.2.15> (29.15) <उद् एनम् उत्तरं नय [6.5.1]> इति समिध आधीयमानाः ॥
<5.2.16> (29.16) संप्रेषितो ऽप्रतिरथं जपति ॥
<5.2.17> (29.17) <क्रमध्वम् अग्निना [4.14.2-5]> इति चतसृभिश् चितिम् आरोहन्ति ॥
<5.2.18> (29.18) <तां सवितः [7.15]> इति समिध आधीयमानाः ॥
<5.2.19> (29.19) <चत्वारि शृङ्गा [सकल अत् ग्ब् 1.2.16, प्स् 8.13.3]> <अभ्य् अर्चत [7.82.1]> इति जपति ॥
<5.2.20> (29.20) <अग्ने अच्छा [3.20.2-4]> इति तिस्रः । <अर्यमणं बृहस्पतिम् [3.20.7-8]> इति द्वे । <वाजस्य नु प्रसवे [7.6.4]> इति वाजप्रसवीयहोमान् ॥
<5.2.21> (29.21) <सं मा सिञ्चन्तु [7.33.1]> इत्य् अभिषिच्यमानं वाचयति ॥
<5.2.22> (29.22-23) <ये भक्षयन्तः [2.35]> <एतं सधस्थाः [6.123.1-2]> इति द्वे । <येना सहस्रम् [9.5.17]> इति वैश्वकर्मणहोमान् ॥
<5.3.1> (30.1) अग्निचित् सोमातिपूतः सोमवामी सौत्रामण्याभिषिच्यते ॥
<5.3.2> (30.2) उत्क्रान्तः श्रेयसः श्रैष्ठ्यकामस्य ॥
<5.3.3> (30.3) नानिष्टसोमः ॥
<5.3.4> (30.4) आदित्येष्टिः ॥
<5.3.5> (30.5) ऐन्द्रः पशुः ॥
<5.3.6> (30.6) रसप्राशन्या <या बभ्रवः [8.7]> इत्य् ओषधीभिः सुरां संधीयमानाम् ॥
<5.3.7> (30.7) <वायोः पूतः [6.51]> इति सोमातिपूतस्य पाव्यमानाम् ॥
<5.3.8> (30.8) सोमवामिनः <प्राक् सोमः> इति विकृतेन ॥
<5.3.9> (30.9) <अध्वर्यो अद्रिभिः सुतं सोमं पवित्र आसृज । पुनीहीन्द्राय पातवे [ऋव् 9.51.1]> इत्य् अध्वर्युं पावयन्तम् ॥
<5.3.10> (30.10) गृहीतेष्व् आज्येषु <कुविद् अङ्ग यवमन्तः [20.125.2]> इति पयोग्रहान् गृह्णन्तम् ॥
<5.3.11> (30.11) वपामार्जनात् <युवं सुरामम् अश्विना [20.125.4-7]> इति चतसृभिः पयःसुराग्रहाणाम् । सौराणां न भक्षणम् ॥
<5.3.12> (30.12) आश्विनस्यैके <यम् अश्विना नमुचेर् आसुराद् अधि सरस्वत्य् असुनोद् इन्द्रियाय । इमं तं शुक्रं मधुमन्तम् इन्दुं सोमं राजानम् इह भक्षयामि [व्स् 19.34, त्ब् 2.6.3.1]> इति ॥
<5.3.13> (30.13) <पुनन्तु मा [6.19]> <गिराव् अरगराटेषु [6.69]> <यद् गिरिषु [9.1.18]> इति शतातृणाम् आसिच्यमानाम् ॥
<5.3.14> (30.14) <उद् ईरताम् [18.1.44-45]> इति द्वे <बर्हिषदः पितरः [18.1.51]> <उपहूता नः पितरः [18.3.45]> <अग्निष्वात्ताः [18.3.44]> इति पञ्च जपति ॥
<5.3.15> (30.15) आश्विनसारस्वतैन्द्रपशूनाम् । वनस्पतियागाद् अभिषिच्यमानम् <ओं भूर् भुवः स्वर् जनद् ओम्> इति वाचयति ॥
<5.3.16> (30.16) सामगानाय प्रेषितः <बृहद् इन्द्राय गायत मरुतो वृत्रहन्तमम् । येन ज्योतिर् अजनयन्न् ऋतावृधो देवं देवाय जागृवि [ऋव् 8.89.1, स्व् 1.258]> इत्य् ऐन्द्र्यां बृहत्यां संशानानि गायति ॥
<5.3.17> (30.17) <सं त्वा हिन्वन्ति धाइताइभी3ः सं त्वा रिणन्ति सं त्वा शिशन्ति सं त्वा ततक्षुः [लाट्य्श्स् 8.8.11-13]> इति प्रतिपदः ॥
<5.3.18> (30.18) <संश्रवसे विश्रवसे सत्यश्रवसे श्रवसे [ग्ब् 2.5.7]> इति निधनानि ॥
<5.3.19> (30.19) <संजित्यै विजित्यै सत्यजित्यै जित्यै [लाट्य्श्स् 5.4.19]> इति क्षत्रियस्य । <संपुष्ट्यै विपुष्ट्यै सत्यपुष्ट्यै पुष्ट्यै [लाट्य्श्स् 5.4.19]> इति वैश्यस्य ॥
<5.3.20> (30.20) सर्वे निधनम् उपयन्ति ॥
<5.3.21> (30.21) बर्हिर्होमाद् अवभृथः ॥
<5.3.22> (30.22) <यद् देवाः [6.114]> इति मासरकुम्भं प्लाव्यमानम् ॥
<5.3.23> (30.23) <द्रुपदाद् इव [6.115.3]> इति वासः ॥
<5.3.24> (30.24) मैत्रावरुण्याम् इक्षेष्टिः ॥
<5.3.25> (30.25) इन्द्राय वयोधसे पशुः ॥
<5.3.26> (30.26) आदित्येष्टिः ॥
<5.3.27> (30.27) <दूरे चित् सन्तम् [3.3.2]> इति प्रणवान्तया तानेन मन्त्रोक्तम् उपतिष्ठन्ते मन्त्रोक्तम् उपतिष्ठन्ते ॥

<6.1.1> (31.1) माध्याः पुरस्ताद् एकादश्यां सप्तदशावराः सत्त्रम् उपयन्तो ब्राह्मणोक्तेन दीक्षेरन् ॥
<6.1.2> (31.2) इष्टप्रथमयज्ञाः । गृहपतिर् वा ॥
<6.1.3> (31.3) तस्याग्नौ समोप्याग्नीत् प्राजापत्येन यजन्ते ॥
<6.1.4> (31.4) अह्नां विधान्याम् एकाष्टकायाम् अपूपं चतुःशरावं पक्त्वा प्रातर् एतेन कक्षम् उपोषेत् <अयं नो नभसस्पतिः [6.79.1]> इति मन्त्रोक्तदेवताभ्यः संकल्पयन् ॥
<6.1.5> (31.5) यदि दहति पुण्यसमं भवत्य् अथ न दहति पापसमम् ॥
<6.1.6> (31.6) अथ गवामयनम् ॥
<6.1.7> (31.7) प्रायणीयश् चतुर्विंशम् अभिप्लवाश् चत्वारः पृष्ठ्य इति प्रथमो मासः ॥
<6.1.8> (31.8) एवं चत्वारः प्रायणीयचतुर्विंशवर्जम् ॥
<6.1.9> (31.9) त्रयो ऽभिप्लवाः पृष्ठ्यो ऽभिजित् स्वरसामान इति षष्ठः ॥
<6.1.10> (31.10) अतिरिक्त आत्मा विषुवान् ॥
<6.1.11> (31.11) आवृत्त उत्तरः पक्षः ॥
<6.1.12> (31.12) स्वरसामानो विश्वजित् पृष्ठ्यो ऽभिप्लवाश् चत्वार इति सप्तमः ॥
<6.1.13> (31.13) एवं चत्वारः स्वरसामविश्वजिद्वर्जम् ॥
<6.1.14> (31.14) अभिप्लवौ गवायुषी दशरात्र ऊर्ध्वस्तोमो महाव्रतम् उदयनीय इति द्वादशः ॥
<6.1.15> (31.15) तद् एतच् छ्लोको ऽभिवदति <द्वाव् अतिरात्रौ षट्शतम् अग्निष्टोमा द्वे विंशतिशते उक्थ्यानाम् । द्वादश षोडशिनः षष्टिः षडहा वैषुवतं च [ग्ब् 1.5.23]> इति
<6.1.16> (31.16) चतुर्विंशे <इन्द्रम् इद् गाथिनो बृहत् [20.38.4-6]> इत्य् आज्यस्तोत्रियः । <इन्द्रा याहि चित्रभानो [20.84]> इति वा ॥
<6.1.17> (31.17) आभिप्लविकांस् तृतीयादीन् स्तोत्रियान् आवपते ॥
<6.1.18> (31.18) <अभि प्र वः सुराधसम् [20.51.1-2]> <प्र सु श्रुतं सुराधसम् [20.51.3-4]> इति पृष्ठस्तोत्रियानुरूपौ बार्हतौ प्रगाथौ । <मा चिद् अन्यद् वि शंसत [20.85.1-2]> <यच् चिद् धि त्वा जना इमे [20.85.3-4]> इति वा ॥
<6.1.19> (31.19) <अस्मा इद् उ प्र तवसे तुराय [20.35]> इत्य् अहीनसूक्तम् आवपते ॥
<6.1.20> (31.20) अभिजिति विषौवति विश्वजिति महाव्रते च । <य एक इद् विदयते [20.63.4-6]> <य इन्द्र सोमपातमः [20.63.7-9]> इत्य् उक्थस्तोत्रियानुरूपौ ॥
<6.1.21> (31.21) अभिप्लवे <आ याहि सुषुमा हि ते [20.38]> इति षड् आज्यस्तोत्रिया आरम्भणीयापर्यासवर्जम् ॥
<6.1.22> (31.22) <वात्रहत्याय शवसे [20.19.1-3]> <शुष्मिन्तमं न ऊतये [20.20.1-3]> <आ तू न इन्द्र मद्र्यक् [20.23.1-3]> <उप नः सुतम् आ गहि [20.24.1-3]> <यद् इन्द्राहं यथा त्वम् अशीय [20.27.1-3]> <अपाम् ऊर्मिर् मदन्न् इव [20.28.4, 20.29.1-2]> इति तृचान् आवपते ॥
<6.1.23> (31.23) <तं वो दस्ममृतीषहम् [20.49.4-7]> इति पृष्ठस्तोत्रियानुरूपौ ॥
<6.1.24> (31.24) <अभि प्र वः सुराधसम् [20.51]> इति युग्मेषु ॥
<6.1.25> (31.25) <इन्द्रः पूर्भिद् आतिरद् दासम् अर्कैः [20.11]> <य एक इद् धव्यश् चर्षणीनाम् [20.36]> <यस् तिग्मशृङ्गो वृषभो न भीमः [20.37]> इति संपातानाम् एकैकम् अहरहर् आवपते । पृष्ठ्ये छन्दोमेषु दशमे च ॥
<6.1.26> (31.26) मध्यमेषु <एवा ह्य् असि वीरयुः [20.60-62]> इत्य् उक्थस्तोत्रियानुरूपाः ॥
<6.1.27> (31.27) पृष्ठ्यषष्ठे <वनोति हि सुन्वन् क्षयं परीणसः [20.67.1-3]> <विश्वेषु हि त्वा सवनेषु तुञ्जते [20.72.1-3]> इति पारुच्छेपीर् उपदधति द्वयोः सवनयोः पुरस्तात् प्रस्थितयाज्यानाम् । <यज्ञैः संमिश्लाः पृषतीभिर् ऋष्टिभिः [20.67.4-7]> इत्य् ऋतुयाज्यानाम् उपरिष्टात् ॥
<6.2.1> (32.1) षडहे ऽभिप्लववद् आज्यस्तोत्रियाः । प्रथमयोर् आवापः पृष्ठस्तोत्रियानुरूपौ च ॥
<6.2.2> (32.2) तृतीये <वाजेषु सासहिर् भव [20.19.6, 7.20.1-3]> इति पञ्चर्चः ॥
<6.2.3> (32.3) चतुर्थे <पुरुष्टुतस्य धामभिः [20.19.4-7; 20.1-5]> इति नव ॥
<6.2.4> (32.4) पञ्चमे <यद् इन्द्राहं यथा त्वम् [20.27-29]> इति पञ्चदश ॥
<6.2.5> (32.5) षष्ठे <अभि प्र गोपतिं गिरा [20.92]> इत्य् एकविंशतिः ॥
<6.2.6> (32.6) तृतीयादीनां <वयं घ त्वा सुतावन्तः [20.52-56; 57.1-6]> इति पृष्ठस्तोत्रियानुरूपाः ॥
<6.2.7> (32.7) चतुर्थे <तुभ्येदिमा सवना शूर विश्वा [20.73]> इति षट् पुरस्तात् संपातात् । तिस्रो ऽर्धर्चशः ॥
<6.2.8> (32.8) पञ्चमे <यच् चिद् धि सत्य सोमपाः [20.74]> इति पाङ्क्तं सप्तर्चम् । द्वौद्वाव् अवसाय पञ्चमं संतनोति । त्रयं वावसाय द्वयम् ॥
<6.2.9> (32.9) षष्ठे <वि त्वा ततस्रे मिथुना अवस्यवः [20.75]> इति सप्त । पदानाम् एकैकम् अवसाय द्वयं संतनोति । द्वयम् अवसाय द्वयम् ॥
<6.2.10> (32.10) <वने न वा यो न्यधायि चाकन् [20.73]> इत्य् अष्टर्चं च ॥
<6.2.11> (32.11) मध्यमेष्व् अभिप्लववद् उक्थस्तोत्रियानुरूपाः ॥
<6.2.12> (32.12) षष्ठे <इमा नु कं भुवना सीषधाम [20.63.1, 2अब्]> <हत्वाय देवा असुरान् यद् आयन् [20.63.2च्द्, 3]> इति द्वैपदौ पच्छः ॥
<6.2.13> (32.13) <अपेन्द्र प्राचो मघवन्न् अमित्रान् [20.125]> इति सुकीर्तिम् । चतुर्थीम् अर्धर्चशः ॥

<6.2.14> (32.14) <वि हि सोतोर् असृक्षत [20.126]> इति वृषाकपिम् । पदावग्राहम् अनवानं द्वितीयेष्व् अवस्यति । तृतीयेषु द्वितीयान्त्यस्वरयोस् तदाद्योश् च न्यूङ्खनिनर्दान् कृत्वा द्वयं संतनोति ॥
<6.2.15> (32.15) न्यूङ्खप्रतिगरेषु प्रथमचतुर्थाष्टमद्वादशेषु प्लुतिः । निनर्देष्व् आद्यतृतीययोः । मध्यमः स्वरितः ॥
<6.2.16> (32.16) निदर्शनम्
<6.2.17> (32.17) <वि हि सोतोर् असृक्षत नेन्द्रं देवम् अमंसत । यत्रो3 ओ ओ ओ3 ओ ओ ओ ओ3 ओ ओ ओ ओ3 मदद् वृषाकपो3 ओ ओ3 अर्यः पुष्टेषु मत्सखा विश्वस्माद् इन्द्र उक्तरोम् [20.126.1]> । <परा हीन्द्र [20.126.2]> इति ॥
<6.2.18> (32.18) प्रतिगरे <ओ3 ओ ओ ओ3 ओ ओ ओ ओ3 ओ ओ ओ ओ3> । निनर्दस्य <मदेथ मदैवो3 ओ ओ3 थामो दैव> इति ॥
<6.2.19> (32.19) <इदं जना उप श्रुत [20.127; 128]> इति कुन्तापम् अर्धर्चशः । चतुर्दश पदावग्राहम् ॥
<6.2.20> (32.20) <एता अश्वा आ प्लवन्ते [20.129-132]> इत्य् ऐतशप्रलापं पदावग्राहम् । तासाम् उत्तमेन पादेन प्रणौति ॥
<6.2.21> (32.21) <विततौ किरणौ द्वौ [20.133]> इति प्रवल्हिकाः ॥
<6.2.22> (32.22) <इहेत्थ प्राग् अपाग् उदग् अधराक् [20.134]> इति प्रतिराधान् । न संतनोति ॥
<6.2.23> (32.23) <भुग् इत्य् अभिगतः [20.135.1-3]> इत्य् आजिज्ञासेन्यास् तिस्रः ॥
<6.2.24> (32.24) प्रवल्हिकादिषु पञ्चदश प्रतिगराः ॥
<6.2.25> (32.25) <दुन्दुभिम् आहननाभ्यां जरितरोथामो दैव [20.135.1ब्च्]> । <कोशबिले रजनि ग्रन्थेर् दानम् उपानहि पादम् । उत्तमां जनिमां जन्याम् उत्तामां जनीन् वर्त्मन्यात् [20.135.2]> । <अलाबूनि पृषातकान्य् अश्वत्थपलाशं पिप्पीलिकावटः श्वसः विद्युत् श्वा पर्णशदः गोशफो जरितः [20.135.3]> इति । पूर्वासु पूर्वेषु ॥
<6.2.26> (32.26) <वीमे देवा अक्रंसत [20.135.4]> इत्य् अतिवादम् ॥
<6.2.27> (32.27) <पत्नी यद् दृश्यते .... जरितरोथामो दैव [20.135.5अब्]> <होता विष्टीमेन जरितरोथामो दैव [20.135.5च्द्]> इति प्रतिगरौ ॥
<6.2.28> (32.28) <आदित्या ह जरितः [20.135.6]> इति देवनीथम् ऐतशप्रलापवत् ॥
<6.2.29> (32.29) <ओं ह जरितस् तथा ह जरितः> इति प्रतिगरौ व्यत्यासम् ॥
<6.2.30> (32.30) <त्वम् इन्द्र शर्म रिणाः [20.135.11-13]> इति भूतेच्छदः ॥
<6.2.31> (32.31) <यद् अस्या अंहुभेद्याः [20.136.1-16]> इत्य् आहनस्या वृषाकपिवत् ॥
