भाषा

ENहिગુ
ग्रंथ पाठ

उदानवर्ग · अध्याय 9

9.1

एक.धर्मम्.अतीतस्य.मृषा.वादस्य.जन्तुनः ।
वितीर्ण.पर.लोकस्य.न.अकार्यम्.पापम्.अस्ति.यत् ॥

9.2

श्रेयो.ह्य्.अयोगुडा.भुक्तास्.तप्ता.ह्य्.अग्नि.शिखा.उपमाः ।
न.तु.भुञ्जीइत.दुह्शीलो.राष्ट्र.पिण्डम्.असम्यतः ॥

9.3

स.चेद्.बिभेषि.दुह्खस्य.स.चेत्.ते.दुह्खम्.अप्रियम् ।
मा.कार्षीः.पापकम्.कर्म.त्व्.आविर्.वा.यदि.वा.रहः ॥

9.4

स.चेत्.पापानि.कर्माणि.करिष्यसि.करोषि.वा ।
न.ते.दुह्खात्.प्रमोक्षो.अस्ति.ह्य्.उत्प्लुत्य.अपि.पलायतः ॥

9.5

न.एव.अन्तरीक्षे.न.समुद्र.मध्ये.न.पर्वतानाम्.विवरम्.प्रविश्य ।
न.विद्यते.असौ.पृथिवी.प्रदेशो.यत्र.स्थितम्.न.प्रसहेत.कर्म ॥
कृष्ण.शुक्लानि.कर्माणि.न.प्रणश्यन्ति.देहिनः ।
कालम्.प्रा - - - इष्यन्ते.कृतान्य्.उप---नानि.च ॥

9.6

यत्.परेषाम्.विगर्हेत.कर्म.दृष्ट्वा.इह.पापकम् ।
आत्मना.तन्.न.कुर्वीत.कर्म.बद्धो.हि.पापकः ।

9.7

ये.कूट.मान.योगेन.विषमेण.च.कर्मणा ।
मनुष्यान्.उपहिंसन्ति.परतो.उपक्रमेण.वा ।[.परतोपक्रमेण.वा.]
ते.वै.प्रपातम्.प्रपतन्ति.कर्म.बद्धा.हि.ते.जनाः ॥

9.8

यत्.करोति.नरः.कर्म.कल्याणम्.अथ.पापकम् ।
तस्य.तस्य.एव.दायादो.न.हि.कर्म.प्रणश्यति ॥

9.9

विलुम्पते.हि.पुरुषो.यावद्.अस्य.उपकल्पते ।
ततो.अन्ये.तम्.विलुम्पन्ति.स.विलोप्ता.विलुप्यते ॥

9.10

कुर्वन्.हि.मन्यते.बालो.न.एतम्.माम्.आगमिष्यति ।
साम्पराये.तु.जानाति.या.गतिः.पाप.कर्मणाम् ॥

9.11

कुर्वन्.हि.मन्यते.बालो.न.एतम्.माम्.आगमिष्यति ।
पश्चात्.तु.कटुकम्.भवति.विपाकम्.प्रतिषेवतः ॥

9.12

स.चेत्.पापानि.कर्माणि.कुर्वन्.बालो.न.बुध्यते ।
कर्मभिः.स्वैस्.तु.दुर्मेधा.ह्य्.अग्नि.दग्ध.एव.तप्यते ॥[.अग्नि.दग्धैव.तप्यते.]

9.13

चरन्ति.बाला.दुष्प्रज्ञा.ह्य्.अमित्रैर्.इव.च.आत्मभिः ।
कुर्वन्तः.पापकम्.कर्म.यद्.भवति.कटुकम्.फलम् ॥

9.14

न.तत्.कर्म.कृतम्.साधु.यत्.कृत्वा.ह्य्.अनुतप्यते ।
रुदन्न्.अश्रु.मुखो.यस्य.विपाकम्.प्रतिषेवते ॥

9.15

तत्.तु.कर्म.कृतम्.साधु.यत्.कृत्वा.न.अनुतप्यते ।
यस्य.प्रतीतः.सुमना.विपाकम्.प्रतिषेवते ॥

9.16

हसन्तः.पापकम्.कर्म.कुर्वन्त्य्.आत्म.सुख.एषिणः ।
रुदन्तस्.तस्य.वीपाकम्.प्रतिविन्दन्ति.दुह्खिताः ॥[.विपाकम्.]

9.17

न.हि.पाप.कृतम्.कर्म.सद्यः.क्षीरम्.इव.मूर्छति ।[.मूर्च्छति.]
दहन्.तद्.बालम्.अन्वेति.भस्म.आच्छन्न;इव.अनलः ॥

9.18

न.हि.पाप.कृतम्.कर्म.सद्यः.शस्त्रम्.इव.कृन्तति ।
साम्पराये.तु.जानाति.या.गतिः.पाप.कर्मणाम् ।
पश्चात्.तु.कटुकम्.भवति.विपाकम्.प्रतिषेवतः ॥

9.19

अयसो.हि.मलः.समुत्थितः.स.तद्.उत्थाय.तम्.एव.खादति ।
एवम्.ह्य्.अनिशाम्य.चारिणम्.स्वानि.कर्माणि.नयन्ति.दुर्गतिम् ॥

मूल पाठ: Udānavarga · Edition: Franz Bernhard, Goettingen 1965 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc