उदानवर्ग · अध्याय 10
श्रद्धा.अथ.ह्री.शीलम्.अथ.अपि.दानम्.धर्मा;इमे.सत्.पुरुष.प्रशस्ताः ।
एतम्.हि.मार्गम्.दिव्यम्.वदन्ति;एतेन.असौ.गच्छति.देव.लोकम् ॥
न.वै.कदर्या.देव.लोकम्.व्रजन्ति.बाला.हि.ते.न.प्रशंसन्ति.दानम् ।
श्राधस्.तु.दानम्.ह्य्.अनुमोदमानो.अप्य्.एवम्.ह्य्.असौ.भवति.सुखी.परत्र ॥
श्रद्धा.हि.वित्तम्.पुरुषस्य.श्रेष्ठम्.धर्मः.सुचीर्णः.सुखम्.आदधाति ।
सत्यम्.हि.वै.स्वादुतमम्.रसानाम्.प्रज्ञा.आजीवी.जीविनाम्.श्रेष्ठ;उक्तः ॥
श्रद्धा.धनो.ह्य्.अर्हताम्.धर्मम्.निर्वाण.प्राप्तये ।
शुश्रूषुर्.लभते.प्रज्ञाम्.तत्र.तत्र.विचक्षणः ।[.शुश्रुशुर्.]
श्रद्धया.तरति.ह्य्.ओघम्.अप्रमादेन.च.अर्णवम् ।
वीर्येण.त्यजते.दुह्खम्.प्रज्ञया.परिशुध्यते ॥
श्रद्धा.द्वितीया.पुरुषस्य.भवति.प्रज्ञा.च.एनम्.प्रशासति ।
निर्वाण.अभिरतो.भिक्षुश्.छिनत्ति.भव.बन्धनम् ॥
यस्य.श्रद्धा.च.शीलम्.चैव.अहिंसा.सम्यमो.दमः ।
स.वान्त.दोषो.मेधावी.साधु.रूपो.निरुच्यते ॥
श्राद्धः.शीलेन.सम्पन्नस्.त्यागवान्.वीत.मत्सरः ।
व्रजते.यत्र.यत्र.एव.तत्र.तत्र.एव.पूज्यते ॥
यो.जीव.लोके.लभते.श्रद्धाम्.प्रज्ञाम्.च.पण्डितः ।
तद्द्.हि.तस्य.धनम्.श्रेष्ठम्.हीनम्.अस्य.इतरद्.धनम् ॥
आर्याणाम्.दर्शनः.कामः.सद्.धर्म.श्रवणे.रतः ।
विनीत.मात्सर्य.मलः.स.वै.श्राद्धो.निरुच्यते ॥
श्राद्धो.गृह्णाति.पाथेयम्.पुण्यम्.चोरैः.सुदुर्हरम् ।
चोरम्.हरन्तम्.वारयति.हरन्तः.श्रमणाः.प्रियाः ।
श्रमणान्.आगतान्.दृष्ट्वा;अभिनन्दन्ति.पण्डिताः ॥
ददन्त्य्.एके.यथा.श्रद्धा.यथा.विभवतो.जनाः ।
तत्र.यो.दुर्मना.भवति.परेषाम्.पान.भोजने ।
न.असौ.दिवा.च.रात्रौ.च.समाधिम्.अधिगच्छति ॥
यस्य.त्व्.एते.समुच्छिन्नास्.ताल.मस्तकवद्द्.हताः ।[.मस्तकवद्.धताः.]
स.वै.दिवा.च.रात्रौ.च.समाधिम्.अधिगच्छति ॥
वीत.श्रद्धम्.न.सेवेत.ह्रदम्.यद्वद्द्.हि.निर्जलम् ।
स.चेत्.खनेल्.लभेत्.तत्र.वारि.कर्दम.गन्धिकम् ॥
श्राद्धम्.प्राज्ञम्.तु.सेवेत.ह्रदम्.यद्वज्.जल.अर्थिकः ।
अच्छोदकम्.विप्रसन्नम्.शीत.तोयम्.अनाविलम् ।[.अच्छ.उदकम्.]
न.अनुरक्ता;इति.रज्येत.ह्य्.अत्र.वै.दीर्यते.जनः ।
अप्रसन्नाम्.वर्जयित्वा.प्रसन्नान्.उपसेवते ॥[10 श्रद्धावर्गह्]
मूल पाठ: Udānavarga · Edition: Franz Bernhard, Goettingen 1965 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0