<6.2.32> (32.32) प्रतिगर ईकारः । निनर्दस्य <किम् अयम् इदम् आहो3 ओ ओ3थामो दैव> इति ॥
<6.2.33> (32.33) <दधिक्राव्णो अकारिषम् [20.137.3]> इत्य् अर्धर्चशः । <सुतासो मधुमत्तमाः [20.137.4-6]> इति पावमानीः । <अव द्रप्सो अंशुमतीम् अतिष्ठत् [20.137.7-9]> इति पच्छः ॥
<6.2.34> (32.34) अस्योत्तमया परिदधाति नित्यया वा
<6.2.35> (32.35) ऐन्द्राजागतम् उत्सृजन्त्य् एके । ऐन्द्राबार्हस्पत्यं तृचम् अन्त्यम् ऐन्द्राजागतं च शस्त्वेत्य् अपरे ॥
<6.3.1> (33.1) नवरात्रे ऽभिजिद् विषुवान् विश्वजिच् चतुर्विंशवद् उक्थवर्जम् । आभिप्लविकांस् तु सर्वान् ॥
<6.3.2> (33.2) <अभि त्वा वृषभा सुते [20.22.1-3]> <उद्धेद् अभि श्रुताम् अघम् [20.7.1-3]> <युञ्जन्ति ब्रध्नम् अरुषं चरन्तम् [20.26.4-6]> इत्य् आज्यस्तोत्रियाः ॥
<6.3.3> (33.3) स्वरसामसु <आ याहि सुषुमा हि ते [20.38.1-3]> <इन्द्रम् इद् गाथिनो बृहत् [20.38.4-6]> <इन्द्रेण सं हि दृक्षसे [20.40.1-3]> इति ॥
<6.3.4> (33.4) शेषम् अभिप्लवस्य द्वितीयादि त्र्यहवत् । पञ्चर्चस् त्व् आवापः ॥
<6.3.5> (33.5) विषुवति सौर्यपृष्ठे <उद् उ त्यं जातवेदसम् [20.47.13-21, 20.48.1-6]> इति षट् स्तोत्रियः ॥
<6.3.6> (33.6) <चित्रं देवानाम् उद् अगाद् अनीकम् [20.107.14-15]> <तत् सूर्यस्य देवत्वं तन् महित्वम् [20.123]> इति पृष्ठस्तोत्रियानुरूपौ । <बण् महा;म् असि सूर्य [20.58.3-4]> <श्रायन्त इव सूर्यम् [20.58.1-2]> इति वा । <इन्द्र क्रतुं न आ भर [20.79.1-2]> <इन्द्र ज्येष्ठं न आ भर [20.80.1-2]> इति वा ॥
<6.3.7> (33.7) नित्यौ वोत्तरे पक्षे । अनुरूपात् <तं वो दस्मम् ऋतीषहम् [20.49.4-5]> <अभि प्र वः सुराधसम् [20.51.1-2]> इति नौधसश्यैतयोनी कामम् ॥
<6.3.8> (33.8) <वैश्वानरस्य प्रतिमोपरि द्यौः [8.9.6-23]> <चित्तश् चिकित्वान् महिषः सुपर्णः [13.2.32-46]> इति सूक्तशेषाव् आवपते ॥
<6.3.9> (33.9) <विश्वजिति वैराजपृष्ठे <यद् द्याव इन्द्र ते शतम् [20.81]> <यद् इन्द्र यावतस् त्वम् [20.82]> इति पृष्ठस्तोत्रियानुरूपौ बार्हतौ ॥
<6.3.10> (33.10) उक्ते योनी । <इन्द्र क्रतुं न आ भर [20.79]> इति तृतीयाम् ॥
<6.3.11> (33.11) <इन्द्र त्रिधातु शरणम् [20.83]> इति सामप्रगाथः ॥
<6.3.12> (33.12) सुकीर्तिवृषाकपी <यो जात एव प्रथमो मनस्वान् [20.34]> इति सामसूक्तम् अहीनसूक्तम् आवपते ॥
<6.3.13> (33.13) दशरात्र उक्तः पृष्ठ्यः ॥
<6.3.14> (33.14) छन्दोमेषु <इन्द्रा याहि चित्रभानो [20.84]> <तम् इन्द्रं वाजयामसि [20.47.1-3; 137.12-14]> <महा;म् इन्द्रो य ओजसा [20.138]> इत्य् आज्यस्तोत्रियाः ॥
<6.3.15> (33.15) <सुरूपकृत्नुम् ऊतये [20.68]> इति द्वादशर्चः । <स घा नो योग आ भुवत् [20.69-70]> इति द्वात्रिंशतम् । <वीलु चिद् आरुजत्नुभिः [20.70-71]> इति षट्त्रिंशतम् आवपते ॥
<6.3.16> (33.16) <वयं घ त्वा सुतावन्तः [20.52]> इत्य् आदि <बण् महा;म् असि सूर्य [20.58-3-4]> इत्यन्ताः पृष्ठस्तोत्रियानुरूपौ ॥
<6.3.17> (33.17) उत्तरयोर् अष्टर्चम् <आ सत्यो यातु मघवा;म् ऋजीषी [20.77]> इति चावपते ॥
<6.3.18> (33.18) अन्येषु महास्तोत्रेष्व् अष्टर्चम् । <य एक इद् विदयते [20.63.4-6 एत्च्.]> षड् उक्थस्तोत्रियानुरूपौ ॥

<6.3.19> (33.19) द्वितीये <अध्वर्यवो ऽरुणं दुग्धम् अंशुम् [20.87]> <यस् तस्तम्भ सहसा वि ज्मो अन्तान् [20.88]> <अस्तेव सु प्रतरं लायम् अस्यन् [20.89]> इत्य् ऐकाहिकानि ॥
<6.3.20> (33.20) तृतीये <अध्वर्यवो ऽरुणम् [20.87]> <यो अद्रिभित् प्रथमजा ऋतावा [20.90]> <आ यात्व् इन्द्रः स्वपतिर् मदाय [20.94]> इति ॥
<6.3.21> (33.21) <यो अद्रिभित् [20.90]> <इमां धियं सप्तशीर्ष्णीं पिता नः [20.91]> इत्य् उभयोर् एकैकं मध्यमस्यादाव् अन्ते वा ॥
<6.3.22> (33.22) दशमं पृष्ठ्यचतुर्थवद् उक्थवर्जम् ॥
<6.3.23> (33.23) <उत् त्वा मन्दन्तु [20.93.1-3]> इत्य् आज्यस्तोत्रियः ॥
<6.3.24> (33.24) <उद् उ त्ये मधुमत्तमाः [20.59.1-2]> <उद् इन् न्व् अस्य रिच्यते [20.59.3-4]> इति पृष्ठस्तोत्रियानुरूपौ ॥
<6.3.25> (33.25) पत्नीसंयाजेभ्यो मानसस्तोत्राय कृतसंज्ञाः सदो ऽभिव्रजन्ति ॥
<6.3.26> (33.26) मनसा सर्वम् अभ्रेषे ॥
<6.3.27> (33.27) होत्र <आरोहो ऽसि मानसो मनसे त्वा मनो जिन्व [-]> इति प्रसौति ॥
<6.3.28> (33.28) <आयं गौः [6.31]> इति चानुमन्त्रयते ॥
<6.3.29> (33.29) <धृतिर् असि स्वधृतिर् असि [-]> इत्य् औदुम्बरीं मध्ये ऽन्वालभ्यासते ॥
<6.4.1> (34.1) प्रादुर्भूतेषु नक्षत्रेषु निष्क्रम्य जपन्ति <युवं तम् इन्द्रापर्वता पुरोयोधा यो नः पृतन्याद् अप तंतम् इद् धतं वज्रेन तंतम् इद् धतम् । दूरे चत्ताय छन्त्सद् गहनं यद् इनक्षत् । अस्माकं शत्रून् परि शूर विश्वतो दर्मा दर्षीष्ट विश्वतः [ऋव् 1.132.6, व्स्म् 8.53]> इति ॥
<6.4.2> (34.2) अध्वर्युपथेन गत्वा दक्षिणपश्चाद् अग्नेर् उपविश्य कामान् कामयित्वा <यद् इहोनम् अकर्म यद् अत्यरीरिचाम प्रजापतिं तत् पितरम् अप्येतु [अब् 5.24]> इति ॥
<6.4.3> (34.3) तिष्ठन्तो वाचम् आह्वयन्ते <वाग् ऐतु वाग् उपैतु वाग् उप मैतु वाक्> इति ॥
<6.4.4> (34.4) सुब्रह्मण्यां च ॥
<6.4.5> (34.5) अनधीयानः सुब्रह्मण्यो3म् इति त्रिः ॥
<6.4.6> (34.6) महाव्रते <सुरूपकृत्नुम् ऊतये [20.57.1-3]> इत्य् आज्यस्तोत्रियः ॥
<6.4.7> (34.7) <ईङ्खयन्तीर् अपस्युवः [20.93.4-8]> इत्य् आवपते । अभिप्लवस्तोत्रियांश् च ॥
<6.4.8> (34.8) माध्यन्दिने होत्रकाः कूर्चान् कृत्वोपविशन्ति ॥
<6.4.9> (34.9) कुम्भिनीर् मार्जालीयं परियान्तीर् अनुमन्त्रयते <गाव एव सुरभयो गावो गुग्गुलुगन्धयः । गावो घृतस्य मातरस् ता इह सन्तु भूयसीर् इदं मधु ॥ न वै गावो मङ्गीरस्य गङ्गाया उदकं पपुः । पपुः सरस्वत्या नद्यास् ताः प्राच्यः संजिगाहिर इदं मधु ॥ एता वयं प्लवामहे शम्याः प्रतरता इव । निकीर्य तुभ्यम् अभ्य आसं गीः कोश्वोष्यौर् यदा गिर इदं मधु ॥ यदा राघटी वरदो व्याघ्रं मङ्गीरदास गौः । जनः स भद्रम् एधति राष्ट्रे राज्ञः परिक्षितः [च्f. आप्श्स् 21.20.3 एत्च्.]> इति ॥
<6.4.10> (34.10) <इदं मध्व् इदं मधु> इति ॥
<6.4.11> (34.11) पत्नीशाले भूमिदुन्दुभिम् औष्ट्रेणापिनद्धं पुच्छेनाघ्नन्त्य् <उच्चैर् घोषः [5.20]> <उप श्वासय [6.126]> इति ॥
<6.4.12> (34.12) तीर्थदेशे राजानम् अन्यं वा <मर्माणि ते [7.118]> इति ॥
<6.4.13> (34.13) संनद्धम् <इन्द्रो जयाति [6.98]> इत्य् अनुमन्त्रयते ॥
<6.4.14> (34.14) संनद्धाय मधुपर्कम् आहारयति । तं स ब्राह्मणेन प्रतिग्राहयति ॥
<6.4.15> (34.15) <वनस्पते वीड्वङ्गः [6.125]> इत्य् अभिमन्त्रितं रथम् आरोहयति ॥
<6.4.16> (34.16) <उद्धर्षन्ताम् [3.19.6-7]> इत्य् आरूढम् अनुमन्त्रयते ॥
<6.4.17> (34.17) <अवसृष्टा परा पत [3.19.8]> इति चतुर्थीम् इषुम् अवसृष्टाम् ॥
<6.4.18> (34.18) स यदा ब्राह्मणधनं गृह्णाति तद् यजमानो निष्क्रीणाति ॥
<6.4.19> (34.19) <त्रिकद्रुकेषु महिषः [20.95.1]> <प्रो ष्व् अस्मै पुरोरथम् [20.95.2]> इति स्तोत्रियानुरूपौ ॥
<6.4.20> (34.20) <तीव्रस्याभिवयसो अस्य पाहि [20.96]> इति चतुर्विंशतिम् आवपते ॥
<6.4.21> (34.21) अथ ज्योतिष्टोमेनाग्निष्टोमेनात्मनिष्क्रयणेन सहस्रदक्षिणेन पृष्ठशमनीयेन त्वरेत ॥
<6.5.1> (35.1) यथास्तुतम् अनुशंसति ॥
<6.5.2> (35.2) एकया द्वाभ्यां वा स्तोमम् अतिशंसेत् । न प्राग् द्वादशात् ॥
<6.5.3> (35.3) षडहस्तोत्रियावापे च ॥
<6.5.4> (35.4) अपरिमिताभिर् उत्तरयोः सवनयोः ॥
<6.5.5> (35.5) छन्दोदैवतप्रतिरूपो ऽनुरूपः ॥
<6.5.6> (35.6) अप्रज्ञाने स्तोत्रियं द्विः ॥
<6.5.7> (35.7) एकाहेषूर्ध्वम् अनुरूपाद् आवापः ॥
<6.5.8> (35.8) प्रगाथान् माध्यन्दिने ॥

<6.5.9> (35.9) संवत्सर आरम्भणीयायाः । श्वःस्तोत्रियानुरूपः ॥
<6.5.10> (35.10) <इन्द्रं वो विश्वतस् परि [20.39.1]> इत्य् आरम्भणीया ॥
<6.5.11> (35.11) <व्यन्तरिक्षम् अतिरत् [20.39.2-5]> इति पर्यासः ॥
<6.5.12> (35.12) माध्यन्दिने <कन् नव्यो अतसीनाम् [20.50]> इति कद्वान्त् सामप्रगाथः ॥
<6.5.13> (35.13) <ब्रह्मणा ते ब्रह्मयुजा युनज्मि [20.86.1]> इत्य् आरम्भणीया ॥
<6.5.14> (35.14) अतिशंसनाय स्तोमान् व्याख्यास्यामः ॥
<6.5.15> (35.15) गोराज्ये त्रिवृत् । पञ्चदश आयुषः । उभयोः पृष्ठे सप्तदशः ॥
<6.5.16> (35.16) उक्थ एकविंशः । पृष्ठ्ये त्रिवृत्पञ्चदशसप्तदशैकविंशत्रिणवत्रयस्त्रिंशाः ॥
<6.5.17> (35.17) अभिजिद्विश्वजितो राज्ये पञ्चदशैकविंशौ । पृष्ठे त्रिणवत्रयस्त्रिंशौ ॥
<6.5.18> (35.18) स्वरसामसु सप्तदशः ॥
<6.5.19> (35.19) विषुवत्य् एकविंशः ॥
<6.5.20> (35.20) छन्दोमेषु चतुर्विंशचतुश्चत्वारिंशाष्टाचत्वारिंशाः ॥
<6.5.21> (35.21) दशम आज्यपृष्ठयोर् एकविंशः ॥
<6.5.22> (35.22) महाव्रते पञ्चविंशः ॥
<6.5.23> (35.23) सर्वत्र संस्थास्तोमस्तोत्रियं सामवेदप्रत्ययं सामवेदप्रत्ययम् ॥
<7.1.1> (36.1) अथ राजसूयः ॥
<7.1.2> (36.2) तैष्याः पुरस्तात् पवित्रः ॥
<7.1.3> (36.3) मासान्तरेषु दश संसृपः ॥
<7.1.4> (36.4) माघ्या अभिषेचनीयः ॥
<7.1.5> (36.5) मरुत्वतीयाद् बार्हस्पत्येष्टिः ॥
<7.1.6-7> (36.6-7) हविर्धानयोः पुरस्ताद् वैयाघ्रचर्मोपबर्हणायाम् आसन्द्याम् <भूतो भूतेषु [4.8]> इत्य् आरोहयत्य् अभिषिञ्चति च ॥
<7.1.8> (36.8) फाल्गुन्या दशपेयः ॥
<7.1.9> (36.9) सांवत्सरिकाणि चातुर्मास्यानि ॥
<7.1.10> (36.10) संस्थितेषु चैत्र्याः प्रत्यवरोहणीयः ॥
<7.1.11> (36.11) वैशाख्या व्युष्टिद्व्यहः ॥
<7.1.12> (36.12) ज्यैष्ठ्याः क्षत्रधृतिः ॥
<7.1.13> (36.13) आषाढ्याः पवित्रः संस्थित्यै ॥
<7.1.14> (36.14) अथाश्वमेधः ॥
<7.1.15> (36.15) फाल्गुन्या ब्रह्मौदनम् उद्गातृचतुर्थेभ्यो ददाति ॥
<7.1.16> (36.16) हुतायां प्रातराहुतौ ब्रह्मणे वरम् ॥
<7.1.17> (36.17) आग्नेयीष्टिः । पौष्णी च ॥
<7.1.18> (36.18) <वातरंहा भव [6.9.2]> इत्य् अश्वं नियुज्यमानम् अनुमन्त्रयते ॥
<7.1.19> (36.19) <अभि त्वा जरिमाहित [3.11.8]> इत्य् उन्मुच्यामानम् ॥
<7.1.20> (36.20) आशापालीयेनोत्सृष्टम् ॥
<7.1.21> (36.21) संवत्सरं सावित्र्यस् तिस्र इष्टयः ॥
<7.1.22> (36.22) पारिप्लवाख्यानाय दक्षिणेन वेदिं हिरण्मयेष्व् आसनेषु उपविशन्ति ॥
<7.1.23> (36.23) कशिपूपबर्हणं ब्रह्मणः । कूर्चो यजमानस्य ॥
<7.1.24> (36.24) आख्यानेषु यथावेदं व्याहृतीर् वाचयति ॥
<7.1.25> (36.25) संवत्सरान्ते दीक्षणम् । एकविंशतिर् दीक्षाः ॥
<7.1.26> (36.26) अभिप्लवप्रथमवत् प्रथमम् अहः । पृष्ठ्यचतुर्थवद् द्वितीयम् ॥

मूल पाठ: Vaitānaśrautasūtra (= Vaitānasūtra) · Edition: Vishva Bandhu (et al.): Vaitāna-Śrauta-Sūtra, with the commentary called Ākṣepānuvidhi by Somāditya, Hoshiarpur : Vishveshvaranand Vedic Research Institute 1967 (Vishveshvaranand Institute publication, 430; Woolner Indological Series, 13) · Data entry Arlo Griffiths · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc