भाषा

ENहिગુ
ग्रंथ पाठ

वैतानश्रौतसूत्र · भाग 2125

<7.1.27> (36.27) बहिष्पवमानाद् अश्वं नियुज्यमानम् अनुमन्त्रयते <सं त्वां गन्धर्वाः सम् उ युञ्जन्त्व् आपो नद्योः सांवैद्ये परिवत्सराय । ये त्वा रक्षन्ति सदम् अप्रमादं तेभ्य आयुः सविता बोधि गोपाय [-]> इति ॥
<7.1.28> (36.28) <दिव्यो गन्धर्वः [2.2.1]> इत्य् एतया कौशिकः
<7.1.29> (36.29) संज्ञप्तं महिषीम् उपवेश्याधीवाससा संप्रोर्णुवन्ति ॥
<7.1.30> (36.30) तौ यजमानो ऽभिमेथति <स्वर्गेण लोकेन संप्रोर्णुवाथाम् अधाम सक्थ्योर् अव गुदं धेहि । अर्वाञ्चम् अञ्जिम् आ भर यत् स्त्रीणां जीवभोजनम् [च्f. व्स्म् 23.20 + त्स् 7.4.19.1]> इति ॥
<7.1.31> (36.31) होत्रभिमेथनाद् एवं वावातां ब्रह्मा <ऊर्ध्वाम् एनाम् उच्छ्रयताद् गिरौ भारं हरन्न् इव । अथास्यै मध्यम् एधतु शीते वाते पुनन्न् इव [व्स्म् 23.26-27]> इति ॥
<7.1.32> (36.32) <ऊर्ध्वम् एनम्> इत्य् अनुचर्यो ब्रह्माणम् ॥
<7.1.33> (36.33) सदसि होत्रध्वर्य्वोर् ब्रह्मोद्याद् ब्रह्मोद्गातारं पृच्छति ॥
<7.2.1> (37.1) <पृच्छामि त्वा चितये देवसख यदि त्वं तत्र मनसा जगन्थ । केषु विष्णुस् त्रिषु पदेषु जिष्णुः केष्व् इदं विश्वं भुवनम् आविवेश [व्स्म् 23.49]> इति ॥
<7.2.2> (37.2) तस्य प्रतिप्रश्नाद् आह <पञ्चस्व् अन्तः पुरुष आविवेश तान्य् अन्तः पुरुष आर्पितानि । एतत् त्वात्र प्रतिमन्वानो अस्मि न यज्ञपा भवस्य् उत्तरो मत् [व्स्म् 23.52]> ॥ <न त्वं परो ऽवरो मन् न पूर्वः किम् अङ्ग वा मतिमन् क्षम तेन । शिक्षेण्यां वदसि वाचम् एनां न मया त्वं संसमको भवासि [-]> इति ॥
<7.2.3> (37.3) निष्क्रम्य सर्वे यजमानं <पृच्छामि त्वा परम् अन्तं पृथिव्याः [9.10.13]> इति । <इयं वेदिः [9.10.14]> इति यजमानः ॥
<7.2.4> (37.4) तृतीये चतुर्विंशवद् द्वे सवने ॥
<7.2.5> (37.5) प्राकृताव् आज्यस्तोत्रियानुरूपौ ॥
<7.2.6> (37.6) तृतीयसवनाद्य् अतिरात्रवत् ॥
<7.2.7> (37.7) संस्थिते पञ्चपशुर् विशाखयूपः ॥
<7.2.8> (37.8) प्रत्यृतु षट् पशव आग्नेया ऐन्द्रा मारुता मैत्रावरुणा ऐन्द्रावरुणा आग्नावैष्णवा इति ॥
<7.2.9> (37.9) विशाखयूपर्तुपशवो द्विगुणाः पुरुषमेधे । चतुर्गुणाः सर्वमेधे ॥
<7.2.10> (37.10) पुरुषमेधो ऽश्वमेधवत् ॥
<7.2.11-12> (37.11-12) चैत्र्याः पुरस्ताद् वरदानान्त इष्टयो ऽग्नये कामाय दात्रे पथिकृते ॥
<7.2.13> (37.13) <यजमानस्य विजितं सर्वं समैतु> इति जनपदम् उच्चैः श्रावयति ॥
<7.2.14> (37.14) <कस्मै सहस्रं शताश्वं स्वं ज्ञातिभ्यो दद्याम् । केन समाप्नुयाम्> इति यजमानः ॥
<7.2.15> (37.15) यदि ब्राह्मणः क्षत्रियो वा प्रतिपद्येत सिद्धं कर्मेत्य् आचक्षते ॥
<7.2.16> (37.16) न चेत् प्रतिपद्येत नेदिष्ठं सपत्नं विजित्य तेन यजेत ॥
<7.2.17> (37.17) तस्मै ज्ञातिभ्यस् तद् दद्यात् ॥
<7.2.18> (37.18) यस्य स्त्री संभाषेत तस्य सर्वस्वम् आदाय ताम् अब्राह्मणीं हनिष्य इत्य् उच्चैः श्रावयेत् ॥
<7.2.19> (37.19) तं ह स्नातम् अलंकृतम् उत्सृज्यमानम् <सहस्रबाहुः पुरुषः [19.6]> <केन पार्ष्णी [10.2]> इत्य् अनुमन्त्रयते ॥
<7.2.20> (37.20) संवत्सरम् इष्टयः पथ्यायै स्वस्तये अदित्या अनुमतये ॥
<7.2.21> (37.21) संवत्सरान्त ऐन्द्रापौष्णः पशुः ॥
<7.2.22> (37.22) महाव्रतं तृतीयम् ॥
<7.2.23> (37.23) <उदीरताम् [18.1.44-46]> इति तिसृभिर् यूपे बध्यमानम् अनुमन्त्रयते । उत्थापनीभिश् च विमुच्यमानम् ॥
<7.2.24> (37.24) हरिणीभिः शामित्रं ह्रियमाणम् ॥
<7.2.25> (37.25) <स्योनास्मै भव [18.2.19-20]> इति द्वाभ्यां निपात्यमानम् ॥
<7.2.26> (37.26) <सहस्रबाहुः [19.6]> यामसारस्वतैः संज्ञप्तम् ॥
<7.3.1> (38.1) अथ भैषज्याय यजमानम् <अक्षीभ्यां ते [2.33]> <मुञ्चामि त्वा [1.10.4]> <उत देवाः [4.13]> <यस्यास् ते [6.84]> <अपेत एतु [सकल अत् कौश्स् 97.8, प्स् 19.23.4-6]> <वात आ वातु [सकल अत् कौश्स् 117.4, प्स् 19.46.7-9]> इति । मेथने ब्रह्मा <सुप्रपाणा च वेशन्ता [20.128.9]> इति ॥
<7.3.2> (38.2) पूर्वेणानुचर्यः ॥
<7.3.3> (38.3) <उद् ईर्ष्व नारी [18.3.2]> इत्य् उक्तम् ॥
<7.3.4> (38.4) <यन् न इदं पितृभिः [सकल अत् कौश्स् 88.29, नोत् अत्तेस्तेद् एल्सेwहेरे]> इति सर्वे ॥
<7.3.5> (38.5) ब्रह्मोद्यात् <गावो यवं प्रयुता अर्यो अक्षन् ता अपश्यं सहगोपाश् चरन्तीः । हवा इदर्यो अभितः समायन् कियद् आसु स्वपतिश् छन्दयाते [ऋव् 10.27.8]> इत्य् उद्गातारम् ॥
<7.3.6> (38.6) प्रतिप्रश्ने <यस्यानक्षा दुहिता जात्वास कस् तां विद्वा;म् अभि मन्याते अन्धाम् । कतरो मेनिं प्रति तं मुञ्चाते य ईं वहाते य ईं वा वरेयात् [ऋव् 10.27.11]> इति ॥
<7.3.7> (38.7) पृष्ठ्यचतुर्थं चतुर्थम् । अतिरात्रः पञ्चमम् ॥
<7.3.8> (38.8) मध्यमं चेद् उक्थ्याग्निष्टोमा उत्तमे ॥

<7.3.9> (38.9) साश्वमेध ऋत्विक्पत्नीप्रैषकृतो द्वयाः ॥
<7.3.10> (38.10) द्व्यहो ऽश्वमेधस्य त्र्यहः पुरुषमेधस्य । सर्वमेधः पुरुषमेधवत् ॥
<7.3.11> (38.11) अहान्य् अग्निष्टुद् इन्द्रस्तुत् सूर्यस्तुद् वैश्वदेवस्तुत् पौरुषमेधिकं तृतीयं पञ्चमं वाजपेयो ऽप्तोर्यामा ॥
<7.3.12> (38.12) एतस्मिन् सर्वान् मेधान् आलभन्ते ॥
<7.3.13> (38.13) पृष्ठ्योत्तमे विश्वजिद् अतिरात्रो दशमम् ॥
<7.3.14> (38.14) संवत्सरान्ते गार्हपत्ये ऽधरारणिं प्रहृत्याहवनीय उत्तरारणिम् <अयं ते योनिः [3.20.1]> इत्य् आत्मन्न् अग्निं संस्पृश्यारण्याय प्रव्रजेत् ॥
<7.3.15> (38.15) इति मेधाः क्षत्रियस्य क्षत्रियस्य ॥
<8.1.1> (39.1) अथ स्तोत्रियविकाराः ॥
<8.1.2> (39.2) एकाहेषु <तं ते मदं गृणीमसि [20.61.1-3]> इति ॥
<8.1.3> (39.3) बृहस्पतिसवे <तद् वो गाय सुते सचा [20.78]> <वयम् एनम् इदा ह्यः [20.97]> इति । सवनयोर् उक्थमुखीयतृचपर्यासौ । माध्यन्दिने पर्यासाद्यतृचवर्जम् ॥
<8.1.4> (39.4) गोसवाभिषेचनीययोः <युञ्जन्ति ब्रध्नम् अरुषम् [20.26.4-6]> इति ॥
<8.1.5> (39.5) श्येनसंदंशाजिरवज्रेषु <सुरूपकृत्नुम् ऊतये [20.57.1-3]> <उत् त्वा मन्दन्तु स्तोमाः [20.93.1-3]> <त्वाम् इद् धि हवामहे [20.98]> इति ॥
<8.1.6> (39.6) अपूर्वे <अभि त्वा पूर्वपीतये [20.99]> इति ॥
<8.1.7> (39.7) व्रात्यस्तोमेषु <आ त्वेता नि षीदत []> <अधा हीन्द्र गिर्वणः [20.100]> इति ॥
<8.1.8> (39.8) अग्निष्टुत्सु <ईलेन्यो नमस्यः [20.102]> <अग्निं दूतं वृणीमहे [20.101]> <अग्निम् ईलिष्वावसे [20.103.1]> <अग्न आ याह्य् अग्निभिः [20.103.2-3]> इति ॥
<8.1.9> (39.9) तीव्रसुदुपशदोपहव्येषु <अयम् उ ते समतसि [20.45]> <इमा उ त्वा पुरूवसो [20.104]> इति । व्युष्टिद्व्यहे च ॥
<8.1.10> (39.10) गोसवविवधवैश्यस्तोमेषु <इन्द्रं वो विश्वतस् परि [20.39.1, 3]> <आ नो विश्वासु हव्य इन्द्रः [20.104.3-4]> इति ॥
<8.1.11> (39.11) प्रतीचीनस्तोमे <त्वम् इन्द्र प्रतूर्तिषु [20.105.1-2]> इति ॥
<8.1.12> (39.12) राजि <यो राजा चर्षणीनाम् [20.105.4-5]> इति ॥
<8.1.13> (39.13) उद्भिद्बलभिदोः <यज्ञ इन्द्रम् अवर्धयत् [20.27.5, 3; 20.28.1, 2]> इति ॥
<8.1.14> (39.14) इन्द्रस्तोमे <इन्द्र क्रतुं न आ भर [20.79]> <तव त्यद् इन्द्रियं बृहत् [20.106]> इति ॥
<8.1.15> (39.15) विघने <समस्य मन्यवे विशः [20.107.1-3]> <तद् इद् आस भुवनेषु ज्येष्ठम् [20.107.4-6]> इति ॥
<8.1.16> (39.16) सूर्यस्तुति <उद् उ त्यं जातवेदसम् [20.47.13-15]> <चित्रं देवानां केतुर् अनीकम् [20.107.13-15]> इति ॥
<8.1.17> (39.17) वज्रे पुनःस्तोमे <त्वं न इन्द्रा भर [20.108]> इति ॥
<8.1.18> (39.18) सर्वजित्य् ऋषभे मरुत्स्तोमे साहस्रान्त्ये <तद् वो गाय सुते सचा [20.78]> <वयम् एनम् इदा ह्यः [20.97.1-2]> इति ॥
<8.1.19> (39.19) साहस्राद्ययोः <स्वादोर् इत्था विषूवतः [20.109.1-2]> इति ॥
<8.2.1> (40.1) विराजि भूमिस्तोमे वनस्पतिसवे त्विष्यपचित्योर् इन्द्राग्न्योः स्तोम इन्द्राग्न्योः कुलाय <इन्द्राय मद्वने सुतम् [20.110]> <यत् सोमम् इन्द्र विष्णवि [20.111]> इति ॥
<8.2.2> (40.2) विराजे ऽग्नेः स्तोमे ऽग्नेः कुलाये <अग्निं दूतं वृणीमहे [20.101]> <अग्निम् ईलिष्वावसे [20.103.1-3]> इति ॥
<8.2.3> (40.3) विनुत्त्यभिभूत्यो राशिमराययोः शदोपशदयोः सम्राट्स्वराजोः <यद् अद्य कच् च वृत्रहन् [20.112]> <उभयं शृणवच् च नः [20.113]> इति ॥
<8.2.4> (40.4) राजसूयेषु <यत् सोमम् इन्द्र विष्णवि [20.111]> <अधा हीन्द्र गिर्वणः [20.100]> <अभ्रातृव्यो अना त्वम् [20.114]> <त्वं न इन्द्रा भर [20.108]> इति च । चतुरहपञ्चाहाहीनदशाहच्छन्दोमदशाहेषु च ॥
<8.2.5> (40.5) तीव्रसुच्चतुःपर्याययोः साहस्रान्त्ययोर् दशपेये विभ्रंशयज्ञे <श्रायन्त इव सूर्यम् [20.58.1-3]> इति ॥
<8.2.6> (40.6) साद्यःक्रेषु श्येनवर्जम् <अहम् इद् धि पितुष् परि [20.115]> इति च ॥
<8.2.7> (40.7) अतिरात्राणां सर्वस्तोमयोर् <मा भूम निष्ट्या इव [20.116]> <विधुं दद्राणं सलिलस्य पृष्ठे [9.10.9-11]> इति ॥
<8.2.8> (40.8) त्रिवृत्पञ्चदशसप्तदशैकविंशत्रिणवत्रयस्त्रिंशनवसप्तदशेषु <उभयं शृणवच् च नः [20.113]> <वयम् एनम् इदा ह्यः [20.97]> <पिबा सोमम् इन्द्र मन्दतु त्वा [20.117]> इति ॥
<8.2.9> (40.9) अभिजिति <अभि प्र गोपतिं गिरा [20.22.4-6]> इति च ॥
<8.2.10> (40.10) अनतिरात्रे <अभि त्वा वृषभा सुते [20.22.1-3]> इति ॥
<8.2.11> (40.11) चतुर्विंशे <इन्द्रा याहि चित्रभानो [20.84]> <मा चिद् अन्यद् वि शंसत [20.85.1-2]> इति ॥
<8.2.12> (40.12) विश्वजिति <य एक इद् विदयते [20.63.4-6]> इति ॥
<8.2.13> (40.13) विषुवति <इन्द्र क्रतुं न आ भर [20.79]> इति ॥
<8.2.14> (40.14) स्वरसामाभिप्लवगवायुषि शेषेषु । पृष्ठस्यैकविंशे <इन्द्रो दधीचो अस्थभिः [20.41]> <विश्वाः पृतना अभिभूतरं नरम् [20.54]> <एवा ह्यसि वीरयुः [20.60]> इति ॥

<8.3.1> (41.1) व्युष्ट्याङ्गिरसकापिवनचैत्ररथद्व्यहानाम् <तं ते मदं गृणीमसि [20.61]> इति । द्वितीयेषु <विश्वाः पृतना अभिभूतरं नरम् [20.54]> इति ॥
<8.3.2> (41.2) चातुर्मास्यवैश्वदेवगर्गबैदच्छन्दोमवत्पराकान्तर्वस्वश्वमेधत्र्यहाणां <शग्ध्य् ऊ षु शचीपते [20.118.1-2]> इति ॥
<8.3.3> (41.3) साकमेधस्य <इन्द्रम् इद् देवतातये [20.118.3-4]> इति ॥
<8.3.4> (41.4) बैदस्वरसाम्नोः <त्वं न इन्द्रा भर [20.108]> इति ॥
<8.3.5> (41.5) द्वितीयेषु <तम् इन्द्रं वाजयामसि [20.47.1-3]> <अस्तावि मन्म पूर्व्यम् [20.119]> <तं ते मदं गृणीमसि [20.61.1-3]> इति ॥
<8.3.6> (41.6) अश्वमेधस्य <वाचम् अष्टापदीम् अहम् [20.42]> <स्वादोर् इत्था विषूवतः [20.109]> इति ॥
<8.3.7> (41.7) पृष्ठ्यत्र्यहस्य <एवा ह्य् असि वीरयुः [20.60.1-3]> इत्य् उक्थे ॥
<8.3.8> (41.8) तृतीयेषु <महा;म् इन्द्रो य ओजसा [20.138]> <अभि प्र वः सुराधसम् [20.51.1-2]> <एवा ह्य् असि वीरयुः [20.60.1-3]> इति ॥
<8.3.9> (41.9) साकमेधस्य <तम् इन्द्रं वाजयामसि [20.47.1-3]> <श्रायन्त इव सूर्यम् [20.58.1-2]> इति ॥
<8.3.10> (41.10) चतुरहाणां <श्रायन्त इव सूर्यम् [20.58.1-2]> <त्वं न इन्द्रा भर [20.108]> इति ॥
<8.3.11> (41.11) चतुर्थेषु <महा;म् इन्द्रो य ओजसा [20.138]> <य एक इद् विदयते [20.63.4-6]> इति ॥
<8.3.12> (41.12) सर्वेषु <मा भूम निष्ट्या इव [20.116]> <विधुं दद्राणं सलिलस्य पृष्ठे [9.10.9-11]> इति ॥
<8.3.13> (41.13) संसर्पचतुर्वीरयोः <अयम् उ ते समतसि [20.45]> <इमा उ त्वा पुरूवसो [20.104.1-2]> इति ॥
<8.3.14> (41.14) पञ्चाहेषु त्रिवृदादिवत् ॥
<8.3.15> (41.15) अभ्यासङ्ग्यपञ्चशारदीययोर् द्वितीये <त्वं न इन्द्रा भर [20.108]> इति ॥
<8.3.16> (41.16) पृष्ठ्यपञ्चाहस्य <एवा ह्य् असि वीरयुः [20.60.1-3]> इति ॥
<8.3.17> (41.17) पञ्चमे <उत्तिष्ठन्न् ओजसा सह [20.42]> <इन्द्रो मदाय वावृधे [20.56.1-3]> <इन्द्राय साम गायत [20.62.5-7]> इति ॥
<8.3.18> (41.18) अभिप्लवपञ्चाहस्य <य एक इद् विदयते [20.63.4-6]> इति ॥
<8.3.19> (41.19) अभ्यासङ्ग्यपञ्चशारदीययोः <श्रायन्त इव सूर्यम् [20.58.1-2]> इति ॥
<8.3.20> (41.20) षडहस्य गवि <अभ्रातृव्यो अना त्वम् [20.114]> इति । आयुषि <त्वं न इन्द्रा भर [20.108]> इति ॥
<8.3.21> (41.21) पञ्चमे <एन्द्र नो गधि प्रियः [20.64.1-3]> इति ॥
<8.3.22> (41.22) षष्ठम् उक्थ्यं चेत् <य एक इद् विदयते [20.63.4-6]> <यत् सोमम् इन्द्र विष्णवि [20.111]> इति ॥
<8.4.1> (42.1) पृष्ठस्य द्वितीये <एवा ह्य् असि वीरयुः [20.60.1-3]> इति ॥
<8.4.2> (42.2) तृतीये <इन्द्रेण सं हि दृक्षसे [20.40]> <वयं घ त्वा सुतावन्तः [20.52]> <त्वं न इन्द्रा भर [20.108]> इति ॥
<8.4.3> (42.3) दशाहस्याष्टमे <यद् इन्द्र प्राग् अपाग् उदक् [20.120]> इति ॥
<8.4.4> (42.4) नवमे <एतो न्व् इन्द्रं स्तवाम [20.65]> इति ॥
<8.4.5> (42.5) त्रिककुद्दशाहस्य नवसु <शग्ध्य् ऊ षु शचीपते [20.118.1-2]> <अभि प्र गोपतिं गिरा [20.22.4-6]> <तं वो दस्मम् ऋतीषहम् [20.9.1-2]> <वयम् एनम् इदा ह्यः [20.97]> <इन्द्रम् इद् गाथिनो बृहत् [20.38.4-6]> <श्रायन्त इव सूर्यम् [20.58]> <क ईं वेद सुते सचा [20.53]> <विश्वाः पृतना अभिभूतरं नरम् [20.54]> <यद् इन्द्र प्राग् अपाग् उदक् [20.120]> इति ॥
<8.4.6> (42.6) अष्टमे <महा;म् इन्द्रो य ओजसा [20.138]> इति ॥
<8.4.7> (42.7) द्वादशाहस्य छन्दोमप्रथमान्त्ययोः <त्वं न इन्द्रा भर [20.108]> <य एक इद् विदयते [20.63.4-6]> इति ॥
<8.4.8> (42.8) स्वरसामसु <सं चोदय चित्रम् अर्वाक् [20.71.11-13]> <प्रणेतारं वस्यो अच्छा [20.46]> इति पर्यायेण । अभिप्लवे च ॥
<8.4.9> (42.9) तनूपृष्ठे <अभि त्वा शूर नोनुमः [20.121]> <त्वाम् इद् धि हवामहे [20.98]> <यद् द्याव इन्द्र ते शतम् [20.81]> <पिबा सोमम् इन्द्र मन्दतु त्वा [20.117]> <कया नश् चित्र आ भुवत् [20.124.1-3]> <रेवतीर् नः सधमादे [20.122]> इति ॥
<8.4.10> (42.10) एतेषाम् अनन्तरो ऽनुरूपः संभवे । स्तोत्रियनियमश् छन्दसा ॥
<8.4.11> (42.11) गवामयनेन सांवत्सरिकाणि व्याख्यातानि ॥
<8.4.12> (42.12) एतस्माद् एवाहीना रात्रिसत्त्राणि । एकाहा अपि केचित् ॥
<8.4.13> (42.13) सर्वत्र कामकॢप्ती सामवेदात् ॥
<8.4.14> (42.14) द्व्यहप्रभृतयो ऽहीना आ द्वादशाहात् । अन्यतरतो ऽतिरात्रात् ॥
<8.4.15> (42.15) द्वादशाहप्रभृतीनि रात्रिसत्त्राण्य् अर्वाञ्चि संवत्सरात् ॥
<8.4.16> (42.16) दशरात्र उभयतोतिरात्रः ॥
<8.4.17> (42.17) द्वादशाहः पुरस्तादग्निष्टोमो ऽहीनः ॥
<8.4.18> (42.18) सहस्रसंवत्सरपर्यन्तान्य् अयनानि । विश्वजिता सहस्रसंवत्सरप्रतिमेन यजेत ॥

<8.5.1> (43.1) अग्न्याधेयं वसन्ते ब्राह्मणस्य ब्रह्मवर्चसकामस्य । ग्रीष्मे राजन्यस्य तेजस्कामस्य । वर्षासु वैश्यस्य पुष्टिकामस्य । शरदि सर्वेषां गदापनुत्तये ॥
<8.5.2> (43.2) पूर्णाहुत्यन्तम् इत्य् एके ॥
<8.5.3> (43.3) अग्निहोत्रायणिनाम् इति युवा कौशिकः ॥
<8.5.4> (43.4) तेषाम् आग्रयणे नवस्य ॥
<8.5.5> (43.5) स्थालीपाकेनाग्निहोत्रं यवाग्वा वा ॥
<8.5.6> (43.6) अभावे गवीडां नवघासम् आशयित्वा तस्याः पयसा ॥
<8.5.7> (43.7) श्रीकामस्य नित्यम् अग्नीनां जागरणम् ॥
<8.5.8> (43.8) अग्निहोत्रं स्वर्गकामस्य ॥
<8.5.9> (43.9) पयसा सर्वकामस्य ॥
<8.5.10> (43.10) दध्नेन्द्रियकामस्य ॥
<8.5.11> (43.11) आज्येन तेजस्कामस्य ॥
<8.5.12> (43.12) तैलेन श्रीकामस्य ॥
<8.5.13> (43.13) ओदनेन प्रजाकामस्य ॥
<8.5.14> (43.14) यवाग्वा ग्रामकामस्य ॥
<8.5.15> (43.15) तण्डुलैर् बलकामस्य ॥
<8.5.16> (43.16) सोमेन ब्रह्मवर्चसकामस्य ॥
<8.5.17> (43.17) मांसेन पुष्टिकामस्य ॥
<8.5.18> (43.18) उदकेनायुष्कामस्य ॥
<8.5.19> (43.19) दर्शपूर्णमासौ सर्वकामस्य ॥
<8.5.20> (43.20) दाक्षायणयज्ञः प्रजाकामस्य ॥
<8.5.21> (43.21) साकंप्रस्थाय्ययज्ञः पशुकामस्य ॥
<8.5.22> (43.22) संक्रमयज्ञः सर्वकामस्य ॥
<8.5.23> (43.23) इडादधः पशुकामस्य ॥
<8.5.24> (43.24) सार्वसेनयज्ञः प्रजाकामस्य ॥
<8.5.25> (43.25) शौनकयज्ञो ऽभिचारकामस्य ॥
<8.5.26> (43.26) वसिष्ठयज्ञः प्रजाकामस्य ॥
<8.5.27> (43.27) द्यावापृथिव्योर् अयनं प्रतिष्ठाकामस्य ॥
<8.5.28> (43.28) एतानि दर्शपूर्णमासायनानि ॥
<8.5.29> (43.29) आग्रयणम् अन्नकामस्य ॥
<8.5.30> (43.30) चातुर्मास्यानि सर्वकामस्य ॥
<8.5.31> (43.31) ऐन्द्राग्नः पशुर् आयुष्प्रजापशुकामस्य ॥
<8.5.32> (43.32) यामः शुकहरिः शुण्ठो वानामयकामस्य पितृलोककामस्य च ॥
<8.5.33> (43.33) त्वाष्ट्रो वडवः प्रजाकामस्य ॥
<8.5.34> (43.34) काम्याव् एतौ ॥
<8.5.35> (43.35) सुत्याः सर्वकामस्य ॥
<8.5.36> (43.36) उक्थ्यः पशुकामस्य ॥
<8.5.37> (43.37) वाजपेयः स्वाराजयकामस्य ॥
<8.5.38> (43.38) अतिरात्र ऋद्धिकामस्य ॥
<8.5.39> (43.39) गवामयनं द्वादशाहश् च ॥
<8.5.40> (43.40) राजसूयः स्वाराज्यकामस्य ॥

<8.5.41> (43.41) अश्वमेधपुरुषमेधौ सर्वकामस्य ॥
<8.5.42> (43.42) सर्वमेधः श्रैष्ठ्यकामस्य ॥
<8.5.43> (43.43) कामानन्त्याद् अपरिमिता यज्ञाः ॥
<8.5.44> (43.44) ते प्रकृतिभिर् व्याख्याताः ॥
<8.5.45> (43.45) यज्ञक्रमो ब्राह्मणात् । विरिष्टसंधानं च ॥
<8.5.46> (43.46) य इमौ कल्पाव् अधीते य उ चैवं वेद तेन सर्वैः क्रतुभिर् इष्टं भवति सर्वांश् च कामान् आप्नोति ॥
<8.5.47> (43.47) अथाप्य् उदाहरन्ति यथा यष्टुस् तथाध्येतुर् एषा ब्राह्मी प्रतिश्रुतिर् एषा ब्राह्मी प्रतिश्रुतिर् इति ॥

मूल पाठ: Vaitānaśrautasūtra (= Vaitānasūtra) · Edition: Vishva Bandhu (et al.): Vaitāna-Śrauta-Sūtra, with the commentary called Ākṣepānuvidhi by Somāditya, Hoshiarpur : Vishveshvaranand Vedic Research Institute 1967 (Vishveshvaranand Institute publication, 430; Woolner Indological Series, 13) · Data entry Arlo Griffiths · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc