भाषा

ENहिગુ
ग्रंथ पाठ

उदानवर्ग · अध्याय 6

6.1

शीलम्.रक्षेत.मेधावी.प्रार्थयन्.वै.सुख.त्रयम् ।[.प्रार्थयं.]
प्रशंसा.वित्त.लाभम्.च.प्रेत्य.स्वर्गे.च.मोदनम् ॥

6.2

स्थानान्य्.एतानि.सम्पश्यन्.शीलम्.रक्षेत.पण्डितः ।
आर्यो.दर्शन.सम्पन्नः.स.लोके.लभते.शिवम् ॥

6.3

सुखम्.शील.समादानम्.कायो.न.परिदह्यते ।
सुखम्.च.रात्रौ.स्वपति.प्रतिभुद्धश्.च.नन्दति ॥

6.4

शीलम्.यावज्.जरा.साधु.श्रद्धा.साधु.प्रतिष्ठिता ।
प्रज्ञा.नराणाम्.रत्नम्.वै.पुण्यम्.चोरैः.सुदुर्हरम् ॥

6.5

कृत्वा.पुण्यानि.सप्रज्ञो.दत्त्वा.दानानि.शीलवान् ।[.दत्वा.]
इह.च.अथ.परत्र.असौ.सुखम्.समधिगच्छति ॥

6.6

शीले.प्रतिष्ठितो.भिक्षुर्.इन्द्रियैश्.च.सुसंवृतः ।
भोजने.च.अपि.मात्रज्ञो.युक्तो.जागरिकासु.च ॥

6.7

विहरन्न्.एवम्.आतापी.ह्य्.अहो.रात्रम्.अतन्द्रितः ।
अभव्यः.परिहाणाय.निर्वाणस्य.एव.सो.अन्तिके ॥

6.8

शीले.प्रतिष्ठितो.भिक्षुश्.चित्तम्.प्रज्ञाम्.च.भावयेत् ।
आतापी.निपको.नित्यम्.प्राप्नुयाद्.दुह्ख.संक्षयम् ॥

6.9

तस्मात्.सतत.शीली.स्यात्.समाधेर्.अनुरक्षकः ।
विपश्यनायाम्.शिक्षेच्.च.सम्प्रजान.प्रतिस्मृतः ॥

6.10

स.तु.विक्षीण.सम्योगः.क्षीण.मानो.निरौपधिः ।
कायस्य.भेदत्.सप्रज्ञः.संख्यान्.न.उपैति.निर्वृतः ॥

6.111

शीलम्.समाधिः.प्रज्ञा.च.यस्य.ह्य्.एते.सुभाविताः ।

6.11

सो.अत्यन्त.निष्ठो.विमलस्.त्व्.अशोकः.क्षीण.सम्भवः ॥

6.12

सङ्गात्.प्रमुक्तो.ह्य्.असित;आज्ञातावी.निरौपधिः ।
अतिक्रम्य.मार.विषयम्.आदित्यो.वा.विरोचते ॥

6.13

उद्धतस्य.प्रमत्तस्य.भिक्षुणो.बहिर्.आत्मनः ।
शीलम्.समाधिः.प्रज्ञा.च.पारिपूरिम्.न.गच्छति ॥

6.14

छन्नम्.एव.अभिवर्षति.विवृतम्.न.अभिवर्षति ।
तस्माद्द्.हि.छन्नम्.विवरेद्.एवम्.तम्.न.अभिवर्षति ॥[.च्छन्नम्.]

6.15

एतद्द्.हि.दृष्ट्वा.शिक्षेत.सदा.शीलेषु.पण्डितः ।
निर्वाण.गमनम्.मार्गम्.क्षिप्रम्.एव.विशोधयेत् ॥

6.16

न.पुष्प.गन्धः.प्रतिवातम्.एति.न.वाह्निजात्.तगराच्.चन्दनाद्.वा ।
सताम्.तु.गन्धः.प्रतिवातम्.एति.सर्वा.दिशः.सत्.पुरुषः.प्रवाति ॥

6.17

तगराच्.चन्दनाच्.च.अपि.वार्षिकायास्.तथा.उत्पलात् ।
एतेभ्यो.गन्ध.जातेभ्यः.शील.गन्धस्.त्व्.अनुत्तरः ॥

6.18

अल्प.मात्रो.ह्य्.अयम्.गन्धो.यो.अयम्.तगर.चन्दनात् ।
यस्.तु.शीलवताम्.गन्धो.वाति.देवेष्व्.अपि.इह.सः ।

6.19

तेषाम्.विशुद्ध.शीलानाम्.अप्रमाद.विहारिणाम् ।
सम्यग्.आज्ञा.विमुक्तानाम्.मारो.मार्गम्.न.विन्दति ॥

6.20

एष.क्षेम.गमो.मार्ग;एष.मार्गो.विशुद्धये ।
प्रतिपन्नकाः.प्रहास्यन्ति.ध्यायिनो.मार.बन्धनम् ॥

मूल पाठ: Udānavarga · Edition: Franz Bernhard, Goettingen 1965 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc