उड्डामरेश्वरतन्त्र · भाग 2130
जपेन् मासत्रयं मन्त्रं कम्बलः सुप्रसन्नधीः ।
मृतकोत्थापनं कुर्यात् प्रतिमां चालयेत् तथा ॥ उत्_10.2
सदारक्तकम्बल महादेवदूत मृतकम् उत्थापय 2 प्रतिमां चालय 2 पर्वतान् कम्पय 2 लीलया विलसय 2 ईं ईं फट् स्वाहा ।
चतुर्लक्षं जपेन् मन्त्रं सागरस्य तटे शुचिः ।
पत्त्रपुष्पफलादीनि करोत्य् आकर्षणं ध्रुवम् ॥ उत्_10.3
अभय घुद्घुताकर्ष कर्मकर्ता सृष्टिपुत्र अमुकम् आकर्षय द्रीं ।
सहस्राष्टम् इमं मन्त्रं जपेत् सप्तदिनावधि ।
प्रत्यहं मणिभद्राख्यः प्रयच्छत्य् एकरूप्यकम् ॥ उत्_10.4
ओं नमो मणिभद्राय नमः पूर्णभद्राय नमो महायक्षाय सेनाधिपतये मौद्धमौद्धधराय सुघटमुद्रावहे स्वाहा ।
त्रिसंध्यं बलिदानं च निशायां प्रजपेन् मनुम् ।
सहस्रं हि जपेन् नित्यं यावत् स्वप्नं प्रजायते ॥ उत्_10.5
प्राणिनां मृत्युसमयं वदत्य् एव न संशयः ।
ओं नमो भगवते रुद्राय देहि मे वचनसिद्धिविधानं पार्वतीपते ह्रां ह्रीं हूं ह्रें ह्रौं ह्रः ।
रात्रौ रात्रौ जपेन् मन्त्रं सागरस्य तटे शुचिः ।
लक्षजापे कृते सिद्धो दत्ते सागरचेटकः ॥ उत्_10.6
रत्नत्रयं तदा मौन्यं यस्मिन् मन्त्री सुखी भवेत् ।
सहस्रदशकं नित्यं रात्रौ मन्त्रं जपेत् सुधीः ॥ उत्_10.7
तद्दशांशं मधुपयोमिश्रैः पद्मैश् च होमयेत् ।
ओं नमो भगवते रुद्र देहि मे निजराशिं श्रीं नमो ऽस्तु ते स्वाहा ।
ओं ह्रीं अमुकं रञ्जय स्वाहा ।
अनेन मन्त्रेण सर्वजनास् तस्मात् तु रञ्जका भवन्ति निशाचरं ध्यात्वा आत्मपाणिना जपनाद् अदृश्यकारिणीं विद्याम् आप्नोति ॥ उत्_10.8
ओं नमो रसाचारिणे महेश्वराय मम पर्यटने सर्वलोकलोचनानि बन्धय 2 देव्य् आज्ञापयति स्वाहा ।
सकृद् उच्चारमात्रेण नृसिंहचेटकाख्यो मन्त्रो डाकिन्यादिदोषं नाशयति ।
ओं नमो भगवते हिरण्यकशिपुबलविदारणाय त्रिभुवनव्यापकाय भूतप्रेतपिशाचकूष्माण्डब्रह्मराक्षसयोगिनीडाकिनीकुलोन्मूलनाय स्तम्भोद्भवाय समस्तदोषान् नाशय 2 विसर 2 कम्पय 2 मथ 2 हूं हृं स्वाहा एह्य् एहि रुद्र आज्ञापयति स्वाहा ।
प्रेरकः सहस्रपादः अनिद्राम् आकर्षयति ।
ओं प्रेरक अमुकीं तव मण्डलं समावर्तय द्रावय दाहय संतापय हौं ॥ उत्_10.9
उड्डामरेश्वरतन्त्र, एकादशः पटलः
अथ दिग्बन्धनमन्त्रः ।
वज्रक्रोधाय महादन्ताय दशदिशो बन्ध बन्ध हं फट् स्वाहा ।
अथ योनिसंकोचनम् ।
कुमुदं हरितालं च पिष्ट्वा योनिं प्रलेपयेत् ।
त्रिरात्रं पञ्चरात्रं च योनिर् भवति संयुता ॥ उत्_11.1
मांसी चन्दनमुस्ता च तगरं नागकेसरम् ।
एभिर् मासप्रयोगं च भगलेपनम् उत्तमम् ॥ उत्_11.2
मालतीकुसुमैस् तैलैर् वल्कैर् वराङ्गलेपनम् ।
ऋतुकाले ऽथवा कुर्यात् तदा तत्तुल्यता भवेत् ॥ उत्_11.3
डिम्बस्यानीय पञ्चाङ्गं सर्षपतैलपाचितम् ।
सततम् अभिलेपेन सा भर्तारं वशं नयेत् ॥ उत्_11.4
मूलं तु वानरीशृङ्गं छागीमूत्रेण लेपयेत् ।
लेपनात् तु ततः शिश्नं यथेच्छं कामयेद् बलात् ॥ उत्_11.5
सौभाग्यपिप्पली लाक्षा विषं च क्रमवर्धितम् ।
लेपं प्रक्षालितं लिङ्गं नारी कामयते चिरात् ॥ उत्_11.6
पारावतं तथा गुञ्जा श्वेतोत्पलं समक्षिकम् ।
नाभिलेपनम् इत्य् उक्तं वीर्यस्तम्भकरं परम् ॥ उत्_11.7
द्वादशारं लिखेच् चक्रं कुङ्कुमेन समन्वितम् ।
भूर्जपत्त्रे ऽथवा वस्त्रे नेत्रे बद्धफलादिके ॥ उत्_11.8
पत्त्रे पत्त्रे लिखेद् बीजं ह्रींकारं परमोज्ज्वलम् ।
साध्यनाम तथा मध्ये कर्णिकायां विशेषतः ॥ उत्_11.9
विदर्भमन्त्रमुख्येन तत्कूटं परिमण्डले ।
मृत्तिकाभिः समस्ताभिः प्रतिमां कारयेद् दृढम् ॥ उत्_11.10
कर्षयेत् प्रमदां नॄणां गर्वितां तु न संशयः ।
वैराग्यं न पुनर् याति दासीभावेन तिष्ठति ॥ उत्_11.11
दाडिमं पञ्चकोलं च लोहं वज्रोरसं घृतम् ।
चूर्णं भूमन्दरा शाखा दन्तनखं करोति वै ॥ उत्_11.12
मनःशिला प्रयङ्गुश् च रोचना नागकेसरम् ।
नेत्राञ्जनसमायुक्तं सर्वसत्त्ववशंकरम् ॥ उत्_11.13
उड्डामरेश्वरतन्त्र, द्वादशः पटलः
ओं ह्रीं श्रीं क्लीं द्रं चण्डोग्रे त्रिनेत्रे चामुण्डे अरिष्टे हूं फट् स्वाहा ।
ह्रीं नमाम्य् अहं महादेवं नृसिंहं भीमरूपिणम् ओं नमस् तस्मै ।
श्रीपार्वत्य् उवाच ।
उड्डीशेन समाकीर्णे योगिवृन्दसमाकुले ।
प्रणम्य शिरसा गौरी परिपृच्छति शंकरम् ॥ उत्_12.1
श्रीश्वर उवाच ।
शृणु त्वं हि वरारोहे सिद्ध्यर्थं प्रतिवाससे ।
तं वदिष्यामि ते देवि सर्वं तत् समुपाहृतम् ॥ उत्_12.2
देवि यो द्विजो मन्त्रैस् तु विप्रहन्यान् न संशयः ।
पूर्वोदितं मयोड्डीशं कथ्यते तव भक्तितः ॥ उत्_12.3
उड्डीशं च नमस्कृत्य रुद्रं चैव सुदुर्जयम् ।
कपर्दिनं विरूपाक्षं सर्वभूतभयावहम् ॥ उत्_12.4
प्रथमं भूतकरणं द्वितीयोन्मादनं तथा ।
तृतीयं द्वेषणं चैव तुर्यम् उच्चाटनं तथा ॥ उत्_12.5
ग्रामोच्चाटं पञ्चमं च षष्ठं च जलस्तम्भनम् ।
सप्तमम् अग्निस्तम्भं च वशीकरणम् अष्टमम् ॥ उत्_12.6
अन्यान् अपि प्रयोगांश् च शृणुष्व वै वरानने ।
शिवेन कथिता योगा उड्डीशे शास्त्रनिश्चये ॥ उत्_12.7
अन्धी च वन्धीकरणं मूकीकारस् तथैव च ।
गात्रसंकोचनं चैव भूतज्वरकरस् तथा ॥ उत्_12.8
अस्त्रशस्त्रस्य त्रुटितं पानीयस्य विनाशनम् ।
दधिमधुनाशनं च नखकरणं तथैव च ॥ उत्_12.9
गजानां वाजिनां चैव प्रकोपनं परस्परम् ।
आकर्षणं भुजंगानां मानवानां तथा ध्रुवम् ॥ उत्_12.10
सस्यविनाशनं चैव गर्भस्यान्तर्धिकारणम् ।
वेतालाञ्जनसिद्धिश् च उलूकसिद्धिर् अपि हि ॥ उत्_12.11
अन्यान् अपि महारौद्रान् प्रयोगान् शृणु साम्प्रतम् ।
विद्यामन्त्रप्रयोगांश् च औषधं चाभिचारिकम् ॥ उत्_12.12
गुप्ता गुप्ततराः कार्या रक्षितव्याः प्रयत्नतः ।
अकुलीनाधमबुद्धेर् भक्तिहीनस्य वै तथा ॥ उत्_12.13
हिंसकस्य च क्षुद्रस्य निन्दकस्य विशेषतः ।
स्वार्थं फलादिलुब्धस्य उपदेशम् अमन्यतः ॥ उत्_12.14
अस्मिन् शापे पूरुषास् ते वर्जनीयाः प्रयत्नतः ।
एतैश् च सह संयोगो न कार्यः सर्वदा बुधैः ॥ उत्_12.15
य उड्डीशक्रियाशक्तिभेदं कुर्वन्ति मोहिताः ।
ते दुष्टा दुर्जयाश् चैव किम् अत्र बहुभाषितैः ॥ उत्_12.16
यदीच्छासिद्धिम् आत्मानम् आत्मार्थं हि तथैव च ।
सत्पूरुषाय दातव्यं देवगुरुरताय च ॥ उत्_12.17
प्रयोगास् तु प्रयोक्तव्याः साधकैः शत्रुकारणे ।
अनिमित्ता निवर्तन्ते स्वात्मग्राहे न संशयः ॥ उत्_12.18
असंतुष्टो ह्य् अयुक्तश् च प्रयोगान् इति नाचरेत् ।
शास्त्रसिद्धविचारास् तु सामन्तकोषकाः शुभाः ॥ उत्_12.19
ओं ग्लौं गं गणेशाय नमः ।
मन्त्रेणानेन मन्त्रज्ञः कुम्भकारमृदा तथा ।
लम्बोदरं प्रकुर्वीत पूजयेद् उपचारकैः ॥ उत्_12.20
साप्ताहिकं त्रिसंध्यायां जप्तव्यं सावधानतः ।
सहस्रैकप्रमाणेन जपाच् छान्तिर् भविष्यति ॥ उत्_12.21
प्रातर् अष्टोत्तरं जप्त्वा लभेद् बुद्धिं शुभां नरः ।
मासेनैकेन देवेशि श्रीलाभश् च भवेद् ध्रुवम् ॥ उत्_12.22
षण्मासेन वरारोहे महाधनपतिर् भवेत् ।
त्रिकालज्ञानवेत्ता च वर्षैकेन न संशयः ॥ उत्_12.23
ऐं नमः स्वाहा ।
प्रातः सहस्रवारं तु प्रजप्तेन प्रपूजयेत् ।
वरदां तु महादेवीं श्वेतगन्धानुलेपनैः ॥ उत्_12.24
पुष्पैर् जापैर् दक्षिणादिसोपचारैस् तु प्रत्यहम् ।
सप्तमे दिवसे ह्य् एवं वागैश्वर्यं प्रजायते ॥ उत्_12.25
भवेत् सद्यः प्रवक्ता च श्रुतिस्मृतिधरो ऽपि च ।
बान्धवः सर्वभूतानां चिरायुः सुखम् एधते ॥ उत्_12.26
ओं क्लीं मन्त्रेणानेन देवेशि साधकः जपम् आरभेत् ।
रक्तवस्त्रावृतो नित्यं तथा कुङ्कुमजाङ्गले ॥ उत्_12.27
सप्ताहजपमात्रेण ह्य् आनयेत् त्रिदशाङ्गनाम् ।
ओं द्रीं द्रीं द्रीं द्रीं स्वाहा ।
पूर्वविधानो हि जपेद् एकान्तसंस्थितः ॥ उत्_12.28
आकर्षेति स्त्रियं शस्तां सालंकारां सुवाससम् ।
ओं हैं हः हुं ।
ऊर्ध्वदृष्टिप्रयोगेण जपेल् लक्षत्रयं प्रिये ॥ उत्_12.29
सर्वपापविनिर्मुक्तो जायते खेचरे पदे ।
ओं द्रीं कारीण्डः क्षः क्षीं फट् स्वाहा ।
एकपादस्थितो भद्रे जपेद् अष्टोत्तरं शतम् ॥ उत्_12.30
यद् यत् प्रार्थयते वस्तु तद् ददाति दिने दिने ।
यजेन् नरविशेषं च देवाग्निगुरुब्राह्मणैः ॥ उत्_12.31
ओं श्रीं क्षीं लोहं मुञ्च किलि किलि अमुकं काटय काटय मातंगिनि स्वाहा ।
मन्त्रेणानेन पूर्वाह्णे पूजयन्न् उपचारकैः ।
शरावं पूरयित्वा तु चतुष्पथे बलिं हरेत् ॥ उत्_12.32
समन्त्रं क्षिप्यति पुमान् पुरुषं यदि पश्यति ।
आत्मचिन्तितकार्याणि साधयत्य् एव नान्यथा ॥ उत्_12.33
ओं स्तम्भिनि स्वाहा कपालिनि स्वाहा द्रीं द्रीं वैषादार्थिनि स्वाहा छः छः ।
मन्त्रेण मृत्तिकां जप्त्वा प्रतार्य सप्तधा जले ।
संमुखीभूय क्षिप्त्वा च जप्त्वा चायुतं वासरे ॥ उत्_12.34
तेन सिद्धो भवेन् मन्त्रः साधकस्य न संशयः ।
ओं श्रीं क्षां क्षीं क्षूं क्षैं क्षौं क्षः ।
मध्याह्नसमये सूर्यसम्मुखे जपम् आचरेत् ॥ उत्_12.35
अयुतं जप्तमात्रेण स्वसामर्थ्यं प्रपश्यति ।
तस्य दृष्टिनिपातेन द्विपदश् च चतुष्पदः ॥ उत्_12.36
ज्वराभिभूता जायन्ते अपूर्वा मन्त्रसम्पदः ।
ओं हंसः हंसं सो ऽहं स्वाहा ।
एकविंशतिजप्तेन जलेन ज्वरपीडितः ॥ उत्_12.37
विमुच्यते पानमात्रात् सद्यः स्वस्थश् च जायते ।
ओं द्रीं नमो घोरेश्वरि घोरमुखि चामुण्डे ऊर्ध्वकेशि विकृतानने द्रीं द्रीं हुं फट् हुं स्वाहा ।
अयं सर्वदलनमन्त्रः ॥ उत्_12.38
ओं द्रीं द्रीं द्रीं फट् फट् फट् स्वाहा सर्वग्रहाणां त्रासनं कुरु कुरु अङ्गुलिप्रहारेण ।
ओं स्रं स्रां स्रिं स्रीं स्रुं स्रूं स्रें स्रैं स्रों स्रौं स्रं स्रः ह रं रौं रीं रूं रैं रेविः छुं छुं हंसः अमृतवर्चसे स्वाहा ।
अनेन मन्त्रेणोदकं शरावं संक्षिप्याष्टोत्तरशतेनाभिमन्त्रितं कृत्वा पिबेत् प्रातर् उत्थाय संवत्सरेण वल्लीपलितवर्जितो भवति ।
वृक्षस्थावरजङ्गमाकृतिं समाङ्गीकाराच् च व्याघ्रलोमादिकं पूर्वोदर्यां भस्मीकरोति सर्वजनप्रियो भवति चिरायुर् भवति ।
ओं नमो भगवते रुद्राय चण्डेश्वराय हुं हुं हुं फट् स्वाहा ।
अनेन मन्त्रेण जपं कृत्वा शीघ्रम् ईप्सितं लभेत् ॥ उत्_12.39
ओं हूं द्रीं क्षं क्षां क्षिं क्षीं क्षुं क्षूं क्षें क्षैं क्षों क्षौं क्षं क्षः हूं फट् स्वाहा ।
इमं मन्त्रं पूर्वं लक्षम् एकं जपेत् तद्दशांशम् अयुतं हवनं कुर्यात् ।
एकैकं समिधं घृताक्तां जुहुयात् सिद्धो भवति गङ्गागोलोके न ते मेघाः प्रणश्यन्ति न च वर्षन्ति वासवो नदसमुद्रं शोषयति मेघस्तम्भो भवति ।
उदकमध्ये स्थित्वा जपं करोत्य् अनावृष्टिकाले ऽतिवृष्टिं करोति ।
ओं द्रीं प्रचलिते कुबेरे हूं हूं किलि किलि स्वाहा ।
पूर्ववेलायाम् आदर्शदीपसमीपे षडङ्गुलेन भाजने सूर्यमण्डले कुमारं वामे वेशयति पूर्वम् अयुतजपः कर्तव्यः पञ्चोपचारेण पूजा च कर्तव्या पूर्वाभिश् च स्वराज्ये ।
ओं श्रीं हिमजाते प्रयच्छ मे धनं स्वाहा ।
अनेन मन्त्रेण सिद्धार्थकं घृतमिश्रितं हुनेत् अष्टोत्तरशते न अन्नपानविमिश्रितं सहस्रेण हुनेत् मनसः प्रार्थितं लभेत् अयुतं हुनेच् छ्रीसुमना भवेत् लक्षं हुनेद् ग्रामशतं लभेत् ॥ उत्_12.40
ओं नमो नमः ।
इमं मन्त्रं शतं जपेत् सर्वकामप्रदो ऽयं मन्त्रः ॥ उत्_12.41
ओं द्रीं श्रीं सारसे सिद्धिकरि क्रीं नमः स्वाहा ।
इमं मन्त्रं लक्षम् एकं जपेद् रक्तकरवीरैश् च पूजयेत् सततं सर्वकामदो ऽयं मन्त्रः ॥ उत्_12.42
ओं द्रुं क्षें क्षें हुं क्षः अमुकं क्षः स्वाहा ।
अनेन मन्त्रेण राजिकालवणतुषकण्टकशिवनिर्माल्यं तैलेन युतं हुनेत् समस्तश्रीभाजनं भवति ॥ उत्_12.43
ओं हुं हुं हुं लूं लं लौं हुं लः अमुकं छः छः स्वाहा ।
अनेन मन्त्रेण सिद्धार्थं भस्मना सह मन्त्रितं कर्तव्यं यस्य गृहे प्रक्षिप्य मन्त्रबलिपांश्वैर् आक्षिपेत् तस्य बाहुस्तम्भो भवति ।
रिपुसैन्याग्रे क्षिपेत् शत्रुसैन्यस्तम्भो भवति अश्वगजनरा निश्चेष्टा भवन्ति विकला भवन्ति समन्तादेवाकुला भवन्ति ॥ उत्_12.44
ओं रुं रुं मुखे स्वाहा ।
अनेन मन्त्रेण जप्ततैलेन मुखं प्रक्षाल्य तिलतैलेन गात्राभ्यङ्गं वा विधाय वातादिकं दिनसप्तकेन नश्यति ।
ऐं मातंगि विमलावति विकराले द्रीं छः छः स्वाहा ।
अनेन मन्त्रेण जपापुष्पं परिजप्य वारीणि नद्यादौ होमयेत् सप्ताहेन ईप्सितं फलं लभेत् ।
कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रभृत् ।
तन्नामकीर्तनाद् एव हृतं नष्टं च लभ्यते ॥ उत्_12.45
नित्यं नित्यं जपेत् किंचिद् विद्यां वित्तस्य प्राप्तये ।
ओं मं किणि स्वाहा ।
इति वृश्चिकमन्त्रः ।
ओं हुं हुं हंसः हंसं सो ऽहं सो ऽहं स्वाहा ।
इति सर्वविषापहरणमन्त्रः ।
मयूरपिच्छेन कुशेन शरेण शरदण्डेन वा तद्देहे सम्मार्जनं कुर्यात् ।
हं हां हिं हीं हुं हूं हें हैं हों हौं हं हः छः छः स्वाहा ।
इमं गोक्षीरसदृशं वारं वारं विचिन्तयेद् वा वराननमुखे शिरसि शरीरे ततः कण्ठे ततो हृदि नाभिमण्डले गुह्ये तथा सर्वाङ्गे चिन्तयेत् तथा पूरकेण वरारोहे कण्ठदष्टो ऽपि जीवति ।
ओं गं गणपतये महागणपतये विघ्नहराय मतंगसम्भवाय लम्बोदराय गौरीप्रियपुत्राय ह्रीं गां नमः रं हं क्षः स्वाहा ।
गोरोचनाविषराजिकापिप्पलीनीचयवैर् महातैलेन सह देवदत्तैश् च लक्षितान् आलिखेत् निम्बकाष्ठेन प्रतिकृतिं हुत्वा पृष्ठतो लिखेत् सद्यो ज्वरविलोपो भवति शान्तिर् भवति ॥ उत्_12.46
उड्डामरेश्वरतन्त्र, त्रयोदशः पटलः
ओं द्रीं विद्यास्तम्भिनि स्तम्भिनि छः छः स्वाहा ।
इमं मन्त्रं प्रथमम् अयुतम् एकं जपेत् पश्चान् मनसा संस्मरेत् ।
वनमध्ये ऽपि भोजनं प्राप्नोति ।
ओं हौं नमो भगवते महारुद्राय उड्डामरेश्वराय हुं हुं छं छं द्रीं द्रीं स्वाहा ।
अनेन मन्त्रेणाभिषेकार्थं सहस्रवारजप्तं कलशं कारयेत् तन्मध्ये पञ्चरत्नं निधाय श्वेतवस्त्रेण वेष्टयेत् नानाफलसुसंचूर्णं नानारत्नोपशोभितं तद्द्वारकगृहवासं कलशं धृत्वा रात्रौ स्त्रिया सह श्मशाने वनस्पतौ वा एकवृक्षे वा सरित्तटे समुद्रगामिन्यां नद्यां वा चतुष्पथे वा गच्छेत् ।
ततश् च कलशं नीत्वा स्त्री वन्ध्या वा मृतवत्सा वा दुर्भगा वा काकवन्ध्या वा भङ्गा सर्वजनप्रिया भवति पीडिता उद्वर्तयेत् ।
प्रियङ्गुः कुङ्कुमं गोरोचना नागकेसरो दूर्वा हरिद्रे द्वे सिद्धार्थकद्वयं वचा पुनर्नवापामार्गो ऽर्कश् चित्रकं शाल्मली लक्ष्मणा तालमूली शतावरी वन्ध्या कर्कटी बला क्षीरिणी मृगपिप्पली तथा चिराणि सुपत्त्राण्य् उशीरं घृतं मधु तथा पलाशपुष्पपत्त्राणि अम्बरबिल्वपत्त्राण्य् अश्वगन्धादीनि सुगन्धद्रव्याणि सर्वाणि सर्वे साध्यविशेषतः अन्यद् उद्वर्तयेद् गात्रं शिरोलेपनो यः पुनः कलशं प्रक्षिप्य स्नापयेत् लभते स्त्रियं सदा उद्वर्तनवस्त्रं त्यक्त्वा परवस्त्रपरिधानं कुर्यात् ।
भद्रासने व्यवस्थिता [... औ4 zएइछेन्झ्] कुर्याद् वारि निःक्षिप्य कुम्भस्थितं या स्त्रीणां मध्ये समाकर्षयति यन्त्रं ततस् तां सम्मुखस्त्रियम् अर्चयेत् ।
वस्त्रालंकारसिन्दूरसुगन्धिकुसुमादिभिः ।
गृहार्चां कारयेद् देवं शिवं देव्या सहार्चयेत् ॥ उत्_13.1
दक्षिणां स पुमान् दद्यात् श्वेतां गां वत्ससंयुताम् ।
अथ स्नानफलं वक्ष्ये यथोक्तं त्रिपुरारिणा ॥ उत्_13.2
पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम् ।
शान्त्यर्थी शान्तिम् आप्नोति दुर्भगा सुभगा भवेत् ॥ उत्_13.3
भ्रष्टराज्यस् तथा राजा राज्यं प्राप्नोति निश्चितम् ।
अभार्यो लभते भार्यां सुखार्थी सुखम् आप्नुयात् ॥ उत्_13.4
इति स्त्रीपुरुषयोः स्नानफलम् ॥ उत्_13.5
हुं अमुकं हुं फट् स्वाहा ।
श्मशाने गत्वा उलूककपोतकाञ्जीराणाम् अतिसत्वरं स्तन्यं गृहीत्वा जपेत् सप्ताहेन ॥ उत्_13.6
हुं अमुकं फट् फट् स्वाहा अनेन मन्त्रेण भानुवृक्षसमीपे स्थित्वायुतैकं जपेत् ततः कटुतैलेन दशांशेन हवनं कुर्यात् निपातीकरणं भवति ॥ उत्_13.7
ओं ओं ओं इति मन्त्रं पूर्वम् अयुतं जप्त्वानावृष्टिकाले जपेन् महावृष्टिर् भवति ।
ओं ह्रीं वरदे स्वाहा ।
इमं मन्त्रं पूर्वम् अयुतं जप्त्वा तद्दशांशं पलाशसमिद्भिर् हवनं कुर्यात् घृतं हुनेत् ततः सार्वकालिकं फलं लभेत् ।
हुं हुं हुं नं नं नं अमुकं हुं फट् स्वाहा ।
इमं मन्त्रं पूर्वम् अयुतं जप्त्वा खादिरसमिधो रुधिरेण लिप्त्वा तद्दशांशं हुनेत् यस्य नाम्ना स सहस्रैकेन महेन्द्रज्वरेण गृह्यते अयुतहवनेन निपातनं तथानेनैव मन्त्रेणापामार्गसमिधो हुनेत् अयुतसंख्यकाः त्रिमधुयुताः ततो विभीषणादयो राक्षसा वरदा भवन्ति ॥ उत्_13.8
ओं हूं वां वीं वूं वैं वौं वं वः ओं हुं फट् स्वाहा ।
अयं ज्वरग्रहणमन्त्रः ॥ उत्_13.9
ओं ऐं क्षिलि किलि फट् स्वाहा ।
अनेन मन्त्रेण त्रिमधुयुक्तम् उडुम्बरं पूर्वम् अयुतं जप्त्वा सहस्रैकं होमयेद् अनावृष्टिकाले महावृष्टिं करोति ।
ओं द्रां द्रीं द्रूं द्रैं द्रौं हः ओं स्वाहा ।
इमं मन्त्रं पूर्वम् अयुतं जप्त्वा त्रिमधुयुता बिल्वसमिधो हुनेत् ततः समस्तजनपदाः किंकरा भवन्ति ॥ उत्_13.10
ओं द्रीं ओं द्रीं हुं ओं स्वाहा ।
इमं मन्त्रं पूर्वम् अयुतं जप्त्वा तद्दशांशं दर्भसमिधो घृतक्षीरयुता हुनेद् अयुतहोमतः सर्वरोगप्रशान्तिर् भवति ।
ओं क्लीं अमुकीं खे खे स्वाहा ।
इमं मन्त्रं पूर्वम् अयुतं तु जुहुयात् तद्दशांशं न्यग्रोधसमिधो मधुयुक्ता हुनेत् सहस्रमात्रहोमेन महाराजपत्नी वशगा भवति अन्यलोकस्त्रीणां तु का कथा ॥ उत्_13.11
ओं द्रीं गोमुखि गोमुखि सहस्रसुताला भीमभोगपिशितभूमौ आगच्छतु स्वाहा ॥ उत्_13.12
अनेन मन्त्रेण रक्तकरवीरं क्षौद्रेण संयुक्तं हुनेत् वशकामो लवणं हुनेत् स्त्रियम् आकर्षयति पूर्वसंयुक्तं प्रेमकामः सिन्दूरं हुनेत् पुरक्षोभो भवति तुषकरटं हुनेद् अभिचारकर्म भवति महामांसं घृतसंयुक्तं हुनेत् महाधनपतिर् भवेत् ॥ उत्_13.13
ओं नमो भगवते रुद्राय उड्डामरेश्वराय हुं फट् स्वाहा ।
अनेन मन्त्रेण श्रीफलसंयुक्तं घृतं हुनेत् शतहोमेन प्रज्ञा भवति सहस्रेण गोलाभो भवति लक्षेण ग्रामसहस्रलाभो भवति सपादलक्षेण भ्रष्टराज्यं राजा प्राप्नोति ॥ उत्_13.14
ओं ऐं द्रीं हुं फट् स्वाहा ।
अनेन मन्त्रेण काकमांसं कुक्कुटबीजं कटुतैलेन हुनेत् सहस्रैकेन द्रींकारान्तं नाम संजप्य यस्य नाम्ना जपेत् स चोन्मत्तो भवति सहस्रैकेन तण्डुलहोमेन सुस्थो भवति ॥ उत्_13.15
ओं ऐं श्रीं क्षं क्लीं स्वाहा ।
अनेन मन्त्रेण जपः कार्यः सप्तवारजप्तेन देहशुद्धिर् भवति शतजप्तेन सर्वतीर्थस्नानफलं भवति सहस्रेण धीवृद्धिः अयुतेन सहस्रग्रन्थकर्ता महान् कविर् भवति एकलक्षेण श्रुतिधरो भवति द्विलक्षेण समस्तशास्त्रज्ञो भवति त्रिलक्षेणातीतानागतवर्तमानज्ञो भवति चतुर्लक्षेण ग्रहपतिर् भवति पञ्चलक्षेण वेदवेदान्तपुराणस्मृतिविशेषज्ञो भवति षड्लक्षैर् वज्रतन्तुर् भवति सप्तलक्षैर् नदीं शोषयति हरिहरब्रह्मादिषु सख्यं भवति नोचेत् वज्रोक्तेन विधिना जपेत् तदा संस्कृतो ऽयं दर्शकेन वा महर्षिणा शतेन समो भवति सहस्रेण संतापरहितो भवति पुनर् अप्य् अयुतेन पुरक्षोभको भवति षड्गुणेन त्रैलोक्यं क्षोभयति तृतीयेन सप्तपातालं क्षोभयति चतुर्थेन स्वर्गं क्षोभयति पञ्चमेनोर्ध्वगान् सप्तलोकान् क्षोभयति षड्गुणेन त्रैलोक्यं क्षोभयति सप्तमेन द्विपदचतुष्पदादिप्राणिमात्रं क्षोभयति अष्टमेन स्थावरजङ्गमम् आकर्षयति नवमेन स्वयम् एव सर्वलोकेषु नारदवद् अनावृतगतिर् भवति दशलक्षेण कर्तुम् अकर्तुम् अन्यथा कर्तुं क्षमो भवति ।
पुनर् अप्य् अमृतक्षेपणविधिना जपेत् सकृद् अपि नरः श्वेतकरवीरकुसुमत्रिमधुयुक्ताम् आहुतिं दद्यात् सर्वजनप्रियो भवति अशोकपुष्पाणि सघृतं हुनेत् शोकरहितो भवति भ्रष्टराज्यप्राप्तिकामः श्रीफलहोमं कुर्यात् भ्रष्टराज्यं प्राप्नोति आज्ययुक्तपद्मपुष्पाणि अथवा कुमुदिनीपुष्पाणि होमयेत् ।
निपातकामः कटुतैलयुक्तं मयूरमांसं हुनेत् कूटेन मरणं भवति ।
पूगीफलं कटुतैलं लोहचूर्णं च हुनेत् समस्तदेहे विस्फोटका भवन्ति ।
क्षीरिपत्त्रबिल्वपत्त्रहोमेन शान्तिर् भवति ।
तिलसमिधः सकटुतैला हुनेत् तेन विद्वेषणं भवति ।
धत्तूरचूर्णे सास्थिचूर्णे सकटुतैललोहचूर्णे च हुते शीघ्रं शत्रुनाशो भवति ।
महामांसं सघृतं हुनेत् मनोऽभीष्टं सर्वं भवति ॥ उत्_13.16
उड्डामरेश्वरतन्त्र, चतुर्दशः पटलः
क्लीं कामातुरे काममेखले विषयिणि वररति भगवति अमुकं मे वशं कुरु वशं कुरु क्लीं नमः स्वाहा ।
अनेन मन्त्रेण भोजनकाले सप्तग्रासान् सप्तवाराभिमन्त्रितान् भुञ्जीत ।
सप्तमे दिवसे स्त्री वा पुरुषो वा वशीभवति स्वं च ददाति ।
ओं हुं स्वाहा ।
इमं मन्त्रं त्रिसंध्यं जपेत् शत्रुनाशो भवति ।
क्लीं कालि कालि महाकालि कोले किन्या स्वाहा ।
इमं मन्त्रं पूर्वम् अयुतं जप्त्वा संध्याकाले सहस्रैकं होमयेत् ततः कङ्काली वरदा भवति सुवर्णचतुष्टयं प्रत्यहं ददाति ॥ उत्_14.1
ओं द्रीं द्रीं द्रं द्रैं द्रौं द्रः हुं नमः स्वाहा ।
अनेन मन्त्रेण पूर्वम् एवायुतं जप्त्वा केवलम् आज्यं हुनेत् अस्माद् आकर्षणं भवति ॥ उत्_14.2
ओं द्रौं द्रौं हीं हीं हुं नमः स्वाहा ।
अनेन मन्त्रेण पूर्वविधिना जप्त्वार्धमासाद् आकर्षणं भवति ॥ उत्_14.3
ओं हं ओं हूं हूं हीं स्वाहा ।
इति पूर्वखङ्गभेदः ॥ उत्_14.4
सर्वसंजीवनीमन्त्रः ओं हुं द्रीं द्रं द्रौं द्रः हुं हुं ।
अनेन मन्त्रेण सर्वज्वरनाशनं भवति ॥ उत्_14.5
दीं हं सिनि स्वाहा ।
अनेन मन्त्रेण सर्वजनवशीकरणम् ॥ उत्_14.6
ओं हीं नमः हीं फट् स्वाहा ।
इमं मन्त्रं साध्यनाम्नायुतं जपेत् शवासनस्थितो हृदयं न प्रकाशयेत् [... औ4 zएइछेन्झ्] अमुकीं तां [... औ4 zएइछेन्झ्] संगृह्य गुटिकां कृत्वा मुखे प्रक्षिप्य विद्याधरत्वं भवति ॥ उत्_14.7
ओं हीं हुं नमः ।
इमं मन्त्रं पूर्वविधिना जपेत् पादुकासिद्धिर् भवति ॥ उत्_14.8
ओं क्षं क्षं ह्रीं हुं फट् स्वाहा ।
इमं मन्त्रं पूर्वक्रमेण जपेद् वेतालसिद्धिर् भवति ॥ उत्_14.9
ओं ह्रीं स्वाहा ।
अनेन मन्त्रेण नरकपालं गृहीत्वा तस्मिन् नरतैलं दत्त्वा तस्मिन् वायसचक्षुःसंवर्धिनीं वर्तिकां प्रज्वालयेत् कृष्णपक्षामावास्यायां शनिवारे अन्धकूपे श्मशाने वा शून्यायतने वा कज्जलं पातयितव्यं तावत् कालं पूर्वोक्तं मन्त्रं जपेत् यावता कालेन वर्तिशेषं प्रज्वलति अवसाने प्रभूतबलिदानं कर्तव्यं तत्र बलिस्तम्भम् आदाय तेन सिद्धाञ्जनेनाञ्जितनयनः सुरासुरैर् अपि न दृश्यते ऽन्यलोकस्य का कथा ॥ उत्_14.10
ओं ह्रं ह्रीं हूं ह्रैं ह्रौं ह्रः ह्रीं ह्रीं इति शङ्खिनीविद्या ।
ओं हीं हुं इति पुष्पाञ्जलिवेधः ।
हुं हुं इति हुंकारवेधः ।
ओं ह्रीं हुं इत्य् आलयवेधः ।
ह्रां शिवावेधमन्त्रः ।
ह्रीं इति भ्रमरावर्तसंघट्टवेधः ।
ओं द्रीं हुं छः छः स्वाहा ।
लोहत्रिशूलं कृत्वा रुधिरेण विषं पिष्ट्वा तेन त्रिशूलं लिप्त्वायुतेनाभिमन्त्रितं कृत्वा यस्य नाम्ना भूमौ निखनेत् तस्य शीघ्रं मृत्युर् भवति ॥ उत्_14.11
ओं ह्रींकारि हूंकारि कपालि समावेधं बन्धुं नपुंसकं महाशये अभयंकरि अमराख्यं कुरु कुरु ज्वरं हन हन आक्रोशात् कोलाहलं परां शक्त्याकर्षिणीं सर्वशक्तिप्रसङ्गिनीं शान्तिके हुं फट् स्वाहा ।
इमां महाविद्यां शत्रुवशंकरीं मनसा स्मरेत् स सर्वत्र निर्भयो भवति ॥ उत्_14.12
ओं ओं ओं हं हं हं हं सां सां सां सां इमं मन्त्रं जपित्वा स्थावरजङ्गमविषनाशनं भवति ॥ उत्_14.13
ओं अस्थि यंस्थि विद्रानिद्रा संनिविद्या रा टं टीं द्रीं समासं मटंटीं छं छं ।
अनेन मन्त्रेण काकपक्षं सहस्रैकं हुनेत् यस्य नाम्ना तम् उच्चाटयति ॥ उत्_14.14
स्त्रीं हं अनेन मन्त्रेणायुते जप्ते सति कवित्वविद्या भवति स्त्रीमणिशकुनविद्यां हि संजपेत् झटिति कवित्वं करोति ॥ उत्_14.15
हं ऐं हं हं ऐं वद वद वाग्वादिनि स्वाहा ।
इमं मन्त्रं सप्तवारं जप्त्वाधिकाधिकं कवित्वं च करोति ॥ उत्_14.16
ओं हं छं छं छं ऐं नमः स्वाहा ।
सहस्रजपादधिकाधिकं कवित्वदो ऽयं मन्त्रः ।
ओं कं खं गं घं चं छं छं अविलम्बं वक्तुः स्तम्भयति वाचम् आलोकनात् ।
हुं हुं हुं हुं खं खं खं खं छं छं वाचां स्तम्भिनी वायुसंजीवनी विद्या ।
द्रीं आलोकवेधः परोक्षवेधः ।
ह्रीं सर्ववेधनमन्त्रः ।
द्रं द्रौं द्रौं द्रौं द्रं अमुकं भेजि भेजि ह्रीं छं छं छं इति विस्फोटकसंजीविनी अवलोकनात् कार्यसिद्धिकरी ॥ उत्_14.17
ओं द्रां द्रीं पूर्वराक्षसान् नाशय सर्वाणि भञ्जय संतुष्टा मोहय महास्वने हुं हुं फट् स्वाहा इति सर्वभूतमारणमन्त्रः ।
ओं ह्रीं सः द्रां छः छः छः दूर्वाक्षीरहोमेन सर्वशान्तिकरी विद्या ॥ उत्_14.18
हुं पञ्चाण्डं चाण्डं द्रीं फट् स्वाहा अनेन मन्त्रेण मनुष्यास्थिकीलकं सप्ताङ्गुलं सहस्रधाभिमन्त्रितं यस्य गेहे निखनेत् तस्य कूटम् उत्सादिनं भवति उद्धृते सति पुनः स्वास्थ्यं भवति ।
हुं क्षं अमुकं फट् स्वाहा अनेन मन्त्रेण पेचकपक्षिमांसं कटुतैलेन संयुतं होमयेत् सहस्रहोमेन शत्रुं निपातयति ॥ उत्_14.19
ओं श्रीं श्रीं ह्रीं ह्रीं धुं धुं हं हः स्वाहा ।
इयं हि त्रैलोक्यविजयानम्नी विद्या ।
मनसा स्मरेत् सर्वकामप्रदो ऽयं मन्त्रः ॥ उत्_14.20
ओं ऐं ह्रीं श्रीं क्लीं विश्वरूपिणि पिशाचिनि भूतभविष्यादिकं वद वद मे कर्णे कथय कथय हुं फट् स्वाहा ।
इमं मन्त्रं शुक्लप्रतिपदम् आरभ्य पूर्णिमापर्यन्तं सहस्रैकं त्रिसंध्यं जपेत् प्रत्यहं पूतं जलं सघृतं भक्तपिण्डं हर्म्योपरि रात्रौ दद्यात् त्रैलोक्ये यादृशी तादृशी वार्त्ता साधकस्य कर्णे भूतभविष्यादिकं च कथयति ॥ उत्_14.21
ओं रं रां सं सां लं लां हं हः सं सः खं खः तं तः धं सं स्फुं स्फः ह्रीं हुं हुं हुं क्षीं क्षीं क्षौं सौं सः छं छः धं सः स्फुं स्फः ह्रीं हुं हुं हुं क्षीं क्षीं क्षौं सं फं फः हुं फट् स्वाहा ।
अयं समस्तविषनाशनमन्त्रः ।
सचराचरे ओं सचराचरे ओं हुं हुं हं हं हं हं हं हं हं हं हं हं क्षक्षक्षः हसः ओं सं हुं ह्रीं सर्वेश विष्णुबलेन शंकरदर्पेण वायुवेगेन रवितेजसा चन्द्रकान्त्या वैरं बाणशूर्पणं सर्वं विषहरं वद सर्वरक्षांसि हि नाशय 2 भञ्जय 2 सर्वदुष्टान् मोहय 2 देव हुं फट् स्वाहा हुं फट् स्वाहा ।
इमं मन्त्रम् अष्टोत्तरसहस्रं शतं वा जप्त्वा सप्तमे दिवसे सिद्धिः समाकर्षणं भवति ॥ उत्_14.22
ओं ह्रीं अमुकं छः छः अनेन मन्त्रेण मानुष्यास्थिमयं कीलकम् एकादशाङ्गुलं सहस्रेणाभिमन्त्रितं यस्य गृहे निखनेत् तस्य कूटं चोत्सादनं भवति उद्धृते पुनः स्वास्थ्यं भवति ॥ उत्_14.23
ओं ह्रीं काल कङ्काल महाकाल करालवदन अमुकं गृह्ण त्रिशूलेन भिन्द्धि 2 खड्गेन छिन्द्धि 2 हुं फट् छः छः स्वाहा ।
अनेन मन्त्रेण विभीतककाष्ठकीलकम् एकविंशत्यङ्गुलं सहस्रेणाभिमन्त्रितं यस्य गृहद्वारे निखन्यते तस्य सद्यो देहनिपातनं भवति ॥ उत्_14.24
ओं ह्रीं क्लीं श्रीं हुं अमुकं छः छः ।
अनेन मन्त्रेण सिद्धिकाष्ठमयं कीलकं नवाङ्गुलं सहस्रेणाभिमन्त्रितं यस्य गृहे निखन्यते स वश्यो भवति ।
ओं ह्रीं श्रीं क्लीं मातंगिनि ऐं ह्रीं श्रीं क्लीं स्वाहा ।
अनेन मन्त्रेण राजिकां लवणघृतमिश्रितां यस्य नाम्ना सह होमयेत् तां स्त्रियं पुरुषं वा वशयत्य् आकर्षणं च करोति ॥ उत्_14.25
ओं ह्रीं हूं छः छः ।
अनेन मन्त्रेण वाडवकाष्ठमयं कीलकं त्रयोदशाङ्गुलं सहस्रेणाभिमन्त्रितं यस्य गृहे निखनेत् स चक्षुर्भ्याम् अन्धो भवति ॥ उत्_14.26
ओं छः ओं छः छः ।
अनेन मन्त्रेण बिल्वकाष्ठस्य कीलकं दशाङ्गुलं सहस्रेणाभिमन्त्रितं यस्य गृहे निखनेत् सपरिवारस्य तस्य प्रेतत्वं भवति ॥ उत्_14.27
ओं ह्रीं अमुकीं मे प्रयच्छ स्वाहा ।
अनेन मन्त्रेण पाटलाकाष्ठमयं पञ्चाङ्गुलं कीलकं सहस्रेणाभिमन्त्रितं यस्य नाम्ना देवतायतने निखनेत् स शीघ्रं कन्यां लभते ॥ उत्_14.28
उड्डामरेश्वरतन्त्र, पञ्चदशः पटलः
षट्कोणं यन्त्रं लिखित्वा तत्र षट्कोणे ओं कुरुकुल्ले स्वाहा इति मन्त्रं पूर्वकोणे लिखेत् ।
कुरु इत्य् अक्षरद्वयम् अपरकोणे लिखेत् ।
अक्षरैकं पूर्वावर्तक्रमेण लेखितव्यम् ।
ततो भूर्जपत्त्रे इमं मन्त्रं लिखित्वा गृहद्वारे देहल्या एकदेशे धृते सति गृहसर्पम् उच्चाटयति विवरद्वारि धृते विवरस्थो नश्यत्य् एव ॥ उत्_15.1
रक्तकरवीरपुष्पम् आम्रपत्त्रभस्मना लिप्तं तत्क्षणाद् एव शुभ्रं भवति तथा गन्धकधूपेनापि भावितेन शुक्तिर् भवति ।
लोके हयमार इत्याख्यस्य रक्तकरवीरस्य पुष्पं तूलवर्तिकागन्धकेन सह संयोज्य तत्क्षणाद् एव ज्वलति ।
तथा टङ्कनहरिद्राभ्यां कृते लेपे कुङ्कुमकान्तिर् भवति ॥ उत्_15.2
पुराणशुष्कगोमयं यदा जले पातयेत् तदा भीमोष्मणा तस्माद् बुद्बुदम् उत्पद्यते ।
एवं गौरं तु भूम्युपरि भूतलं स्पृष्ट्वा रक्तकरवीरवृक्षो जायते इति ।
रूपके ताम्रे भ्रमर इव कुम्भे समर्पयेत् किंचिद् अनुयोगित्वेन मनोऽनुरागो भवति ताम्बूलरागतः नश्यति हरिद्रारागो रविकिरणात् ॥ उत्_15.3
ओं हुं सति कुरुर् उपक्षिशब्दतः कुरलकुङ्कुमेन इति प्रसिद्धिः क्रोञ्च इत्य् अपि तस्य नाम जिह्वाक्रींकृतं वामकरतलमध्यलग्नपरिलेपं दर्शयित्वा उदितविश्वधाराभस्मना पुनर् अपि करतललग्नात् प्रदर्श्य गत्याश्चर्यमते शिशुदुग्धभावितात् शोधयित्वा गवादिदुग्धं चोष्णं कांस्यपात्रे कृत्वा तीक्ष्णतरं धृत्वा तण्डुलनिक्षेपणेन क्षीरं भवति ॥ उत्_15.4
भूर्जपत्त्रपुटकं तिलतैलेन दीपयित्वा विविधभक्ष्यान्नं साधयेत् यथा लौहभाजने साध्यते ।
वार्ताकरञ्जिकापलम् इति तत् सूत्रेण वेष्टयित्वा दीपयित्वा च ज्वालयेत् तेनाविसूत्रेण वेष्टिते च सूत्रं संदह्यते वार्ताकश् च पच्यते ॥ उत्_15.5
आदिपङ्क्तौ सप्त स्वरान् संलिख्य तदधःपङ्क्तौ कादिसप्तवर्गात् संलिख्य तदधःपङ्क्तौ हरिद्रादिक्रमेणालेखनीया तत्र स्वरवर्णयोजनेन संकोचनाद् अक्षरकोष्ठादिसंस्पर्शनात् संजायते ।
बहुषु मध्येषु दत्तसंज्ञाकृतसंकेतश् चौरः स्वदृष्टिम् अपि सप्तसप्तस्वरादौ जानाति ।
व्यापारमध्ये क्षणरसिकश् चौरो ज्ञायते कृतो भद्रद्रव्ये ॥ उत्_15.6
कुत्रापि धत्तूरकबीजं क्षिप्त्वा तद् वा भक्षति तदा तद्गुणादिफलं लभ्यते असौ चौरः इति ।
स्वल्पचरचौरास् तु वस्तुलाभे प्रदातारः ।
क्षीर्यर्कादिवृक्षदुग्धेन संलिखितं चौरनामाक्षरं करतले ऽपि लिखितम् अनन्तरं भूर्जपत्त्रे कृतम् अपि मर्दने स्पर्शयित्वा भक्षितुं ततो ददाति अपरिलिखितं चौरनाम पत्त्रयुक्तं च अरिगृहगर्भमृत्तिकाकाण्डकं भवति ।
जले साधुनाम पत्त्रयुक्तमृत्तिका च जले मज्जति ततः स्पृष्ट्वा क्रियते असौ चौरः इति ।
क्षीरितरुदुग्धलिखितक्षुद्रलेखे अङ्गारचूर्णेन मर्दिताः स्पष्टा भवन्ति ।
कूटो ऽपि विपरीतलिखितवर्ण आदर्शादौ प्रतिकृतिभावापन्नो वर्णवैपरीत्यात् प्रतिविवर्धितन्यासः अतिदृढा मसी भवति ॥ उत्_15.7
निम्बतालके समताम्रभाजने याममात्रमर्दितेन विधिर् अस्तु समभागता यथा आमलकीहरीतकीविभीतकनिम्बखादिराणाम् नीराख्याराजकरवीररसैः समस्तरसकज्जलमुक्तमर्दनप्रकारेण याममात्रेण प्रत्येकं येन प्रकारेण मसिद्रव्यं जायते ।
शिरीषवृक्षत्वक्चूर्णं खदिरं विना ताम्बूलरागं जनयति ।
तिर्यक भूमौ नारिकेलफलम् अस्थिसहितं मुखेन कर्णिकायाम् एकेन प्रहारेण द्विधा भवति ।
लघुकाष्ठसूक्ष्मरचितपाकां विना पादैकं वा भ्रमति ।
गुञ्जाफलास्थिलिप्तं स्तम्भितं तदुत्तरपादं प्रयोज्य प्रपदात्यन्तं भ्रमति तदा पादतले तालकारलग्ना उत्तिष्ठति ।
एवं लघुकाष्ठनिर्मितासमकः पापपुरहासार्थं दत्तमुखवेष्टं किंचित् यस् तेन सितवस्त्रादौ कट्यां लग्नम् उपतिष्ठमानास् तिष्ठति ॥ उत्_15.8
एवं निविडाम्बरपिहितजम्बादौ अधोमुखकांस्यभाजननिहितम् अङ्गारं न दहति वस्त्रं दहति चापि शिशिरजलमिश्रितम् अपि आनतफलचूर्णभावितकलशः तीक्ष्णश् च कांस्यभाजननिहितं गुरुड्डनाप्य् अशक्तं न भवति तदानीं तिक्तं याति यच् छुक्तं मिष्टम् एति कज्जलचविकाचूर्णाभ्यां क्रमसंलिखितपुस्तकमध्यकारणे ऽपि यथेष्टया पच्यते यथा कटाहे रम्यतरे मधुनाग्निप्रज्वलिते सकुण्डादौ जलपूर्णे अधोमुखे उज्ज्वलं स्वयम् एति धूमाभ्यां स्वयम् उद्गिरति वर्तिद्वये शशविष्ठापूर्णगर्भे कमठैर् अधोवर्तिविष्ठायितापि उपरि ज्वलज्ज्वालाज्वलितवर्तिज्वालाम् अपि ज्वलितधूमम् अङ्गारतीक्ष्णशिखया नाडिकादौ ।
वालिवाते ऽयं प्रयोगः कार्यः ।
वामकराङ्गुलिपर्यन्तं गोपितं सूत्रचिह्नम् अप्य् अचिह्नं च दृश्यते जनस्य विषमसमाक्षरेण वीक्षिते कालः असमम् अपि पुरुषं जानीयात् ।
पञ्चदाडिमे शिखरे मसिगुणिते यद्धि भवति तावत् गुटिके विजानीयात् ।
अकालवक्रे सति कालम् अथ फलचूर्णेन मिलित्वा भस्मना सह घृतेन काकञ्जिका सहसा भवति ॥ उत्_15.9
अगाधस्थिरजले धूमचूर्णेन लिखितचिन्तादि भीतवद् भाषते न निमज्जतीति ।
समदशघृतजधृतसमावेशार्धं धृतमूषलं तिष्ठति ॥ उत्_15.10
पुष्यनक्षत्रे कुङ्कुमावर्तितेन बाणेन दूरस्थम् अपि लक्ष्यं बालो ऽपि विध्यते ।
षण्डं गोमयानां वर्तिदीपकान्त्या दग्धं मध्ये हतशशरुधिरं दृश्यते तत्रापि तैलं यत् किंचिद् इति ।
श्वेतार्कफले तूलकं सर्षपसमं तैलेनैकीकृतवर्तिकदीपज्वालायां गृहोपरिवंशादिदारु सर्वं सर्प इव दृश्यते ।
भुजगतैले सच्छिद्रभाण्डे भुजंगं क्षिप्त्वा अच्छिद्रभाण्डान्तरे व्यवस्थितम् अग्निपातेन जलं ज्वलति ।
तदैव तैलं पूर्वप्रकारेण कृष्णाष्टम्यां मण्डूकतैलाङ्कितेन सर्वं शात्रव सर्वं भवति ।
दीपकान्त्या दीपयित्वा यत् किंचिच् च कुक्कुटपक्षिचञ्च्वादिविदग्धनाललक्षिता सती हृता लेखा यदायाति हरिकपालं धृत्वा भवति तदा तज् जलपूर्णां च कलशं रिक्तकं भवति तथा मरिचशुण्ठी पिप्पलीचूर्णेनोभाभ्यां वामचरणतलं लिप्त्वा तेनाहतो वृक्षः कल्पवृक्षश् च नमेरुफलं प्रसूयते ॥ उत्_15.11
कृष्णा गौः प्रसवकाले तद्वत् समानवर्णं जरायुर् आगतत्वेन प्रजारेण्डला फलं दृष्ट्वा मुष्टिगृहीते उच्चैस् तमसि फलं प्रायेण कृत्वा प्रदास्यति तथा कालायितमुद्रिका वरगोस्तनी स्याद् आपतिता गृहीता निक्षिप्ता तु अष्टौ पूर्वफलानि जनयति ।
समुस्ताहरितालमनःशिलाभ्यां नवनीतादियोगेन कारिताञ्जने मयूरस्य विष्ठया कृत्वा हस्तं लिम्पेत् तत्र स्थितं द्रव्यं ब्रह्मापि न पश्यति ।
समुखं फलचूर्णं मिश्रोद्वर्तनकाजले क्षिप्त्वा क्रिमिसहस्रतुल्यं दृश्यते ।
हयकालीयकस्य शोषितस्य चूर्णं गवशीर्षकेण समुद्वर्तनेन तात्कालिकं सूक्ष्मजले निःक्षिप्य सबीजं कृषिर् उच्चलति ॥ उत्_15.12
अधःपटेनाशस्यावश्यादि दृष्ट्वा पादाग्रस्थितं द्रव्यं दृश्यते ।
जपाकुसुमोद्वर्तिताङ्गं छुरिकादौ कणाचितैककीटकाफलाख्या यन्त्रिते रुधिरवज् जडितं क्षीरिवृक्षत्वगवभाविता तैलाक्ता वस्त्रवर्तिर् जलैर् ज्वलति ।
एवं समुद्रतैलयुक्तापि वर्तिका ज्वलति ।
द्रोणकपुष्पादीनि क्षुद्रपुष्पाणि चूर्णाग्रे विनिष्क्षिप्य धत्तूरबीजानि जलसिक्तानि सजीववत् फलन्ति ।
इक्षुः कुक्कुटीबीजचूर्णेन सुदर्शनपत्त्रम् इव तत्क्षणात् जायते ।
मसृणकर्पटं निर्मलकांस्यभाजने ऽर्कसम्मुखं स्थापनेन वर्तुलकयोगाद् अग्निर् उत्तरति ॥ उत्_15.13
मूल पाठ: Uḍḍāmareśvaratantra · Edition: J.D. Zadoo Srinagar: The Normal Press, 1947 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0