भाषा

ENहिગુ
ग्रंथ पाठ

वैशेषिकसूत्र (अन्य संस्करण) · अध्याय 4.1

4.1.1

सदकारणवन्नित्यम्

4.1.2

तस्य कार्यं लिङ्गम्

4.1.3

कारणभावात् कार्याभावः

4.1.4

अनित्य इति विशेषतः प्रतिषेधभावः

4.1.5

अविद्या

4.1.6

महत्यनेकद्रव्यवत्त्वात् रूपाच्चोपलब्धिः

4.1.7

सत्यपि द्रव्यत्वे महत्त्वे रूपसंस्काराभावाद्वायोरनुपलब्धिः

4.1.8

अनेकद्रव्यसमवायात् रूपविशेषाच्च रूपोपलब्धिः

4.1.9

तेन रसगन्धस्पर्शेषु ज्ञानं व्याख्यातम्

4.1.10

तस्याभावादव्यभिचारः

4.1.11

संख्याः परिमाणानि पृथक्त्वं संयोग विभागौ परत्वापरत्वे कर्म च रूपद्रव्यसमवायात् चाक्षुषाणि

4.1.12

अरूपिष्वचाक्षुषाणि

4.1.13

एतेन गुणत्वे भावे च सर्वेन्द्रियं ज्ञानं व्याख्यातम्

मूल पाठ: Vaiśeṣikasūtra · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc