उड्डामरेश्वरतन्त्र · भाग 120
उड्डामरेश्वरतन्त्र
उड्डामरेश्वरतन्त्र, प्रथमः पटलः
उड्डीशेन समाकीर्णा योगिवृन्दसमाकुला ।
प्रणम्य शिरसा देवी गौरी पृच्छति शंकरम् ॥ उत्_1.1
ईश्वर श्रोतुम् इच्छामि लोकनाथ जगत्प्रभो ।
प्रसादं कुरु देवेश ब्रूहि धर्मार्थसाधकम् ॥ उत्_1.2
वशीकरणम् उच्चाटं मोहनं स्तम्भनं तथा ।
शान्तिकं पौष्टिकं वाथ करणानि बहूनि च ॥ उत्_1.3
चक्षुर्हानिं महेशान श्रुतिहानिं तथैव च ।
ज्ञानहानिं क्रियाहानिं कीलकं च तथापरम् ॥ उत्_1.4
कार्यस्तम्भं सुरेशान शोषणं पूरणं तथा ।
मन्त्रध्यानं विशेषेण तत् सर्वं वद मे प्रभो ॥ उत्_1.5
अन्यच् च विविधं कार्यं प्रसादाद् ब्रूहि भैरव ।
यस्य विज्ञानमात्रेण मनुष्यो भुवि दुर्लभः ॥ उत्_1.6
श्रीर् ईश्वर उवाच ।
शृणु त्वं हि वरारोहे सिद्ध्यर्थं यदि पृच्छसि ।
तद्वद् इष्यामि ते देवि तत् सर्वं समुदाहृतम् ॥ उत्_1.7
औषधैर् मन्त्रजापैश् च रिपुं हन्यान् न संशयः ।
उड्डीशात् सारम् आकृष्य मयोक्तं तव भक्तितः ॥ उत्_1.8
उड्डीशं च नमस्कृत्य रुद्रं चैव सुदुर्लभम् ।
कपर्दिनं विरूपाक्षं सर्वभूतभयापहम् ॥ उत्_1.9
वक्ष्ये रुद्रोद्भवान् योगान् सर्वशत्रुविनाशकान् ।
तैस् तु प्रयोजितैः सः प्राणान् हन्ति न संशयः ॥ उत्_1.10
प्रथमं भूतकरणं द्वितीयोन्मादनं तथा ।
तृतीयं द्वेषणं चाथ तुर्यम् उच्चाटनं तथा ॥ उत्_1.11
ग्रामोच्चाटं पञ्चमं च जलस्तम्भं च षष्ठकम् ।
वह्नेः स्तम्भकरं चाथ वशीकरणम् उत्तमम् ॥ उत्_1.12
अन्यान् अपि प्रयोगांश् च बहून् शृणु वरानने ।
शिवेन कथिता योगा उड्डीशे शास्त्रनिश्चये ॥ उत्_1.13
अन्धीकरणं मूकीकरणं बधिरीकरणं तथा ।
भूतज्वरस्य करणम् अस्त्रशस्त्रस्य दूषणम् ॥ उत्_1.14
जलदोषप्रशमनं दध्नो मधुविनाशनम् ।
विनाशं मत्तकरणं गजवाजिप्रकोपनम् ॥ उत्_1.15
आकर्षणं भुजंगानां मानवानां तथा ध्रुवम् ।
वह्नेर् विनाशनं कुर्यात् पर्णानां हि विनाशनम् ॥ उत्_1.16
गर्दभस्यात्मकरणं परकायप्रवेशनम् ।
वेतालपादुकासिद्धिम् उल्वकाज् ज्वलनं तथा ॥ उत्_1.17
अन्यान् बहुप्रयोगांश् च रौद्रान् रोमप्रहर्षणान् ।
विद्यामन्त्रप्रयोगादीन् औषधांश् चाभिचारिकान् ॥ उत्_1.18
गुप्तागुप्ततराः कार्या रक्षितव्याः प्रयत्नतः ।
उड्डीशं यो न जानाति स रुष्टः किं करिष्यति ॥ उत्_1.19
सुमेरुं चालयेत् स्थानात् सागरैः प्लावयेन् महीम् ।
सूर्यं च पातयेद् भूमौ नेदं मिथ्या भविष्यति ॥ उत्_1.20
यथैवेन्द्रस्य वज्रं च पाशं हि वरुणस्य च ।
यमस्य च यथा दण्डं कुबेरस्य गदा यथा ॥ उत्_1.21
वह्नेः शक्तिर् यथा प्रोक्ता खड्गस् तु निरृतेर् यथा ।
यथा वायोश् चाङ्कुशं हि त्रिशूलं शूलपाणिनः ॥ उत्_1.22
स्कन्दस्य च यथा शक्तिर् विष्णोश् चक्रं सुदर्शनम् ।
तथैते च महायोगाः प्रयुक्ताः शत्रुकारणे ॥ उत्_1.23
अनिवृत्ते निवर्तन्ते अमोघा नात्र संशयः ।
संतुष्टेन प्रयुक्तेन सिध्यन्ति सुविचारतः ॥ उत्_1.24
रतानां करणं वक्ष्ये शत्रुसाधनम् उत्तमम् ।
येनैव कृतमात्रेण भूतो गृह्णाति मानवम् ॥ उत्_1.25
निम्बकाष्ठं समादाय चतुरङ्गुलमानतः ।
शत्रुविष्टासमालिप्तं तथा नाम समालिखेत् ॥ उत्_1.26
चिताङ्गारेण तन्नाम्ना धूपं दद्यान् महेश्वरि ।
चितान्तः संस्थितो भूत्वा यस्य गात्रमृदाहरेत् ॥ उत्_1.27
कृष्णाष्टम्यां चतुर्दश्याम् अष्टोत्तरशतं जपेत् ।
भूतो गृह्णाति तं शीघ्रं मन्त्रेणानेन मन्त्रितः ॥ उत्_1.28
उओं नमो भगवते सर्वभूताधिपतये विरूपाक्षाय नित्यं क्रूराय दंष्ट्रिणे विकरालिने ग्रहयक्षभूतवेतालेन सह शंकर मनुष्यं दह दह पच पच गृह्ण गृह्ण गृह्णापय गृह्णापय हुं फट् स्वाहा ।
प्रत्यानयं यदीच्छेत तस्यैषा क्रियते क्रिया ।
दापयेद् देवम् ईशानं घृतेन वचया सह ॥ उत्_1.29
गुग्गुलं प्रददेद् धूपं घृतमिश्रं समन्ततः ।
मन्त्रेण मन्त्रयित्वा तु ततः स्वास्थ्यं भवेत् किल ॥ उत्_1.30
मन्त्रः उओं नमः शिवाय शान्ताय प्रभाय मुक्ताय देवाधिदेवाय शुभ्रबाहवे व्याधिं शमय शमय अमुकः स्वस्थो भवतु नमो ऽस्तु ते ।
इति स्वास्थ्यमन्त्रः ।
अथान्यत् सम्प्रवक्ष्यामि प्रयोगं भुवि दुर्लभम् ।
येनैव कृतमात्रेण ज्वरो गृह्णाति मानवम् ॥ उत्_1.31
निम्बकाष्ठाकृतिं कृत्वा चतुरङ्गुलमानतः ।
तस्या हृदि विषोन्मत्तराजिकालवणैस् तथा ॥ उत्_1.32
नाम संलिख्य प्रकृतौ पाच्यमानायां ततः परम् ।
ततस् तु शत्रुनाम्ना च अष्टोत्तरशतं जपेत् ॥ उत्_1.33
ततः स प्रहरार्धेन ज्वरभूतेन गृह्यते ।
अथ जपमन्त्रः उओं बकामुखा चामुण्डा अमुकस्य क्षीरमांसशोणितभोजिनी अमुकं खः खः ज्वरेण गृह्ण गृह्ण गृह्णापय गृह्णापय हुं फट् स्वाहा ।
प्रत्यानयं यदीच्छेत तस्यैषा क्रियते क्रिया ॥ उत्_1.34
दुग्धस्नातनामाक्षराणि तदा स्वस्थो भवेद् इति ।
अथान्यत् सम्प्रवक्ष्यामि प्रयोगं भुवि दुर्लभम् ॥ उत्_1.35
येन विज्ञानमात्रेण शत्रोर् उच्चाटनं भवेत् ।
ब्रह्मदण्डी चिताभस्म गोमयस्य तथैव च ॥ उत्_1.36
क्षारं चापि समादाय काकजङ्गासमन्वितम् ।
क्षिपेच् छिरसि शत्रूणां तूर्णम् उच्चाटयेद् रिपुम् ॥ उत्_1.37
ततः संस्नापयेद् एनं गोक्षीरेण समन्वितम् ।
मुण्डनं चाथ केशानां ततः स्वस्थो भवेद् ध्रुवम् ॥ उत्_1.38
अथान्यत् सम्प्रवक्ष्यामि शत्रोर् उच्चाटनं वरम् ।
धूपं निर्भेदकं नाम स्वयं रुद्रेण भाषितम् ॥ उत्_1.39
ब्रह्मदण्डी समूला च काकजङ्गा समन्विता ।
निर्मोकं सर्पराजस्य धूपम् उच्चाटयेद् रिपून् ॥ उत्_1.40
सर्पकञ्चुकम् आदाय कृष्णोरगशिरस् तथा ।
निखनेद् यस्य च द्वारे तम् उच्चाटयते हठात् ॥ उत्_1.41
ब्रह्मदण्डी सुरामांसी कच्छपस्य शिरस् तथा ।
श्मशानभस्मसंयुक्तं कपाले मानुषे न्यसेत् ॥ उत्_1.42
शत्रोर् द्वारे निखातेन तूर्णम् उच्चाटयेद् रिपून् ।
सप्तरात्रौ देवेशि समूलं नश्यते गृहम् ॥ उत्_1.43
अथ विद्वेषणं वक्ष्ये शत्रूणां शृणु शंकरि ।
येनैव कृतमात्रेण विद्वेषो जायते नृणाम् ॥ उत्_1.44
ब्रह्मदण्डी समूला च काकमांसेन संयुता ।
जातीपुष्परसैर् भाव्या सप्तरात्रं पुनः पुनः ॥ उत्_1.45
ततो मार्जारमूत्रेण सप्ताहं भावयेत् ततः ।
एष धूपः प्रदातव्यः शत्रुगोत्रस्य मध्यतः ॥ उत्_1.46
यथा गन्धं समाघ्राति पिता पुत्रैः समं कलिः ।
विद्वेषणं परं तेषां सुहृद्भिर् बान्धवैः सह ॥ उत्_1.47
स्वस्थीकरणकं प्रोक्तं घृतगुग्गुलधूपतः ।
अथ मारणम् ।
सुरां मानुषमांसं च समादाय विचक्षणः ॥ उत्_1.48
गृध्रास्थि शत्रुविष्ठां च द्वारमध्ये निखातयेत् ।
सप्ताहेन भवेन् मारो यथा रुद्रेण भाषितम् ॥ उत्_1.49
ब्रह्मदण्डी चिताभस्म सुरामांसीसमायुतम् ।
अरिष्टस्य च पत्त्राणि विषं रुधिरम् एव च ॥ उत्_1.50
मोहाय च प्रयोक्तव्यः शत्रूणां नामयोगतः ।
सप्तरात्रप्रयोगेन सर्वशत्रुप्रणाशनम् ॥ उत्_1.51
एतेषां दुष्टयोगानां शत्रवे तद् उदाहृतम् ।
शतम् अष्टोत्तरेणैव मन्त्रयित्वा विचक्षणः ॥ उत्_1.52
उओं नमो भगवते श्रीउड्डामरेश्वराय अमुकम् उच्चाटय उच्चाटय विद्वेषय विद्वेषय स्वाहा ।
एकरात्रोषितो भूत्वा कृष्णाष्टम्यां समाहितः ।
देवम् अभ्यर्च्य चेशानं शतम् अष्टाधिकं जपेत् ॥ उत्_1.53
मन्त्रम् एतत् प्रयोक्तव्यं सिद्धये सिद्धिकाम्यया ।
शत्रुसैन्ये प्रयोक्तव्यं राज्ञश् च विजयार्थिनः ॥ उत्_1.54
लाङ्गूलं गृहगोधायाः कृकलासस्य मस्तकम् ।
इन्द्रगोपकसंयुक्तं जम्बूकस्य शिरस् तथा ॥ उत्_1.55
एतानि समभागानि सूक्ष्मचूर्णानि कारयेत् ।
अमुक्ते हि प्रयोक्तव्यं सर्वं जनशतं हरेत् ॥ उत्_1.56
नृकपालं समूत्रं च पेचकस्य शिरस् तथा ।
वृश्चिकस्य तु लाङ्गूलं हालाहलकम् एव च ॥ उत्_1.57
श्वेतमण्डूकमांसं च मूत्रं चैव गजोष्ट्रयोः ।
गृहीत्वा समभागानि सूक्ष्मचूर्णानि कारयेत् ॥ उत्_1.58
एतानि शोषयित्वा तु कल्कं कृत्वा पुनः पुनः ।
उओं हीं यमाय शत्रुनाशनाय स्वाहा ।
अन्ने पाने प्रदातव्यं रिपुसैन्यविनाशनम् ॥ उत्_1.59
स्पृष्टमात्रेण तेनैव विस्फोटास् तु समन्ततः ।
तस्य देहे ज्वरस् तीव्रो भवेत् तीव्रा च वेदना ॥ उत्_1.60
म्रियते सप्तरात्रौ प्रत्यानयनवर्जितः ।
अथान्यत् सम्प्रवक्ष्यामि यस्य ध्यानेन साधनम् ॥ उत्_1.61
कथितं चैव रुद्रेण त्रिदशेभ्यः प्रसादतः ।
रुधिरं कृष्णसर्पस्य कुक्कुटस्य तु कस्यचित् ॥ उत्_1.62
कच्छपस्य मयूराणां रोचनं जात्यञ्जनं तथा ।
कुङ्कुमं भद्रमुस्तं च तगरं कृष्णम् एव च ॥ उत्_1.63
एतानि समभागानि पुष्यार्के च समाहरेत् ।
अश्लेषायां तु पिष्टानि कृत्वा पात्रे च राजते ॥ उत्_1.64
दशाहं स्थापयेद् भूम्यां पश्चाद् उद्धृत्य लेपयेत् ।
असिधाराङ्गदा नाम स्वयं रुद्रेण भाषिता ॥ उत्_1.65
अथालिपेत् तु गात्राणि स कृत्वास्थीन्य् अथापि वा ।
फलपुष्पे तथा पत्त्रे धूपसत्तैस् तथैव च ॥ उत्_1.66
अगदो ऽयं महामन्त्रो भूतानां च भयावहः ।
अन्ने पाने मन्त्रयित्वा प्रयुञ्जीत विधानतः ॥ उत्_1.67
उओं नमो भगवते रुद्राय शान्ताय दिव्ययोगाय दिव्यरूपाय जटिलब्रह्मचारिणे अगदोक्षित्रिदशैव महाबलशतं मनोहं ठः ठः स्वाहा ।
पीड्यमानं जपेन् मन्त्रं शुचिर् भूत्वा समाहितः ।
अष्टोत्तरसहस्रं तु ततो मन्त्रम् इमं जपेत् ॥ उत्_1.68
कन्यया पेषयच् चैव गोष्ठमध्ये प्रयत्नतः ।
तदशक्तौ चितायां तु यथाशक्ति पुनः पुनः ॥ उत्_1.69
स्वयं रुद्रेण सम्प्रोक्तं सर्वकार्यप्रसाधकम् ।
सर्वे चैव प्रयोक्तव्याः सर्वशत्रुविनाशकाः ॥ उत्_1.70
तस्मात् सर्वप्रयत्नेन रक्षितव्याः प्रयोगवान् ।
अभुक्ते नैव प्रोक्त यं क्रूरे पापजने तथा ॥ उत्_1.71
दातव्यं भक्तियुक्ताय शास्त्रज्ञायामरेश्वरि ।
इति पार्वतीशिवसंवादे वीरभद्रेश्वरतन्त्रोद्धृते उड्डामरेश्वरमहातन्त्रे प्रथमः पटलः ॥ उत्_1.72
उड्डामरेश्वरतन्त्र, द्वितीयः पटलः
अथान्यत् सम्प्रवक्ष्यामि जलस्तम्भनम् उत्तमम् ।
कुम्भीरवेल्वदंष्ट्रानि रुधिरं मांसम् एव च ॥ उत्_2.1
हृदयं कच्छपस्यैव शिशुमारं पुनः पुनः ।
विभीतकस्य तैलेन सर्वान् एकत्र कारयेत् ॥ उत्_2.2
न्यासकर्म ततः कृत्वा जले तिष्ठेद् यथासुखम् ।
मद्रकस्य रसं ग्राह्यं लक्षणस्य मकरस्य च ॥ उत्_2.3
डुण्डुभस्य शिरो ग्राह्यं सर्वान् एकत्र कारयेत् ।
विभीतकस्य तैले तु पच्यमाने च दापयेत् ॥ उत्_2.4
न्यासकर्म प्रकुर्वीत सप्ताहं तिष्ठते जले ।
तत् तैलं पाचयेत् लौहे कृष्णाष्टम्यां समाहितः ॥ उत्_2.5
चतुर्मासोषितो भूत्वा देवम् अभ्यर्च्य शंकरम् ।
अभिमन्त्र्य च मन्त्रेण मृत्तिकास्नानदक्षिणम् ॥ उत्_2.6
अष्टाधिकसहस्रं तु जपित्वा होमम् आचरेत् ।
अनेन मन्त्रयित्वा तु ततः सिध्यति नान्यथा ॥ उत्_2.7
उओं नमो भगवते उड्डामरेश्वराय जलं स्तम्भय स्तम्भय हुं फट् स्वाहा ।
वक्ष्ये ऽथ लूताकरणं तं शृणुष्व समासतः ।
भल्लातकरसं गुञ्जा विषं चित्रकम् एव च ॥ उत्_2.8
कपिकच्छपरोमाणि चूर्णां कृत्वा प्रदापयेत् ।
एतत् सर्वसमायुक्तो लूताकरणम् उत्तमम् ॥ उत्_2.9
तस्य रूपं प्रवक्ष्यामि जायते यस् तु लक्षणैः ।
अङ्गानि धूमम् आयान्ति मूर्छयन्ति मुहुर् मुहुः ॥ उत्_2.10
एतद् रूपं भवेत् तस्य लूताविकृतलक्षणम् ।
चिकित्सां तस्य वक्ष्यामि येन सम्पद्यते सुखम् ॥ उत्_2.11
उशीरं चन्दनं चैव प्रियङ्गुतगरं तथा ।
रक्तचन्दनकुष्ठं च लेपो लूताविनाशनः ॥ उत्_2.12
उओं नमो भगवते उड्डामरेश्वराय कुहलीकुर्वनी स्वाहा ।
मन्त्राभिमन्त्रितं कृत्वा ततः स्वस्थो भविष्यति ।
कृष्णसर्पशिरो ग्राह्यं मुखे निःक्षिप्य सर्षपान् ॥ उत्_2.13
भल्लातकेन संयुक्तं कृष्णसूत्रेण वेष्टयेत् ।
वल्मीकस्य मृदः कोशे अन्तर्धूमेन पाचयेत् ॥ उत्_2.14
कपिकच्छपरोमाणि संयुक्तं षोडशांशकैः ।
विषस्य चूर्णं कृत्वा तु शत्रूणां मूर्ध्नि निःक्षिपेत् ॥ उत्_2.15
शरद्ग्रीष्मवसन्तेषु लूताकरणम् उत्तमम् ।
प्रस्विन्ने च ततो गात्रे लग्नास् तस्मिंस् तु सर्षपाः ॥ उत्_2.16
लूतां च सविषां कुर्यान् नात्र कार्या विचारणा ।
वेदनाजातमात्रेण मन्त्रजापं तु पूर्ववत् ॥ उत्_2.17
पूर्वो विधानेन स्वस्थो भवति पूर्ववत् ।
अथ शस्यविनाशं च कथयामि समासतः ॥ उत्_2.18
येनैव कृतमात्रेण वज्रं कृत्वा विचक्षणः ।
क्षेत्रे सम्पातयेद् यस्मिंस् तस्मिञ् शस्यविनाशनम् ॥ उत्_2.19
माहेन्द्रेण क्षिपेत् तत्र प्रयोगेण तु मन्त्रवित् ।
अथ मन्त्रं पुनर् वक्ष्ये प्रयोगेषु प्रयोजकम् ॥ उत्_2.20
अष्टोत्तरशतेनैव मन्त्रेणानेन मन्त्रयेत् ।
उओं नमो भगवते उड्डामरेश्वराय वज्रं विनाशय वज्रं सुरपतिर् आज्ञापय हुं फट् स्वाहा ।
इमं योगं प्रयुञ्जानो विधिपूर्वेण कर्मणा ।
पर्णानां चैव योगेन क्षिपेत् पर्णं विनश्यति ॥ उत्_2.21
पुनर् उच्चाटनं वक्ष्ये शृणु पुत्र यथातथा ।
येनैव कृतमात्रेण ग्रामस्योच्चाटनं भवेत् ॥ उत्_2.22
ग्रामे चतुर्णां च पथां मृदम् आदाय बुद्धिमान् ।
गोमयेनाकृतिं कृत्वा ग्रामस्य च चतुर्दिशः ॥ उत्_2.23
चिताकाष्ठानलं कृत्वा कोकिलाकाकपक्षकैः ।
हुत्वा चाहुतिसाहस्रं ततो भस्म समाहरेत् ॥ उत्_2.24
अभेदेन समुत्सार्य कृत्वा मुष्टिं सभस्मकम् ।
शतवाराभिजप्तेन अनेनैव तु मन्त्रितः ॥ उत्_2.25
उओं नमो भगवते महाकालरुद्राय त्रिपुरविनाशनकारणाय दह दह धम धम पच पच मथ मथ मोहय मोहय उन्मादय उन्मादय उच्छेदय उच्छेदय श्रीमहारुद्र आज्ञापयति शब्दकरी मोहिनी भगवती खें खें हुं फट् स्वाहा ।
ग्रामे वा नगरे वापि भस्मप्रक्षेपणेन च ।
उच्छेदनं भवत्य् एव रिपूणां नात्र संशयः ॥ उत्_2.26
दूरीकृतं पुनर् भस्म नगरे वसते पुनः ।
कुल्वीकारं प्रवक्ष्यामि शृणु योगं समासतः ॥ उत्_2.27
येन योजितमात्रेण पुनः कुल्वो भविष्यति ।
पादपांशुसमायुक्तैर् अन्तरा घृतगोमयैः ॥ उत्_2.28
वृषभस्य पुनः शत्रोः कृत्वा चैवाकृतिं बुधः ।
एकविंशतिवारं हि मन्त्रेणानेन मन्त्रिताम् ॥ उत्_2.29
छेदयेत् तीव्रशस्त्रेण ततः कुल्वो भविष्यति ।
उओं नमो भगवते उड्डामरेश्वराय कामप्रभञ्जनाय अमुकं च्छः च्छः स्वाहा ।
प्रस्थितानां च करणे मन्त्रेणानेन मन्त्रवित् ॥ उत्_2.30
कृत्वा मधु घृताक्तं च स्थाने ह्य् अत्र प्रयोजयेत् ।
स्नात्वा च गव्यदुग्धेन ततः स्वस्थो भविष्यति ॥ उत्_2.31
अथ उन्मत्तीकरणम् ।
मूलं कनकबीजस्य घृतचूर्णं समन्ततः ।
गृहचटकस्य विष्टा च तथा करञ्जबीजकम् ॥ उत्_2.32
एतद् उन्मत्तकरं चूर्णं भक्षणात् तत्करं व्रजेत् ।
एकविंशतिवारं च मन्त्रेणानेन मन्त्रितम् ॥ उत्_2.33
खाने पाने प्रदातव्यम् उन्मत्तः स्यान् न संशयः ।
उओं नमो भगवते उड्डामरेश्वराय अमुकम् उन्मादय उन्मादय च्छः च्छः स्वाहा ।
अजक्षीरेण शोणितेन पिबेत् तु शतपुष्पिकाम् ॥ उत्_2.34
घृतेन सह वा पीत्वा ततः सम्पद्यते सुखम् ।
इत्य् उन्मत्तीकरणम् ।
एकविंशतिवारं हि मन्त्रितं लवणं खरम् ॥ उत्_2.35
करवीरककाष्ठाग्नौ मन्त्रैर् धूमेन पाचयेत् ।
लवणं तन्तु संगृह्य चूर्णं कृत्वा विचक्षणः ॥ उत्_2.36
खाने पाने प्रदातव्यं मन्त्रेणानेन मन्त्रितम् ।
मन्त्रितं शतवारं च शत्रोर् वा यस्य कस्यचित् ॥ उत्_2.37
भक्षणाच् च भवेद् अन्धो नात्र कार्या विचारणा ।
उओं नम उड्डामरेश्वराय शरीरम् अन्धं कुरु ठः ठः स्वाहा ।
अथान्यत् सम्प्रवक्ष्यामि कुष्ठीकरणम् उत्तमम् ॥ उत्_2.38
येन सम्पीतमात्रेण कुष्ठी भवति मानवः ।
भल्लातकरसं गुञ्जा तथा मण्डलकारिका ॥ उत्_2.39
गृहगोधासमायुक्ता भक्षे पाने प्रदापयेत् ।
सप्ताहाज् जायते कुष्ठं तत्पीतं च समेधितम् ॥ उत्_2.40
एतस्य शमनं कुर्याद् यथा रुद्रेण भाषितम् ।
धत्रीखदिरनिम्बानि शर्करासहितानि च ॥ उत्_2.41
विचूर्ण्य मधुसर्पिर्भ्यां जीर्णानि दापयेद् भिषक् ।
शालिभक्तं पटोलं च घृतयुक्तं तु पायसम् ॥ उत्_2.42
सोष्णं वा मुद्गचूर्णं तु शालियुक्तम् अथापि वा ।
एतेन दत्तमात्रेण नरः सम्पद्यते सुखम् ॥ उत्_2.43
जलजीवं तु संगृह्य शोषयेद् आतपे नरः ।
तस्य संदापयेद् धीमान् यस्य इच्छेत् तु जीवितम् ॥ उत्_2.44
अङ्गदाहेन तीव्रेण धमेत् तं नष्टचेतसम् ।
यदीच्छेज् जीवितं तस्य अङ्गं प्रक्षालयेद् ध्रुवम् ॥ उत्_2.45
पदमूलस्य चूर्णं तु क्षालयेत् काञ्जिकेन तु ।
तैलेनोद्वर्तयेल् लिङ्गं क्षालयेत् शीतवारिणा ॥ उत्_2.46
अनेन क्रियमाणेन नरः सम्पद्यते सुखम् ।
अथान्यत् सम्प्रवक्ष्यामि वश्यादिकरणं परम् ॥ उत्_2.47
येन विज्ञानमात्रेण लोको भवति किंकरः ।
पुराणिकस्य हृदयं तथा कुष्ठेन भावितम् ॥ उत्_2.48
शिवनिर्माल्यं संचूर्णं यस्य मूर्ध्नि विनिक्षिपेत् ।
नियतं किंकरो भूत्वा यावज् जीवं स तिष्ठति ॥ उत्_2.49
सप्तवारं मन्त्रयित्वा मन्त्रेणानेन मन्त्रवित् ।
उओं नमो भगवते उड्डामरेश्वराय स्वाधिकारं साधय साधय स्वाहा ।
चन्दनं तगरं कुष्ठं प्रियङ्गुनागकेसरम् ॥ उत्_2.50
कृष्णधत्तूरपञ्चाङ्गं समभागं तु कारयेत् ।
छायायां वटिका कार्या प्रदेया खानपानतः ॥ उत्_2.51
पुरुषं चाथ वा नरीं यावज् जीवं वशं नयेत् ।
सप्ताहं मन्त्रितं कृत्वा मन्त्रेणानेन मन्त्रवित् ॥ उत्_2.52
उओं नमो भगवते मोहमालिने ठः ठः स्वाहा ।
शङ्खपुष्पी ह्य् अधःपुष्पी तथा संकोचपुष्पिका ।
श्वेता च गिरिकर्णी च समं सप्ताहभाविताः ॥ उत्_2.53
स्वशुक्रेण समायुक्ता खाने पाने प्रदापयेत् ।
तं वशीकरणं प्रोक्तं यावज् जीवं न संशयः ॥ उत्_2.54
वज्रं वाथाभया लोध्रं मञ्जिष्ठा हिङ्गुपत्त्रिका ।
दिव्यं वचा विशालाक्षा कम्बुग्रीवा सुशोभना ॥ उत्_2.55
कुमारीत्वचाङ्गलेपेन सप्तहस्तप्रमाणतः ।
ददाति दशमीना च मन्त्रः कश्चित् प्रगृह्यते ॥ उत्_2.56
विषसुप्तपतित्वेन नात्र कार्या विचारणा ।
जलमध्ये सहा चौरं कुरुते वर्तिको मम ॥ उत्_2.57
दधि मधु नवनीतं पिप्पली शृङ्गवेरं मरिचम् अपि तु दद्यात् सप्तमं सैन्धवेन ।
यदि भवति सरोषं तक्षकेणापि दष्टं गदम् इह खलु पीत्वा निर्विषं तत्क्षणं स्यात् ॥ उत्_2.58
कुष्ठामृता चातिविषा हरिद्राया विलेपनम् ।
गरुडोक्तं विषहरम् औषधं प्राणिजीवनम् ॥ उत्_2.59
उलूकस्य जम्बुकस्य गृध्रस्य महिषस्य च ।
बिडालस्य वराहस्य काकभेकस्य च त्वचः ॥ उत्_2.60
मूषकस्य तु नेत्रं च सूक्ष्मचूर्णानि कारयेत् ।
अनेनाञ्जितनेत्रो हि रात्रौ पश्येद् यथा दिवा ॥ उत्_2.61
एतेषां योगमन्त्रो ऽयं मनुहीनो न सिध्यति ।
उओं नमो भगवते रुद्राय शिवाय ज्योतिषां पतये देहि ज्योतींषि मतिवीर्यकरणाय स्वाहा ।
एकरात्रोषितो भूत्वा कृष्णाष्टम्यां समाहितः ॥ उत्_2.62
लिङ्गसम्पूजनं कृत्वा जलं चैवाभिमन्त्रयेत् ।
दक्षिणस्यां दिशि स्थित्वा शतम् अष्टोत्तरं जपेत् ॥ उत्_2.63
ततः सिध्यन्ति मन्त्राणि चाञ्जनानि समन्ततः ।
उओं नमो भगवते उड्डामरेश्वराय अञ्जनमन्त्रसिद्धिं देहि मे स्वाहा इत्य् अञ्जनाधिकारः ।
अथ पिशाचीकरणम् ।
कनकस्य च बीजानि प्रियङ्गु गुग्गुलस् तथा ॥ उत्_2.64
आत्मानं धूपयित्वा तु योजयेद् राजसंसदि ।
योगम् इमं समाघ्राति स वश्यो जायते भृशम् ॥ उत्_2.65
कनकस्य तु बीजानि श्वेतार्कचन्द्रकेसरम् ।
कुष्ठं च देवदारुं च सर्वम् एकीकृतं तथा ॥ उत्_2.66
पिष्ट्वा तेन लिप्तगात्रो योगशक्त्या बलिष्ठया ।
यत्र यत्र प्रविष्टस् तु तत्र तत्र जयी भवेत् ॥ उत्_2.67
उड्डामरेश्वरतन्त्र, तृतीयः पटलः
काकस्य पक्षौ संगृह्य सर्पकञ्चुकम् एव च ।
श्मशानभस्मसंयुक्तं शत्रोर् उच्चाटनं भवेत् ॥ उत्_3.1
इत्य् उच्चाटनाधिकारः ।
भूतवादं प्रवक्ष्यामि यथा गरुडभाषितम् ।
येनैव ज्ञातमात्रेण शत्रवो यान्ति वश्यताम् ॥ उत्_3.2
शत्रुनिर्यासं संगृह्य चूर्णं सत्त्वं च तस्य वै ।
भावयेत् सप्तरात्रं तु भोजनैः सह दापयेत् ॥ उत्_3.3
दत्तमात्रेण तेनैव पिशाचैर् गृह्यते तु सः ।
स्वस्थीकारे प्रदातव्या जया तु मधुयष्टिका ॥ उत्_3.4
निर्यासैः शालसम्भूतैर् बीजानि कतकस्य च ।
भावयेत् सप्तरात्रं तु भोजनैः सह दीयते ॥ उत्_3.5
तस्य भक्षणमात्रेण ग्रहैः संगृह्यते नरः ।
शर्करादुग्धपानेन स्वस्थो भवति नान्यथा ॥ उत्_3.6
वास्तुकस्य तु निर्यासं बीजानि कतकस्य च ।
मर्दित्वा यातयामाभ्यां गृह्यते ब्रह्मराक्षसैः ॥ उत्_3.7
शर्करादुग्धपानेन स्वस्थो भवति नान्यथा ।
कपिकच्छुकनिर्यासैर् मातुलुङ्गस्य बीजकम् ॥ उत्_3.8
भावयेत् सप्तरात्रं तु भक्ष्ये पाने प्रदापयेत् ।
उओं नमो भगवते उड्डामरेश्वराय महेश्वरो नाम स्वाहा ।
आमलक्याश् च चूर्णेन स्त्रीदुग्धसहितेन च ॥ उत्_3.9
पाययित्वा विष्कृतं तु स्वास्थ्यं संजायते ध्रुवम् ।
शर्करापद्मकिञ्जल्कपद्मकेसरकल्ककैः ॥ उत्_3.10
चूर्णीकृतैस् तच् चूर्णं तु दुग्धेन सह दापयेत् ।
तदा दुष्टग्रहैर् मुक्तः स्वस्थश् च जायते नरः ॥ उत्_3.11
उड्डामरेश्वरतन्त्र, चतुर्थः पटलः
अथातः सम्प्रवक्ष्यामि भूतवादे सुदुर्लभम् ।
येन विज्ञानमात्रेण सर्वसिद्धिः प्रजायते ॥ उत्_4.1
उओं ह्रीं काली कङ्काली किल किल स्वाहा ।
इदं मन्त्रं पूर्वं सहस्रदशकं जपेत् ।
ततः सहस्रं जुहुयात् कङ्काली वरदा भवति सुवर्णमाषचतुष्टयं प्रत्यहं ददाति ।
अथ सर्वजनमुखस्तम्भनम् अन्तः उओं ह्रीं नमो भगवती दुर्वचती किलि वाचाभञ्जनी सर्वजनमुखस्तम्भिनी ह्रां ह्रीं ह्रैं ह्रौं ह्रः स्वाहा ।
अनेन मन्त्रेण बिल्वमरिचं घृताक्तं सहस्रहवनं कुर्यात् समस्तजनपदाः किंकरा भवन्ति ।
एतन्मन्त्रेण यदि न्यग्रोधसमिधं घृताक्तां सहस्रैकं होमयेत् तदा स्त्रीवश्यं भवति ।
उओं रौं ह्रीं हूं हूं एं वद वद वाग्वादिनी वागीश्वरी नमः स्वाहा ।
अनेन मन्त्रेण सहस्रजप्तेन कवित्वं करोति नात्र संदेहः ।
उओं उओं उओं ईं ईं ईं ऐं ऐं ऐं नमः स्वाहा ।
अनेन मन्त्रेण दशसहस्रजप्तेन कवित्वं करोति ॥ उत्_4.2
उड्डामरेश्वरतन्त्र, पञ्चमः पटलः
शृणु पुत्र प्रवक्ष्यामि यथा त्रैलोक्यमोहनम् ।
परपुरुषा वशं यान्ति यथावत् कथयामि ते ॥ उत्_5.1
एला कुष्ठं च लोध्रं च वचा च रक्तचन्दनम् ।
श्मशानभस्मसंयुक्तं प्रयोगं मारणान्तकम् ॥ उत्_5.2
मारणं संकोचकरणम् ।
कुलत्थं बिल्वपत्त्रं च रोचना च मनःशिला ।
एतानि समभागानि स्थापयेत् ताम्रभाजने ॥ उत्_5.3
सप्तरात्रे स्थिते पात्रे तैलम् एभिः पचेद् बुधः ।
तैलेन भगम् आलिप्य भर्तारम् उपगच्छति ॥ उत्_5.4
सम्प्राप्य मैथुनं भर्ता दासो भवति नान्यथा ।
नागरैः मधुसंयुक्तैर् गुटिकां कारयेद् बुधः ॥ उत्_5.5
अश्वमूत्रेण संयुज्य पुरुषाणां वशंकरम् ।
कुङ्कुमं शतपुष्पं च प्रियङ्गु रोचनं ततः ॥ उत्_5.6
अजाक्षीरेण दातव्यं या भार्या दुर्भगा भवेत् ।
ततः सा सुभगा नित्यं पतिदासत्वम् आप्नुयात् ॥ उत्_5.7
मातुलुङ्गस्य बीजानि पङ्कजस्य फलानि च ।
समुद्रजं रक्तचूर्णं मधुना सह लेपयेत् ॥ उत्_5.8
तैलयोजितमात्रेण पतिर् दासो भवेद् ध्रुवम् ।
अधुना सम्प्रवक्ष्यामि योगानां सारम् उत्तमम् ॥ उत्_5.9
येन विज्ञातमात्रेण नरी भवति किंकरी ।
उशीरं चन्दनं चैव मधुना सह संयुतम् ॥ उत्_5.10
गजहस्तप्रयोगो ऽयं सर्वनरीप्रयोजकः ।
केवलं शशिना युक्तं कुङ्कुमं लेपयेद् भगे ॥ उत्_5.11
निजवज् जायते साङ्गं जायते योनिसंचयम् ।
लवंगं सैन्धवं क्षौद्रं पिप्पली मरिचानि च ॥ उत्_5.12
नरस्य लेपयेद् गात्रं स भवेद् गजहस्तवत् ।
वरटावेश्मसम्बानं शीततोयेन पेषयेत् ॥ उत्_5.13
तेनैव लिप्तमात्रेण भगे रन्ध्रो न जायते ।
तत्र प्रक्षालितेनाथ प्रसवत्वं भविष्यति ॥ उत्_5.14
यः स्वरेतः समादाय रत्यन्ते सव्यपाणिना ।
वामपादं स्त्रियो लिम्पेत् सा तस्य वशगा भवेत् ॥ उत्_5.15
या भोगशेषे कान्तस्य लिङ्गं वामाङ्घ्रिणा स्पृशेत् ।
यावद् आयुर् भवेद् दासः स तस्या नात्र संशयः ॥ उत्_5.16
कपोतविष्ठा सिन्धूत्थमधुकैः समभागिकैः ।
लिप्त्वा लिङ्गं भजेद् यां तु सा वश्या स्याद् वराङ्गना ॥ उत्_5.17
घनसारं सतल्लव्यं मेढ्रं च मधुना सह ।
पिष्ट्वा लिप्त्वा रजो यां च भजेत् सा वश्यगा भवेत् ॥ उत्_5.18
रोचना कनकं शम्भुबीजं कर्पूरचन्दनम् ।
एभिर् विलिप्तलिङ्गो यां भजते सा वशा भवेत् ॥ उत्_5.19
उड्डामरेश्वरतन्त्र, षष्ठः पटलः
कृष्णच्छागरोमकृष्णमार्जाररोमकृष्णकाकरोमाणि कृष्णाष्टम्यां कृष्णचतुर्दश्यां वा शनिभौमयोर् वारे ऽश्लेषानक्षत्रे आर्द्रानक्षत्रे वा समभागानि कृत्वा कूपतडागनदीपयसा पेषयित्वा गुटिकां कृत्वा संग्रामे चोपविशेत् ।
रणपांशुना तिलकं कुर्यात् ।
अथानन्तरं ये ऽन्ये पुरुषा दर्शनं कुर्वन्ति ते कम्पयन्ति मूर्छयन्ति उत्पतन्ति पलायन्ते ।
ये पिष्ट्वा लेपं कुर्वन्ति तेषां शुचि कापि पतति न मुञ्चति ।
एष योगो मया प्रोक्तो देवानाम् अपि दुर्लभः ।
निवेदनीयः कस्यापि न कदाचिद् इति ब्रुवे ॥ उत्_6.1
अथातः सम्प्रवक्ष्यामि शरीरज्ञानम् उत्तमम् ।
येन विज्ञानमात्रेण जायते च शुभाशुभम् ॥ उत्_6.2
जीवितं मरणं चैव लाभालाभं जयाजयम् ।
सुखदुःखं भवाभावौ गमनागमनं तथा ॥ उत्_6.3
हिमालयसुता वै हि पृष्टवती वृषध्वजम् ।
अथ पृथिव्यप्तेजोवाय्वाकाशानि तत्त्वानि तत्र गुरोर् बृहत्प्रसादेन शास्त्राणि च येन योगेनातीतेन त्रैलोक्यं सचराचरं जातम् एव ।
येषां समयोगानि स्थूलसूक्ष्माणि कथ्यन्ते ।
स च सम्प्रेत्य चेष्टायां लक्ष्यते तस्याः किं नाम तस्य च का जिज्ञासा यथापद् उच्यते चाहुस् ततः पञ्चतत्त्वानि पठ्यन्ते ।
सम्प्रति दूतो यद् आगत्य वदति तस्य वाग् उदेति पञ्चतत्त्वाक्षराणि ज्ञात्वा यस्य तत्त्वाक्षरस्य वक्त्रे तत्त्वाक्षराणि भवन्ति प्रश्नचिन्तायां स तत्त्वं जपति ।
यदि प्रश्नचिन्तायां पृथिवीतत्त्वाक्षराणि भवन्ति तदा पृथ्वीतत्त्वं भवति ।
यद्य् एषाम् अधिका भवन्ति तदा पानीयतत्त्वानि भवन्ति तत्त्वाक्षराणीत्य् अर्थः ।
अआइईउऊऋॠऌॡ एतानि पृथ्वीतत्त्वाक्षराणि ।
एऐओऔअंअः एतानि जलतत्त्वाक्षराणि ।
कखगघङचछजझञ एतानि तेजस्तत्त्वाक्षराणि ।
टठडढणतथदधनपफबभम एतानि वायुतत्त्वाक्षराणि ।
यरलवशषसह तान्य् आकाशतत्त्वाक्षराणि ।
एतानि वर्धितवाक्येनाधिकाक्षराणि भवन्ति ।
विविधप्रकारचिन्ताः समविषमाक्षराणि पृथ्वीतत्त्वानि ज्ञातव्यानीति ।
जीवितमरणलाभालाभजयपराजयसुखदुःखगमनागमनानि च यानि समानि विषमाणि अप्तत्त्वानि निर्वाचितव्यानि ।
यदा चित्तं भवति कृतस्य वाक्यविषये पृथिवीविषये तदा सलिलतत्त्वाक्षराणि भवन्ति तदा स जप्तं जपति ।
अप्चिन्तायां यदा पृथिवीतत्त्वाक्षराणि भवन्ति तदा पृथ्वीतत्त्वं भवति ।
एवम् अन्येष्व् अपि बोद्धव्यम् ।
अक्षराणि येन कथयति ।
लाभचिन्तायां तेजाकाशाक्षराणि अधिकानि भवन्ति तदा ते ऽशुभो ऽधिकतरो भविता ।
यदा देशात् तत्त्वाद् वा गमनादिकं तेजसः ग्रामचलिते संग्रामगमने अहेतु अके डके तैजसाक्षराण्य् अधिकानि भवन्ति ।
पृथिव्यप्तेजोवाय्वाकाशा एतेषाम् अक्षराणि विवाहकाले एतेषु तेजोऽक्षराणि शुभहारकाणि भवन्ति ॥ उत्_6.4
उड्डामरेश्वरतन्त्र, सप्तमः पटलः
अथौषधीकरणं निरूप्यते ।
ओषधी परमा श्रेष्ठा गोपितव्या प्रयत्नतः ।
यस्याः प्रयोगमात्रेण देवता यान्ति वश्यताम् ॥ उत्_7.1
ओषधी सा बुधैः प्रोक्ता चाण्डाली लोकविश्रुता ।
सुरासुरगणैः पूज्या सर्वकार्यार्थसाधिनी ॥ उत्_7.2
एकपत्त्री द्विपत्त्री च त्रिपत्त्री तुर्यपत्त्रिका ।
अनेन विधिना देवि चतुश्चरणगामिनी ॥ उत्_7.3
मानुषाणां विशेषेण वश्यकर्मणि योजिता ।
एकपत्त्री तु स्वाङ्गमलसंयुक्ता स्त्रियं वशम् आनयति द्विपत्त्री राज्ञो राजपुरुषान् ।
त्रिपत्त्री श्रीशाकमरिचसहिता दुष्टां चमूं वशम् आनयति चतुष्पत्त्री च कन्दुसहिता मत्तदुष्टगजं वशम् आनयति ।
अथोत्पाटनविधिः कथ्यते शनिवारे शुचिर् भूत्वा सायं संध्यादिकं विधाय गन्धपुष्पधूपदीपनैवेद्यादिभिः पञ्चोपचारैः पूजादिकं विधाय अक्षतं फलं हस्ते गृहीत्वा ओषधिसमीपे स्थित्वाभिमन्त्रणं कुर्यात् ।
ततो ऽनुदिते भानौ खदिरकाष्ठकलिकेन खनयेत् ।
तत्र मन्त्रः येन त्वां खनते ब्रह्मा हृषीकेशो महेश्वरः ।
शचीपतिः पितृपतिर् जलेशश् च धनाधिपः ।
तेन त्वां खनयिष्यामि तिष्ठ तिष्ठ महौषधि ।
इति पठित्वा खनयेत् ।
शुचिर् आरभ्य एकान्ते प्रभाते मन्त्रमुक्तितः ॥ उत्_7.4
संग्राह्यम् औषधं सिद्ध्यै न भवन्ति हि काष्ठवत् ।
नमो ऽस्त्व् अमृतसम्भूते बलवीर्यविवर्धिनि ॥ उत्_7.5
बलम् आयुश् च मे देहि पापं मे नय दूरतः ।
येन चानेन मन्त्रेण खनित्वोत्पाट्यमानं कृत्वा यः पूर्वम् आनीतो यो ऽन्यथा भवेत् ।
अत्रैव तिष्ठ कल्याणि मम कार्श्यकरी भव ॥ उत्_7.6
मम कार्ये कृते सिद्धे इतस् त्वं हि गमिष्यसि ।
उओं हीं रक्तचामुण्डे हूं फट् स्वाहा ।
अनेन मन्त्रेण पुष्यर्क्षे हस्तर्क्षे वा नक्षत्रे सर्वाश् चौषध्य उत्पाटनीया यैर् नरैश् च उदिते भानौ ओषध्यः खन्यन्ते उत्पाट्यन्ते उत्पद्यन्ते वा तासां रविकिरणपीतप्रभावेनावीर्यप्रभावो भवति ।
सिद्धिकारिका न भवन्ति ।
यद्य् उदिते भास्करे उत्पाट्यन्ते तदा तासां पूजा कर्तव्या ।
जपारक्तोत्पलरक्तकरवीररक्तचन्दनकुङ्कुमेन गव्यगोमयेन सपादहस्तभूमिं संलिप्य तन्मध्ये चतुरस्रं कारयेत् ।
रक्तचन्दनकुङ्कुमाभ्यां तन्मध्ये वर्तुलं वितस्तिमात्रं भानुं पूजयेत् ।
पार्श्वे चन्द्रादिग्रहान् पूजयेत् ।
ततो रक्तभक्तपुष्परक्तैर् वक्ष्यमाणमन्त्रेण बलिं दद्यात् ।
उओं द्रां द्रीं द्रूं द्रैं द्रौं द्रः सः स्वाहा ।
अनेन मन्त्रेण पूजां कृत्वोत्पाटयेद् वीर्ययुक्ता भवति सर्वकार्यक्षमा भवति ॥ उत्_7.7
उड्डामरेश्वरतन्त्र, अष्टमः पटलः
अथान्यत् सम्प्रवक्ष्यामि नारीणां गर्भधारणम् ।
पद्मबीजं गव्यपयसा सह या नरी पिबति सा गर्भवती भवति सत्यम् एव आदित्यवारे निमन्त्रयेत् चन्द्रवारे भक्षयेत् ।
पूर्वदिग्भागस्थितं शरीषमूलं गव्यघृतेन सह ऋतुसमये भक्षयेत् सा संवत्सरेण गर्भवती भवति ।
अनपत्या च या नरी कपित्थं भक्षयेत् सदा ।
अभिमन्त्र्य तु मन्त्रेण सापि पुत्रवती भवेत् ॥ उत्_8.1
एकवृक्षतटे नारी स्नानं कृत्वाभिमन्त्रयेत् ।
आदिवन्ध्यापि देवेशि भवेद् गर्भवती हि सा ॥ उत्_8.2
देवः शिवो भवेद् यत्र नदीसङ्गम् असंनिधौ ।
तस्यां नद्यां दिशि स्वाहा वन्ध्या पुत्रवती भवेत् ॥ उत्_8.3
विधिर् अत्रोच्यते कपिलागोमयेनाथ भूमिं संलिप्य यत्नतः ।
स्नात्वा विधिप्रकारेण मण्डलं कारयेत् ततः ॥ उत्_8.4
चतुरस्रं चतुष्कोणं तन्मध्ये वर्तुलं स्मृतम् ।
तन्मध्ये विलिखेत् पश्चाद् अष्टपत्त्रं सकर्णिकम् ॥ उत्_8.5
मध्ये तु पूजयेद् देवं पत्त्रे शक्तिं प्रपूजयेत् ।
निर्व्रणमण्डलस्याग्रे कमलं स्थापयेद् बुधः ॥ उत्_8.6
शिखिपत्त्रनखवर्णेन लिखेत् ।
भृङ्गता कुलसप्तपर्वतमृत्तिका [... औ5 zएइछेन्झ्] स्वमलामृत्तिकावल्मीकमृत्तिकानिम्बमूलमृत्तिका सुवर्णरजतताम्रकांस्यसहस्रमूलसर्वतीर्थानि समुद्राः सरितः सर्वाः सर्वौषधयः सर्वदेवताः सर्वसिद्धयः सर्वयोगिन्यः सर्वे गिरयः सर्वे नागाः पञ्चजात्यानि फलानि पञ्चप्रकाराक्षतानि पञ्च सुवर्णपुष्पाणि स्थिरचित्तेन मन्त्रितकलशे परिकल्पयेत् ।
अथ मन्त्रः क्षं क्षीं क्षूं क्षैं क्षौं क्षः ।
अनेन मन्त्रेण या नरी विधानेन निरतवर्जिता अब्रह्मचारिणी देवी वन्ध्या पञ्चपतिवर्जिता ।
अपुत्रा लभते पुत्रान् दुर्भगा सुभगा भवेत् ।
अनेनैव विधानेन कन्या प्राप्नोति सत्पतिम् ॥ उत्_8.7
मन्त्रौषधीप्रयोगाश् च ये चान्ये चूर्णकीर्णकाः ।
नवाभिचारिताः कूराः शुद्धदेहा भवन्ति ते ॥ उत्_8.8
ये चान्ये विघ्नकर्तारश् चरन्ति भुवि राक्षसाः ।
ते सर्वे प्रलयं यान्ति सत्यं देवि मयोदितम् ॥ उत्_8.9
सकृद् उच्चरिते मन्त्रे महापुण्यं प्रजायते ।
ब्रह्महत्यादयो दोषाः क्षयं यान्ति न संशयः ॥ उत्_8.10
अथ प्रथमोपाय उच्यते नागकेसर 10 माषकं गव्यघृतेन सहर्तुस्नानदिवसे पिबेत् ।
तदनन्तरं भर्त्रा सह रात्रौ संयोगं कुर्यात् ।
सा अवश्यम् एव गर्भवती भवति ।
अथ द्वितीयोपायः श्वेतजीरकम् 17 माषमात्रकं रात्रौ मृन्मयपात्रे जलेन सह निरावरणस्थाने समग्ररात्रौ स्थापयेत् ।
अग्निमदिवसे शिलायां पिष्ट्वा पर्युषितजलेन या स्त्री ऋतुस्नानदिने पीत्वा रात्रौ भर्त्रा सह संयोगं कुर्याद् अवश्यं सा गर्भवती भवति ।
अथ तृतीयोपाय दकाल्वद्मदीपि 10 माषकं गव्यदुग्धेन सह या ऋतुस्नानदिवसे पीत्वा रात्रौ भर्त्रा सह संयोगं कुर्यात् सा अवश्यम् एव गर्भवती भवति ।
इति तृतीयोपायः ।
उओं घण्टाकर्णाय स्वाहा इमं सप्तधा जप्त्वा ग्रामे नगरे वा प्रविशेत् तत्र विशिष्टं भोजनं प्राप्नोति ।
अन्यच् च भो अल्ल मे सिद्धा अनेनाष्टोत्तरशतं जपेत् ।
शिरीषमूलमृदः क्षेत्रस्य चतुष्कोणेषु मोक्षयेत् तदा शशकमूषकवराहचतुष्पादप्रभृतीनां मुखबन्धनं भवति ।
अधुना सम्प्रवक्ष्यामि मन्त्रान् मे फलदायकाः ।
ये सिध्यति दशान्यूनं मन्त्रसाधनमुक्तिदाः ॥ उत्_8.11
शत्रुमित्रोदासीनसाध्यसिद्धस्य लक्षणम् ।
मन्त्राक्षराणि लिखित्वा साधकस्य तस्य यदापि च प्रथमवर्गाक्षरो भवति तदा मित्रं द्वितीयवर्गाक्षरो भवति तदा सिद्धः ।
तृतीयवर्गस्य यदा भवति तदा साध्यः चतुर्थवर्गाक्षरो भवति तदोदासीनः पञ्चमवर्गाक्षरो यदा भवति तदा शत्रुर् ज्ञातव्यः ।
एतान् भेदान् ज्ञात्वा मन्त्रशोधनम् आरभेत् तदा साधकानां सुखावहो भवति अथ कल्पवृक्षषण्डमूलानि यानि प्रक्षालितानि गव्यदधिमिश्रितायां राजिकायां संस्कार्याणि ।
ततो नियमपूर्वकं भक्षयेत् ।
निर्व्याधियोगेष्व् अमुं स्वमुखे नियोजयेत् ।
विधानम् अस्या ब्रवीमीति देवी ।
अथ मन्त्रः उओं नमः षण्मुखाय शक्तिहस्ताय मयूरवाहनाय औषधीकेन देहि मे भव स्वाहा ।
अनेन मन्त्रेण चतुर्दश्यां शुचिर् भूत्वा मयूरशिखाम् उत्पाटयेत् तदा महाप्रभावयुक्ता भवति ।
गव्यघृतेन सह संगृह्येत तदा इन्द्रियबलो भवति ।
पञ्चमलेन स्वर्णकारो भवति ।
अन्यच् च श्वेतकरवीरमूलश्वेतगिरिकर्णिकामूलहेवचनाङ्भीकृतजाताञ्जली पञ्चमलसमायुक्ता खाने पाने प्रदातव्या मरणान्तं वशीकरणम् ॥ उत्_8.12
अन्यच् च श्वेतगिरिकर्णिकामूलं स्ववीर्येण सह स्वकीयपञ्चमलहरवीर्यश्वेतार्कमूलम् एतानि हस्तर्क्षे पुष्यर्क्षे वा एकीकृत्य कुमारिकाहस्ताभ्यां मर्दयित्वा अष्टम्यां चतुर्दश्यां वा गजमदेन सह हस्ते गुटिकां कारयेत् ।
यस्यै एकापि दीयते सा वश्या भवति नान्यथा ।
शुक्लपक्षे ऽपि सर्पाणां दीयते ते सर्पा अपि वश्या भवन्ति श्रीमहाभैरवस्य वचो यथा कुङ्कुमेन सह दीयते तदा वै गजो वशीभवति ।
रोचनया कुङ्कुमेन सह यदा तिलकं क्रियते तदा सा स्त्री पृष्ठलग्ना भ्रमति ।
गुरुदारेभ्यः तिलको न दर्शयितव्यः ।
राजद्वारे तथा न्याये विवाहे युद्धे जयावहे त्रैलोक्यमोहनम् एतत् ।
त्रिफला 5 माषाः निम्ब 1 माष कदम्ब 2 माष नीप 3 माष तिराइता 4 माष करञ्ज 5 माष भृङ्गराज 6 माष मयूरशिखा 7 माषाः एतानि समभागानि सूक्ष्मचूर्णानि कारयेत् ।
तदनन्तरं मधुना सह पेषयेत् ।
भोजनं च यथाहारं कुरुते नात्र संशयः ।
एतच् चूर्णं सुरेभ्यो ऽपि दुर्लभम् ।
रात्रिचूर्णं शिरीषवल्कलचूर्णं च गव्यघृतेन सह यस्यै वनितायै ऋतुस्नानदिवसे पानार्थं दीयते सा स्त्री वन्ध्यापि गर्भवती भवति नात्र संशयः ।
एतच् चूर्णं कपित्थफलेन सह ऋतुसमये अपुत्रवती भक्षयति सा स्त्री पुत्रम् आप्नोति ।
एतच् चूर्णं श्वेतकङ्कोलीमूलं लक्ष्मणाचूर्णं च समं कृत्वा कुङ्कुमक्वाथेन सहर्तुसमये सदा भक्षणार्थं दीयते तदा तस्याः शरीरशुद्धिर् भवति ।
पश्चाद् ऋतुसमयोपरि पञ्च दिनानि भक्षयेत् तदा सा गर्भधारणक्षमा भवति नात्र संशयः ॥ उत्_8.13
उड्डामरेश्वरतन्त्र, नवमः पटलः
अथान्यत् सम्प्रवक्ष्यामि औषधं परमदुर्लभम् ।
आस्फोटी नाम विख्याता नागदमनीति विश्रुता ॥ उत्_9.1
अस्या विधानं वक्ष्यामि दुर्लभं त्रिदिवौकसाम् ।
विषाः सर्वे विनश्यन्ति लेपनाद् भक्षणात् क्षणात् ॥ उत्_9.2
पत्त्रहस्ते तां प्रलिप्य सर्पो ध्रियते धृतमात्रे सर्पो न नश्यति नैव क्षतानि प्रलिप्य नागपूजितमन्त्रेण सर्पो विनश्यति ।
नागदमनीमूलं खननान् नाडीललाटलेपनान् नाशयति समन्ततः आमवातं पित्तवातं श्लेष्मवातम् एते वाता विनश्यन्ति भक्षणान् नात्र संशयः ।
अथ कथयाम्य् ओषधीकरणे करणकारणानि ।
पुत्रमय वशीकरणकारकपुत्रपुत्रं कंसं कातरापि वशं परं महिलाजनस्यैकश अप्य् अस्य दीयते सा पतिं परित्यज्य पश्यतां लोकानां नग्ना भूत्वा भ्रमति ।
अथ कथयामि तान्त्रिकविधिम् ।
ताम्रवेदीपरोर इति लोकैर् उच्यते शनिवारे ताम् अभिमन्त्र्य दिगम्बरो मुक्तकेशो भूत्वानुदिते भानौ ग्रहणं कुर्यात् ।
पिष्ट्वा सम्यक्प्रकारेण स्त्रीपञ्चमलेन च कामातुरेण कृत्वा ताम्बूलेन सह भगिनीकृत्वा दीयते सा वश्या भवति नान्यथा ।
मातापि पुत्रं परित्यज्य तत्परा भूत्वा पृष्ठतो नग्ना भवति यत्र कुत्रापि तथा तम् अनुयाति न संशयः ।
काकजङ्घेति विख्याता महौषधिर् ग्रामे सर्वत्र तिष्ठति शनिवारे संध्यासमये तस्या अभिमन्त्रणं कुर्यात् तदन्तरं ब्राह्मे मुहूर्ते उत्थायानुदिते भानौ पुष्यर्क्षे हस्तर्क्षे वा योगे खदिरकीलकेन तां समूलाम् उत्पाटयेत् ।
पुनस् तां सप्तम्याम् अष्टम्यां नवम्यां वा एतासु तिथिषु पुनर्वसुपुष्यहस्तर्क्षयुक्तासु स्वपञ्चमलेन सह पिष्ट्वा स्ववीर्यं स्वरक्तम् अपि तस्मिन् दत्त्वा यस्यै वनितायै दीयते सा स्त्री वश्या भवति सत्यम् एव मन्त्रेणानेन मन्त्रयेत् ।
उओं नमो भगवति त्रिपुरे त्रैलोक्यमोहिनि ऐं द्रां श्रीं क्लीं सौं अमुकनाम्नीं शीघ्रं मे वशम् आनय स्वाहा ।
इति मन्त्रः ।
अथ गुञ्जाकल्पो लिख्यते श्वेतगुञ्जां शनिवारे संध्यासमये ऽभिमन्त्रितां कृत्वा ततो ब्राह्मे मुहूर्ते उत्थायानुदिते भानौ खदिरकीलकेन दिगम्बरो भूत्वा समूलाम् उत्पाटयेत् ।
पुष्यर्क्षे हस्तर्क्षे वा स्त्रीपुष्पेण सह गोरोचनकश्मीरकुङ्कुमश्वेतचन्दनरक्तचन्दनकस्तूरीकर्पूरहस्तिमदेन सहाभिमन्त्र्य तिलकं कुर्यात् तदा स्त्री कामबाणविमोहिता विह्वला भवति ।
मन्त्रेणानेन मन्त्रयेत् उओं ऐं ह्रीं श्रीं क्लीं हूं फट् स्वाहा ।
इति कामबाणतिलकम् ।
अथान्यतन्त्रोक्तं वशीकरणादिकं लिख्यते सारम् उद्धृत्य संक्षेपाद् वशीकरणमोहने ।
कामिनां प्रीतिजनकं किंचित् तद् अपि गद्यते ॥ उत्_9.3
तत्रादौ तिलकविधिः ।
लज्जां मधूकं कव्यं च नलिनीमूलम् एव च ।
एतान् पिष्ट्वा स्ववीर्येण यः कुर्यात् तिलकं पुमान् ॥ उत्_9.4
तत्क्षणाद् एव नयति वश्यतां भुवनत्रयम् ।
वात्स्यायनेन मुनिना प्रोक्तं योगम् अनुत्तमम् ॥ उत्_9.5
सिताष्टमूलमञ्जिष्ठा वचा मुस्ता सकुष्ठका ।
स्त्रीयोनिशोणिते चैतद् एकीकृत्य ललाटके ॥ उत्_9.6
शुभं तिलकम् आधत्ते यः स लोकत्रयं क्रमात् ।
कृतज्ञः स्ववशं कुर्यान् मोदते च चिरं भुवि ॥ उत्_9.7
तगरं पिप्पलीमूलं मेषशृङ्गी कणा जटा ।
एतत् समं स्वपञ्चाङ्गमले नीत्वैकतां सुधीः ॥ उत्_9.8
मधुना तिलकं कुर्याद् यः क्षोणीसुतवासरे ।
जगत् सर्वं वशीकुर्यात् स पुमान् नात्र संशयः ॥ उत्_9.9
गोरोचनं च संभाव्य स्वपुंसो रुधिरेण या ।
कुर्यात् सा तिलकं भाले पतिं च मोहयेद् भृशम् ॥ उत्_9.10
अथाञ्जनविधिः ।
महाष्टमीदिने यस् तु श्मशाने नरमस्तके ।
पातितं कज्जलं विश्वं मोहयेन् नयनाञ्जनात् ॥ उत्_9.11
रोचनां केसरं कन्यां शिलां चेति विशोधयन् ।
याजयेद् दृष्टिपथगं सर्वम् एव विमोहयेत् ॥ उत्_9.12
तालीशकुष्ठनागरैः कृत्वा क्षोणीशवर्तिकाम् ।
सिद्धार्थतैले निःक्षिप्य कज्जलं नरमस्तके ॥ उत्_9.13
पातयेद् अञ्जनं तस्य सर्वदा भुवनत्रये ।
दृष्टिगोचरम् आयातः सर्वो भवति दासवत् ॥ उत्_9.14
शिलाकिञ्जल्कफलिनी रोचनानां तथाञ्जनम् ।
पुष्यर्क्षयोगे विहितं दम्पत्योर् मोहनं परम् ॥ उत्_9.15
इति अथ चूर्णविधिः ।
काकजङ्घा शिला पक्षौ भ्रामरौ कृष्णम् उत्पलम् ।
तगरजं चैषां चूर्णं क्षिप्तं विमोहने ॥ उत्_9.16
वातपैत्तिकदलं पुंसो मलं मालासवस्य च ।
पक्षावलेर् इदं चूर्णं क्षिप्तं शिरसि मोहनम् ॥ उत्_9.17
अथ भक्षणविधिः ।
अन्त्रादि सर्वं निष्कास्य खञ्जरीटोदरं कुलैः ।
पूरयित्वा स्ववीर्येण सारमेयगले क्षिपेत् ॥ उत्_9.18
मुद्रां कृत्वा तदेकान्ते सप्ताहं धारयेत् सुधीः ।
पश्चान् निष्कास्य संशोध्य वटीं कुर्याद् विशोषयेत् ॥ उत्_9.19
सा भक्षणविधानेन दीपमाला परस्परम् ।
दम्पत्योः प्रीतिजननी कीर्तिता नियमोत्तमा ॥ उत्_9.20
अन्यत् सुमतम् ।
अथान्यत् सम्प्रवक्ष्यामि तिलकं सर्वकामिकम् ।
गोरोचनं वंशलोचनं मत्स्यपित्तं कश्मीरकुङ्कुमकेसरस्वयम्भूकुसुमस्ववीर्यश्रीखण्डरक्तचन्दनकस्तूरीकर्पूरकाकजङ्घामूलानि समभागानि कृत्वा कूपतडागनदीजलेन मर्दयित्वा कुमारिकापार्श्वकां गुटिकां कृत्वा छायां गुटिकां कारयेत् ।
तया ललाटे तिलकं कृत्वा यां यां स्त्रियं पश्यति सा सा वश्या भवति ।
द्रौं वां धां क्षौं अं कं छः इत्य् अनेन मन्त्रेण महिषास्थिमयं कीलकम् एकोनविंशत्यङ्गुलं सहस्रेणाभिमन्त्रितं यस्य नाम्ना कूपतटे निखनेत् स महिषेण वध्यते ।
उओं च्छः च्छः ॡं अमुकं हुं ईं च्छः च्छः उओं इति ।
अनेन मन्त्रेण मयूरास्थिमयं कीलकं त्र्यङ्गुलं सहस्रेणाभिमन्त्रितं यस्य नाम्ना चतुष्पथे निखनेत् स तत्र भ्रमति ।
तत्रानेनावतिष्ठति पर्यटति क्षणमात्रेण उत्तोलनेन शान्तिर् भवति ।
उओं श्रीं श्रीं व्रां व्रीं ईं ईं च्छः च्छः स्वाहा ।
अनेन मन्त्रेण मेषास्थिमयं कीलकं द्वादशाङ्गुलं सहस्रेणाभिमन्त्रितं कृत्वा यस्य गृहे निखनेत् सर्वसिद्धिर् असिद्धा तस्य भवति ।
द्रीं बन्धूकपुष्पसंकाशं ध्यातव्यं मन्त्रदीपके ।
कुम्भकेन वरारोहे शृणु वक्ष्यामि षड्गुणम् ॥ उत्_9.21
ध्यात्वा तु मासम् एकं तु महास्त्रीम् आनयेद् ध्रुवम् ।
मासेनैकेन मनुना आनयेन् नागकन्यकाम् ॥ उत्_9.22
देवकन्यां त्रिभिर् मासैः सायाह्ने नान्यथा भवेत् ।
उओं हं हः इति ।
अनेनैव तु मन्त्रेण ध्यातव्याः क्रोधयाजकाः ॥ उत्_9.23
याज्यस्य रुद्रसंकाशं रुद्रहस्तं सुरासुरैः ।
मासेन मानुषं लोकं नागलोकं द्विमासतः ॥ उत्_9.24
त्रिभिर् मासैस् तु देवेशि स्वर्गलोकं न संशयः ।
षण्मासाभ्यासयोगेन त्रैलोक्यं निश्चलं कुरु ॥ उत्_9.25
उओं रक्तहटा रक्तगटा मुकुटधारिणी एधति स्वाहा ।
मन्त्रराज उल्टा वेधा ।
उओं ह्रीं श्रीं ध्रीं विकृतानना बाह्ये फट् स्वाहा ।
मन्त्रम् इमं यन्त्रे लिखित्वा यस्य ईक्षितं दीयते स ऐकाहिकद्व्याहिकत्र्याहिकविषमज्वरेण गृह्यते तत्क्षणाद् एव नश्यति नात्र संशयः ।
उओं बन्धुन क्षयं द्रीं द्रीं अमुकस्यात्मानं नित्यज्वरेण पत्त्रीबन्धनमात्रस्य स्फुर स्वाहा ।
इति नित्यज्वरशोधनपत्त्रिका ।
उओं क्षः स्वाहा ।
अनेन मन्त्रेण मन्त्रितं जलं भृशं कृत्वा ज्वरिताङ्गं सेचयेत् तेन ज्वरविमुक्तिर् भवति निश्चितम् ।
खरवाहनसिंहस्य क्रमाद् एवानुशासनम् ।
ऋक्षतुरगगतो वायुर् जीमूत इव गर्जितः ॥ उत्_9.26
रविवारे श्लोकम् इमं लिखित्वा शिरसि न्यसेत् ।
तेन स्थापितमात्रेण त्रैमासिकज्वरं हरेत् ॥ उत्_9.27
वानेयस्य बिडालस्य गृहीत्वा रुधिरं ततः ।
पद्मसूत्रोत्थवर्तिं च भावयेत् सप्तवारकम् ॥ उत्_9.28
शिवाग्रे तज्जतैलेन पातयेत् कज्जलं ततः ।
तेनाञ्जितलोचनस् तु अदृश्यो भवति ध्रुवम् ॥ उत्_9.29
हेभिरिहेभेरिहे ।
अनेनोदकम् आदायालोक्य सहस्रवारं परिजप्य अनेनैवाञ्जनेन त्रिरात्रेण सिद्धिः ।
पद्मसूत्रवर्तिकस्य तैलेन कज्जलं पातयेत् तेनाञ्जितनेत्रस् तु अदृश्यो भवति ।
ततो गोमूत्रेण चक्षुषी प्रक्षाल्य पुनः प्रत्यक्षो भवति ॥ उत्_9.30
अथ डाकिनीदमनमन्त्रः अक्षः क्षां क्षौकाजसिनौ देवता तत्त्वधूलिनी घोनाशालिनी भमन्त्रि बन्धुशनादैवतं लघुकण्टकेन पुरुम् अभिशासनो देवतां महाभैरव मण्डलम् अचल उओं च्छः च्छः च्छः डाकिनीमतबन्धु नमः ।
उओं नमो भगवते वज्राय चण्डेश्वराय ईं ईं फट् स्वाहा ।
इति सर्वभूतडाकिनीदमनमन्त्रः ।
दमन सर्पलङ्ग एभलिसिम् अजबन्धनिशि नागपाशम् अचलः इति दमनमन्त्रं बन्धनं च ।
उओं रंस्त्रीं शीघ्रं ह स्वाहा ।
त्रिपुरां सिन्दूरशङ्खचूर्णाभ्यां उदनालपत्त्रे लिखित्वा शोधयितव्यः स दिवसत्रयेण ज्वरेणागत्य मिलति ।
उओं अहोहः अमुकनम्नीं शीघ्रम् आनय स्वाहा इत्य् आकर्षणम् ॥ उत्_9.31
उओं स्त्रीं स्त्रीं वलीं वलीम् ईं अहः फट् स्वाहा ।
मज्जनस्वस्थो भवति ।
अप्सरणीं अमुकीं जीव ।
तेन अनेन मन्त्रेण सप्तवारं जलं प्रजप्य कामिन्यै पानार्थं दातव्यम् ।
उओं नमो जले मोहे कुले फलानि संकुले स्वाहा ।
अनेन मन्त्रेण सप्तवाराभिमन्त्रितं यस्य दीयते स वश्यो भवति ।
उओं नमो जले मोहे द्रां अब्जिनि फट् स्वाहा ।
अनेन मन्त्रेण प्रत्यूषे पानीयेन मुखं प्रक्षालयेत् सर्वजनप्रियो भवति सर्वसिद्धीश्वरो भवति ॥ उत्_9.32
उओं भूर् भुवः स्वः स्वाहा ।
ताम्बूलं मन्त्रयित्वा यस्य दीयते स वश्यो भवति ।
उओं नमो जले मोहे हन हन दह दह पच पच मथ मथ अमुकं मे वशम् आनय स्वाहा ।
अथ यक्षिणीमन्त्रसाधनं सुरसुन्दरीमनोहारिणीकनकावतीरतिकरीकामेश्वरीनट्यनुरागिणीपद्मिनी एता अष्टौ यक्षिण्यः कामनायां साधनम् ।
अथ सुरसुन्दरीसाधनम् उओं ह्रीं आगच्छ आगच्छ सुरसुन्दरि स्वाहा ।
वज्रपाणिगृहं गत्वा गुग्गुलधूपं दत्त्वा त्रिसंध्यं पूजयेत् सहस्रं त्रिसंध्यं मासपर्यन्तं जपेत् ततो मासाभ्यन्तरे प्रत्यक्षा भवति अन्तिमदिने रक्तचन्दनेनार्घ्यं दद्यात् ।
तत आगत्य माता भगिनी भार्या वा भवति तासां यानि कर्माणि तान्य् एव करोति ।
यदि माता भवति तदा सिद्धद्रव्याणि रसायनानि ददाति ।
यदि भगिनी भवति तदा पूर्ववद् अमूल्यं वस्त्रं ददाति ।
यदि भार्या भवति तदा सर्वम् ऐश्वर्यं परिपूरयति ।
परं तु वर्जनीयम् इहान्यया सह शयनं सा च मैथुनप्रिया भवति अन्यथा नश्यति ॥ उत्_9.33
अथ मनोहारिणीसाधनम् उओं हीं आगच्छ आगच्छ मनोहरि स्वाहा ।
इह नदीसंगमे गत्वा चन्दनेन मण्डलं कृत्वा अगुरुधूपं दत्त्वा सहस्रैकं मन्त्रं मासपर्यन्तं प्रत्यहं जपेत् ।
ततो मासान्ते चन्दनोदकेनार्घ्यं दद्यात् पुष्पफलेनैकचित्तेन तस्या अर्चनं कर्तव्यं ततो ऽर्धरात्रसमये नियतम् आगच्छति आगता सती तदाज्ञां करोति सुवर्णशतं तस्मै साधकाय प्रत्यहं ददाति ॥ उत्_9.34
अथ कनकावतीसाधनम् उओं ह्रीं कनकावति मैथुनप्रिये आगच्छ आगच्छ स्वाहा ।
वटवृक्षसमीपे स्थित्वा मद्यमांसादिनैवेद्यं तस्यै मूलमन्त्रेण दत्त्वा शेषं स्वयम् अप्य् अङ्गीकृत्य सहस्रम् एकं मूलमन्त्रं जपेत् ।
एवं सप्तदिनपर्यन्तं कुर्यात् ।
अष्टम्यां रात्राव् अर्धरात्रसमये वस्त्रालंकारभूषिता अष्टौ परिवारान् आदायोपगच्छति ।
आगता सा कामयितव्या भार्या वा भवति द्वादशजनानां वस्त्रालंकारभोजनं च ददाति अष्टौ कला नित्यं साधकाय प्रयच्छति ॥ उत्_9.35
अथ कामेश्वरीसाधनम् उओं हीं आगच्छ आगच्छ कामेश्वरि स्वाहा ।
इह गोरोचनया भूर्जपत्त्रोपरि स्त्रीरूपां प्रतिमां संलिख्य षोडशोपचारैः पञ्चोपचारैर् वा सम्पूज्य ततः शय्यायाम् एकाकी एकान्ते उपविश्य तन्मना भूत्वा सहस्रं जपेत् ततो मासान्ते तद्बुद्ध्या स्वकीयां भार्यां पूजयेत् ।
ततो मधुसर्पिर्भ्यां प्रतिरात्रं दीपं प्रज्वाल्य पश्चान् मौनं कृत्वा मूलमन्त्रं सहस्रसंख्यं जपेत् ।
ततो ऽर्धरात्रसमये नियतम् आगच्छति परं त्व् अन्याः स्त्रियो वर्जनीयाः ॥ उत्_9.36
अथ रतिप्रियासाधनम् उओं हीं आगच्छ आगच्छ रतिकरि स्वाहा ।
अत्र पटे चित्ररूपिणी लेख्या वस्त्रकनकालङ्कारभूषिता उत्पलहस्ता कुमरी जातीपुष्पैः प्रपूजनं कुर्यात् गुग्गुलेन धूपं दद्यात् ततो ऽष्टसहस्रं प्रत्यहं जपेत् ।
मासान्ते तु विधिवत् पूजनं कुर्यात् ।
धूपदीपौ प्रज्वालनीयौ ततो ऽर्धरात्रसमये ऽवश्यम् आगच्छति आगता सा स्त्रीभावेन कामयितव्या भार्या भवति साधकस्य परिवारं पालयति दिव्यं कामिकं भोजनं च ददाति ॥ उत्_9.37
अथ पद्मिनीसाधनम् उओं हीं आगच्छ आगच्छ पद्मिनि स्वाहा ।
स्वगृहे चन्दनेन मण्डलं कृत्वा शिरःस्थं कारयेत् गुग्गुलेन धूपं दत्त्वा सहस्रम् एकं प्रत्यहं जपेत् ततो मासान्ते पौर्णमास्यां रात्रौ विधिवत् पूजां कृत्वा जपेत् ।
जपान्ते ऽर्धरात्रसमये नियतम् आगच्छति आगता सा कामयितव्या भार्या भूत्वा सर्वकामप्रदा भवति रसं रसायनं सिद्धद्रव्यं प्रत्यहं साधकाय प्रयच्छति ॥ उत्_9.38
अथ नटीसाधनम् उओं ह्रीं आगच्छ आगच्छ नटि स्वाहा ।
अत्राशोकतले गत्वा मत्स्यमांसाद्याहारगन्धपुष्पादिधूपदीपबलिं दत्त्वा सहस्रं प्रत्यहं जपेत् ततः सा मासान्ते नियतम् आगच्छति आगता सा माता भगिनी भार्या वा भवति ।
यदि माता भवति तदा दिव्यं कामिकं भोजनं ददाति वस्त्रसुगन्धिसुवर्णशतं ददाति च ।
यदि भगिनी भवति तदा शतयोजनाद् उत्तमां स्त्रियम् आनीय ददाति ।
यदि भार्या भवति तदा दिव्यं वस्त्रं रसायनम् अष्टदिनान्तरेण ददाति ॥ उत्_9.39
अथानुरागिणीसाधनम् उओं ह्रीं अनुरागिणि आगच्छ आगच्छ स्वाहा ।
इह कश्मीरकुङ्कुमेन भूर्जपत्त्रे स्त्रीसदृशीं प्रतिमां विलिख्यावाहनादिकं कृत्वा गन्धपुष्पधूपदीपादिकं दत्त्वा ताम्बूलानि निवेद्य सहस्रं प्रत्यहं जपेत् ।
मासम् एकं त्रिसंध्यं जपेत् मासान्ते पौर्णमास्यां विधिवत् पूजां कृत्वा घृतदीपं प्रज्वाल्य समग्ररात्रौ मन्त्रं प्रजपेत् ।
ततः प्रभातसमये नियतम् आगच्छति आगता सा सर्वकामप्रदा भवति दिव्यरसायनानि ददाति प्रत्यहं च दीनाराणां सहस्रं ददाति ।
तस्याः प्रसादेन वर्षसहस्राण्य् आयुश् च भवति ॥ उत्_9.40
अथ षट्त्रिंशद् यक्षिण्यः ।
विचित्रा विभ्रमा हंसी भीषणी जनरञ्जिनी ।
विशाला मदना घण्टा कालकर्णी महाभया ॥ उत्_9.41
माहेन्द्री शङ्खिनी चान्द्री श्मशाना वटयक्षिणी ।
मेखला विकला लक्ष्मीर् मालिनी शतपत्त्रिका ॥ उत्_9.42
सुलोचना सुशोभाढ्या कपालिनी विशालिनी ।
नटी कामेश्वरी स्वर्णरेखा च सुरसुन्दरी ॥ उत्_9.43
मनोहरा प्रमोदानुरागिणी नखकेशिका ।
भामिनी पद्मिनी चैव स्वर्णावती रतिप्रिया ॥ उत्_9.44
षट्त्रिंशद् एता यक्षिण्यः कथिताः सिद्धिकामदाः ।
करङ्किणीमते तन्त्रे महादेवेन विस्तरात् ॥ उत्_9.45
आराधनं महत् तासां प्रवक्ष्यामि समासतः ।
फलं चैव यथा तुष्टाः प्रयच्छन्ति समाहितम् ॥ उत्_9.46
लक्षद्वयं जपेन् मन्त्रं वटवृक्षतले शुचिः ।
पश्चाच् चम्पकपुष्पैश् च होमं मधुघृतान्वितम् ॥ उत्_9.47
कुर्याद् दशांशतो मन्त्री शंकरेणोदितं यथा ।
ततः सिद्धा भवेद् देवि विचित्रा वाञ्छितप्रदा ॥ उत्_9.48
उओं विचित्रे चित्ररूपिणि मे सिद्धिं कुरु 2 स्वाहा ।
इति मन्त्रः ।
लक्षद्वयं जपेन् मन्त्रं श्मशाने निभृते निशि ।
घृताक्तैर् गुग्गुलैर् होमे दशांशेन कृते सति ॥ उत्_9.49
विभ्रमा तोषम् आयाति पञ्चाशन्मानुषैः समम् ।
ददाति भोजनं द्रव्यं प्रत्यहं शंकरो ऽब्रवीत् ॥ उत्_9.50
उओं ह्रीं विभ्रमे विभ्रमङ्गरूपे विभ्रमं कुरु 2 भगवति स्वाहा ।
प्रदेशे नगरस्याथ लक्षसंख्यं जपेन् मनुम् ।
पद्मपत्त्रैर् घृतोपेतैः कृते होमे दशांशतः ॥ उत्_9.51
प्रयच्छत्य् अञ्जनं हंसी येन पश्यति भूनिधिम् ।
सुखेन तं च गृह्णाति न विघ्नैः परिभूयते ॥ उत्_9.52
उओं द्रीं नमो हंसि हंसवाहिनी क्लीं क्लीं स्वाहा ।
त्रिपथस्थो जपेन् मन्त्रं लक्षसंख्यं दशांशतः ।
उओं श्रीं द्रीं वटवासिनि यक्षकुलप्रसूते वटयक्षिणि एह्य् एहि स्वाहा ।
मधूकवृक्षतले मन्त्रं चतुर्दशदिनावधि ।
प्रजपेन् मेखला तुष्टा ददात्य् अञ्जनम् उत्तमम् ॥ उत्_9.53
उओं द्रीं हुं मदनमेखलायै मदनविडम्बनायै नमः स्वाहा ।
गुहान्तःस्थो ऽधरे मासत्रयं मन्त्रं जपेन् नरः ।
ततः सिद्धा भवेद् देवि विकला वाञ्छितप्रदा ॥ उत्_9.54
ओं विकले ऐं ह्रीं श्रीं क्लीं स्वाहा ।
स्वगृहावस्थितो रक्तैः प्रसूनैः करवीरजैः ।
लक्षम् आवर्तयेन् मन्त्री दूर्वाज्याभ्यां दशांशतः ॥ उत्_9.55
होमे कृते भवेत् सिद्धा लक्ष्मीनम्नी च यक्षिणी ।
रसं रसायनं दिव्यं निधानं च प्रयच्छति ॥ उत्_9.56
उओं ऐं ह्रीं श्रीं लक्ष्मि कमलधारिणि हंसः सो ऽहं स्वाहा ।
चतुष्पथस्थितो लक्षम् आपदि प्रजपेन् मनुम् ।
मालिनी जायते सिद्धा दिव्यं खङ्गं प्रयच्छति ॥ उत्_9.57
यत् प्रभावेन लोके ऽस्मिन् दुर्लभं राज्यम् आप्नुयात् ।
उओं द्रीं उओं नमो मालिनी स्त्रि एह्य् एहि सुन्दरि हंसहंसि समीहां मे सङ्गभय स्वाहा ।
शतपत्त्रवने यस् तु मन्त्रलक्षं जपेन् मुनिः ।
क्षीराज्यहोमैः संसिद्धा सिद्धिं यच्छति भूनिधिम् ॥ उत्_9.58
उओं द्रीं शतपत्त्रिके द्रीं द्रीं श्रीं स्वाहा ।
नदीतीरस्थितो लक्षत्रयं मन्त्री जपेन् मनुम् ।
घृतहोमे दशांशेन कृते देवी प्रसीदति ॥ उत्_9.59
ददाति पादुकां तस्मै यथारुचि नभस्तले ।
मनःपवनवेगेन याति चायाति साधकः ॥ उत्_9.60
उओं द्रीं क्लीं सुलोचने सिद्धिं मे देहि देहि स्वाहा ।
रक्ताम्बरधरो मन्त्री चतुर्दशदिनावधि ।
जपेत् सिद्धा भवेद् देवी शोभना भोगदायिनी ॥ उत्_9.61
उओं द्रीं अशोकपल्लवकरतले शोभने श्रीं क्षः स्वाहा ।
महाव्रतधरो मन्त्री यः शाल्योदनभोजनैः ।
लक्षद्वयं जपेन् मन्त्रं कपालं लभते मुनिः ॥ उत्_9.62
आकाशगमनं दूरात् स्वप्नरूपसमागमः ।
दूराद् दर्शनम् इत्यादि साधकाय प्रयच्छति ॥ उत्_9.63
उओं ऐं कपालिनी द्रां द्रीं क्लां क्लीं क्लूं क्लैं क्लौं क्लः हंसः सो ऽहं सकलह्रीं फट् स्वाहा ।
सरित्तीरे जपेन् मन्त्रम् अर्धं लक्षस्य देशिकः ।
घृताक्तगुग्गुलैर् होमे देवी सौभाग्यदा भवेत् ॥ उत्_9.64
ओं वरयक्षिणी वरयक्षविशालिनि आगच्छ 2 प्रियं मे भवतु हैमे भव स्वाहा ।
पुण्याशोकतलं गत्वा चन्दनेन सुमण्डलम् ।
कृत्वा चाभ्यर्चयेद् देवीं धूपं दत्त्वा सहस्रकम् ॥ उत्_9.65
मन्त्रम् आराधयेन् मासं नक्तंभोजी रसः सदा ।
रात्रौ पूजां शुभां कृत्वा जपेन् मन्त्रं मुनिव्रतः ॥ उत्_9.66
नटी देवी समागत्य निधानं रसम् अञ्जनम् ।
ददाति मन्त्रिणे मन्त्रं दिव्ययोगं च सिद्धिदम् ॥ उत्_9.67
उओं द्रीं नटि महानटि रूपवति द्रीं स्वाहा ।
एकासने शुचौ देशे त्रिसंध्यं त्रिसहस्रकम् ।
मासम् एकं जपेन् मन्त्रं तदा पूजां समारभेत् ॥ उत्_9.68
पुष्पैर् धूपैश् च नैवेद्यैः प्रदीपैर् घृतपूरितैः ।
रात्रौ देवीं समभ्यर्च्य जपेन् मन्त्रं प्रसन्नधीः ॥ उत्_9.69
अर्धरात्रे गते देवी समागत्य प्रयच्छति ।
रसं रसायनं दिव्यं वस्त्रालंकरणानि च ॥ उत्_9.70
उओं ह्रीं आगच्छ आगच्छ कामेश्वरि स्वाहा ।
नदीतीरे शुभे रम्ये चन्दनेन सुमण्डलम् ।
विधाय पूजयेद् देवीं ततो मन्त्रायुतं जपेत् ॥ उत्_9.71
एकविंशतिघस्रान्तं प्रसन्ना वितरेत् सदा ।
अर्धरात्रे गते देवी दीनाराणां सहस्रकम् ॥ उत्_9.72
ददाति प्रत्यहं तस्मै व्ययं कुर्याद् दिने दिने ।
तद्व्ययाभावतो भूयो न ददाति प्रकुप्यति ॥ उत्_9.73
उओं हीं सर्वकामदे मनोहरे स्वाहा ।
अर्धरात्रे समुत्थाय सहस्रं प्रजपेन् मनुम् ।
मासम् एकं ततो देवी निधिं दर्शयति ध्रुवम् ॥ उत्_9.74
ओं ह्रीं प्रमोदायै स्वाहा ।
कुङ्कुमेन समालिख्य भूर्जे देवीं सुलक्षणाम् ।
प्रतिपत्तिथिम् आरभ्य धूपदीपादिभिर् वराम् ॥ उत्_9.75
कृत्वा देवीं सहस्रं च त्रिसंध्यं परिवर्तयेत् ।
मासम् एकं ततः पूजां रात्रौ कृत्वा पुनर् जपेत् ॥ उत्_9.76
अर्धरात्रे गते देवी समागत्य प्रयच्छति ।
दीनाराणां सहस्रैकं प्रत्यहं परितोषिता ॥ उत्_9.77
उओं अनुरागिणि मैथुनप्रिये यक्षकुलप्रसूते स्वाहा ।
गत्वा पक्षिगृहं मन्त्री नखकेशैः प्रपूजयेत् ॥ उत्_9.78
दिनैकविंशतिर् यावत् पूजां कृत्वा ततो निशि ।
आवर्तयेद् एकचित्तो मन्त्री मन्त्रं सुसंयतः ॥ उत्_9.79
निशार्धे वाञ्छितं कार्यं देव्य् आगत्य प्रयच्छति ।
उओं हीं नखकेशिके स्वाहा ।
दिनत्रयम् अनाहरी सोमसूर्यग्रहे सति ॥ उत्_9.80
स्पर्शाद् विमुक्तिपर्यन्तं जपेत् तद्गतमानसः ।
ततः प्रसन्ना सा देवी यच्छत्य् अञ्जनम् उत्तमम् ॥ उत्_9.81
तेनाञ्जितो नरो ऽदृश्यं निधिं पश्यति भूगतम् ।
उओं हीं यक्षिणि भामिनि रतिप्रिये स्वाहा ।
वटवृक्षतले कृत्वा चन्दनेन सुमण्डलम् ॥ उत्_9.82
यक्षिणीं पूजयित्वा तु नैवेद्यम् उपदर्शयेत् ।
शशमांसं घृतं चीरं मन्त्रम् आवर्तयेत् ततः ॥ उत्_9.83
दिने दिने सहस्रैकं यावत् सप्तदिनं भवेत् ।
अथागत्य सदा तस्मै मन्त्रम् अञ्जनमुत्तमम् ॥ उत्_9.84
यत्प्रभावान्तरे सर्वं पश्येन् निधिम् अशङ्कितः ।
उओं ह्रीं आगच्छ 2 स्वर्णावति स्वाहा ।
शङ्खलिप्तपटे यस्माद् देवीं गौरीं धृतोत्पलाम् ॥ उत्_9.85
सर्वालंकारिणीं दिव्यां समालिख्यार्चयेन् नरः ।
जातीपुष्पैः प्रपूज्याथ सहस्रं परिवर्तयेत् ॥ उत्_9.86
सप्ताहं मन्त्रवित् तस्याः कुर्याद् अर्चां शुभां ततः ।
अर्धरात्रे गते देवी समागत्य प्रयच्छति ॥ उत्_9.87
पञ्चविंशतिदीनारान् प्रत्यहं परितोषिता ।
वाञ्छितं मनसस् तस्मै मन्त्रज्ञाय न संशयः ॥ उत्_9.88
उओं उओं हीं रतिप्रिये स्वाहा ।
उड्डामरेश्वरतन्त्र, दशमः पटलः
तत्र चेटकसाधनम् ।
अथ चेटका लिख्यन्ते ।
कामातुरेण चित्तेन निशि मन्त्रं जपेत् सदा ।
जप्तो ऽवश्यं वश्यकरो मन्त्रो ऽयं नात्र संशयः ॥ उत्_10.1
ओं ऐं स्कीं क्लीं क्लीं सहवल्लरि क्लीं कामपिशाच क्लीं ह्रीं कामपिशाच अमुकीं कामिनीं कामयाम्य् अहं तां कामेन ग्राहय 2 स्वप्ने मम रूपे नखैर् विदारय 2 द्रावय 2 अस्त्रेण बन्धय 2 श्रीं फट् स्वाहा ।
मूल पाठ: Uḍḍāmareśvaratantra · Edition: J.D. Zadoo Srinagar: The Normal Press, 1947 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0