भाषा

ENहिગુ
ग्रंथ पाठ

उदानवर्ग · अध्याय 8

8.1

अभूत.वादी.नरकान्.उपैति.यश्.च.अन्यद्.अप्य्.आचरति.इह.कर्म ।
उभौ.हि.तौ.प्रेत्य.समौ.निरुक्तौ.निहीन.धर्मौ.मनुजौ.परत्र ॥

8.2

पुरुषस्य.हि.जातस्य.कुठारी.जायते.मुखे ।
यया.छिनत्ति.ह.आत्मानम्.वाचा.दुर्भाषितम्.वदन् ॥

8.3

यो.निन्दियाम्.प्रशंसति.तान्.अपि.निन्दति.ये.प्रशंसियाः ।
स.चिनोति.मुखेन.तम्.कलिम्.कलिना.तेन.सुखम्.न.विन्दति ॥

8.4

अल्प.मात्रो.ह्य्.अयम्.कलिर्.य;इह्ह.अक्षेण.धनम्.पराजयेत् ।
अयम्.अत्र.महत्तरः.कलिर्.यः.सुगतेषु.मनः.प्रदूषयेत् ॥

8.5

शतम्.सहस्राणि.निरर्बुदानि.षट्.त्रिंशतिम्.पञ्च.तथा.अर्बुदानि ।
यान्.आर्य.गर्ही.नरकान्.उपैति.वाचम्.मनश्.च.प्रणिधाय.पापकम् ॥

8.6

असतम्.हि.वदन्ति.पाप.चित्ता.नरकम्.वर्धयते.वधाय.नित्यम् ।
अनवद्य.बलस्.तितीक्षते.ताम्.मनसो.ह्य्.आविलताम्.विवर्जयित्वा ॥[.तितिक्षते.]

8.7

यः.शासनम्.ह्य्.अर्हताम्.आर्याणाम्.धर्म.जीविनाम् ।
प्रतिक्रोशति.दुर्मेधा.दृष्टिम्.निह्श्रित्य.पापिकाम् ।

8.8

कल्याणिकाम्.विमुञ्चेत.न.एव.मुञ्चेत.पापिकाम् ।
मुक्ता.कल्याणिकी.श्रेयो.मुक्ता.तपति.पापिका ॥

8.9

न.च.मुक्ते.प्रमुञ्चेत्.ताम्.मुञ्चमानो.हि.बाध्यते ।
न.एवम्.आर्याः.प्रमुञ्चन्ति.मुक्ता.बालैर्.हि.पापिका ॥

8.10

मुखेन.सम्यतो.भिक्षुर्.मन्द.भाषी.ह्य्.अनुद्धतः ।
अर्थम्.धर्मम्.च.देशयति.मधुरम्.तस्य.भाषितम् ॥

8.11

सुभाषितम्.ह्य्.उत्तमम्.आहुर्.आर्या.धर्मम्.वदेन्.न.अधर्मम्.तद्.द्वितीयम् ।
प्रियम्.वदेन्.न.अप्रियम्.तत्.तृतीयम्.सत्यम्.वदेन्.न.असत्यम्.तच्.चतुर्थम् ॥

8.12

ताम्.एव.वाचम्.भाषेत.यया.आत्मानम्.न.तापयेत् ।
परांश्.च.न.विहिंसेत.सा.हि.वाक्.साधु.भाषिता ॥

8.13

प्रिय.उद्यम्.एव.भाषेत.या.हि.वाचा.अभिनन्दिता ।
न.आददाति.यया.पापम्.भाषमाणः.सदा.प्रियम् ॥

8.14

सत्या.स्याद्.अमृता.वाचा.सत्य.वाचा.ह्य्.अनुत्तरा ।
सत्यम्.अर्थे.च.धर्मे.च.वाचम्.आहुः.प्रतिष्ठिताम् ॥

8.15

याम्.बुद्धो.भाषते.वाचम्.क्षेमाम्.निर्वाण.प्राप्तये ।
दुह्खस्य.अन्त.क्रिया.युक्ताम्.सा.हि.वाक्.साधु.भाषिता ॥

मूल पाठ: Udānavarga · Edition: Franz Bernhard, Goettingen 1965 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc