उदानवर्ग · अध्याय 7
काय.प्रदोषम्.रक्षेत.स्यात्.कायेन.सुसंवृतः ।
काय.दुश्चरितम्.हित्वा.कायेन.सुकृतम्.चरेत् ॥
वाचः.प्रदोषम्.रक्षेत.वचसा.संवृतो.भवेत् ।
वाचो.दुश्चरितम्.हित्वा.वाचा.सुचरितम्.चरेत् ॥
मनः.प्रदोषम्.रक्षेत.मनसा.संवृतो.भवेत् ।
मनो.दुश्चरितम्.हित्वा.मनः.सुचरितम्.चरेत् ॥
काय.दुश्चरितम्.हित्वा.वचो.दुश्चरितानि.च ।
मनो.दुश्चरितम्.हित्वा.यच्.च.अन्यद्.दोष.संहितम् ॥
कायेन.कुशलम्.कुर्याद्.वचसा.कुशलम्.बहु ।
मनसा.कुशलम्.कुर्याद्.अप्रमाणम्.निरौपधिम् ॥
कायेन.कुशलम्.कृत्वा.वचसा.चेतसा.अपि.च ।
इह.च.अथ.परत्र.असौ.सुखम्.समधिगच्छति ॥
अहिंसका.वै.मुनयो.नित्यम्.कायेन.संवृताः ।
ते.यान्ति.ह्य्.अच्युतम्.स्थानम्.यत्र.गत्वा.न.शोचति ॥
अहिंसका.वै.मुनयो.नित्यम्.वाचा.सुसंवृताः ।
ते.यान्ति.ह्य्.अच्युतम्.स्थानम्.यत्र.गत्वा.न.शोचति ॥
अहिंसका.वै.मुनयो.मनसा.नित्य.संवृताः ।
ते.यान्ति.ह्य्.अच्युतम्.स्थानम्.यत्र.गत्वा.न.शोचति ॥
कायेन.संवृता.धीरा.धीरा.वाचा.सुसंवृताः ।
मनसा.संवृता.धीरा.धीराः.सर्वत्र.संवृताः ।
ते.यान्ति.ह्य्.अच्युतम्.स्थानम्.यत्र.गत्वा.न.शोचति ॥
कायेन.संवरः.साधु.साधु.वाचा.च.संवरः ।
मनसा.संवरः.साधु.साधु.सर्वत्र.संवरः ।
सर्वत्र.संवृतो.भिक्षुः.सर्व.दुह्खात्.प्रमुच्यते ॥
वाचा.अनुरक्षी.मनसा.सुसंवृतः.कायेन.चैव.अकुशलम्.न.कुर्यात् ।
एताम्.शुभाम्.कर्म.पथाम्.विशोधयन्न्.आराधयेन्.मार्गम्.ऋषि.प्रवेदितम् ॥
मूल पाठ: Udānavarga · Edition: Franz Bernhard, Goettingen 1965 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0