भाषा

ENहिગુ
ग्रंथ पाठ

उदानवर्ग · अध्याय 33

33.1

न.नग्न.चर्या.न.जटा.न.पङ्का.नो.अनाशनम्.स्थण्डिल.शायिका.वा ।
न.रजो.मलम्.न.उत्कुटुक.प्रहाणम्.शोधेत.मर्त्यम्.ह्य्.अवितीर्ण.काङ्क्षम् ॥

33.2

अलंकृतश्.च.अपि.चरेत.धर्मम्.क्षान्तो.दान्तो.नियतो.ब्रह्म.चारी ।
सर्वेषु.भूतेषु.निधाय.दण्डम्.स.ब्राह्मणः.स.श्रमणः.स.भिक्षुः ॥

33.3

भवेष्व्.एव.हि.सज्यन्त;एके.श्रमण.ब्राह्मणाः ।
अन्तरेण.विषीदन्ति.ह्य्.अप्राप्य.एव.आस्रव.क्षयम् ॥

33.4

भवेष्व्.एव.हि.सज्यन्त;एके.श्रमण.ब्राह्मणाः ।
विगृह्य.विवदन्ति.इमे.बाला.ह्य्.एकान्त.दर्शिनः ॥

33.5

भवेष्व्.एव.हि.सज्यन्त;एके.श्रमण.ब्राह्मणाः ।
अन्तरेण.विषीदन्ति.अप्राप्य.एव.उत्तमम्.पदम् ॥

33.6

किम्.ते.जटाभिर्.दुर्बुद्धे.किम्.च.अप्य्.अजिन.शाटिभिः ।
अभ्यन्तरम्.ते.गहनम्.बाह्यकम्.परिमार्जसि ॥
किम्.ते.जटाभिर्.दुर्बुद्धे.किम्.च.अप्य्.अजिन.शाटिभिः ।
अभ्यन्तरम्.ते.कलुषम्.बाह्यकम्.परिमार्जसि ॥

33.7

न.जटाभिर्.न.गोत्रेण.न.जात्या.ब्राह्मणः.स्मृतः ।
यस्य.सत्यम्.च.धर्मम्.च.स.शुचिर्.ब्राह्मणः.स.च ॥

33.8

न.जटाभिर्.न.गोत्रेण.न.जात्या.ब्राह्मणः.स्मृतः ।
यस्.तु.वाहयते.पापान्य्.अणु.स्थूलानि.सर्वशः ॥
वाहितत्वात्.तु.पापानाम्.ब्राह्मणो.वै.निरुच्यते ॥

33.9

न.मुण्डितेन.श्रमणो.न.भोः.कारेण.ब्राह्मणः ।
यस्य.सत्यम्.च.धर्मम्.च.ब्राह्मणः.श्रमणः.स.च ॥

33.10

न.मुण्डितेन.श्रमणो.न.भोः.कारेण.ब्राह्मणः ।
यस्.तु.वाहयते.पापान्य्.अणु.स्थूलानि.सर्वशः ।
वाहितत्वात्.तु.पापानाम्.ब्राह्मणः.श्रमणः.स.च ॥

33.11

न.उदकेन.शुचिर्.भवति.बह्व्.अत्र.स्नाति.वै.जनः ।
यस्य.सत्यम्.च.धर्मम्.च.स.शुचिर्.ब्राह्मणः.स.च ॥

33.12

प्रवाह्य.पापकान्.धर्मान्.ये.चरन्ति.सदा.स्मृताः ।
क्षीण.सम्योजना.बुद्धा.ब्राह्मणास्.ते.प्रकीर्तिताः ॥

33.13

यो.ब्राह्मणो.वाहित.पाप.धर्मो.निष्कौटिल्यो.निष्कषायः.स्थित.आत्मा ।
वेद.अन्तगश्.च.उषित.ब्रह्म.चर्यः.कालेन.असौ.ब्रह्म.वादम्.वदेत ॥

33.14

यस्मिन्.न.माया.वसते.न.मानो.यो.वीत.लोभो.ह्य्.अममो.निराशः ।
प्रणुन्न.दोषो.ह्य्.अभिनिर्वृत.आत्मा.स.ब्राह्मणः.स.श्रमणः.स.भिक्षुः ॥

33.15

ब्रवीमि.ब्राह्मणम्.न.अहम्.योनिजम्.मातृ.सम्भवम् ।
भो.वादी.नाम.स.भवति.स.चेद्.भवति.सकिंचनः ।
अकिंचनम्.अनादानम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥

33.16

यस्य.कायेन.वाचा.च.मनसा.च.न.दुष्कृतम् ।
सुसंवृतम्.तृभिः.स्थानैर्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥

33.17

यो.अकर्कशाम्.विज्ञपनीम्.गिरम्.नित्यम्.प्रभाषते ।
यया.न.अभिषजेत्.कश्चिद्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥

33.18

आक्रोशान्.वध.बन्धांश्.च.यो.अप्रदुष्टस्.तितीक्षते ।[.तितिक्षते.]
क्षान्ति.व्रत.बल.उपेतम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥

33.19

अक्रोधनम्.व्रतवन्तम्.शीलवन्तम्.बहु.श्रुतम् ।
दान्तम्.अन्तिम.शारीरम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥

33.20

असंसृष्टम्.गृहस्थेभिर्.अनगारैस्.तथा.उभयम् ।
अनोकसारिणम्.तुष्टम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥

33.21

आगतम्.न.अभिनन्दन्ति.प्रक्रमन्तम्.न.शोचति ।
सङ्गात्.संग्रामजिन्.मुक्तो.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥

33.22

आगतम्.न.अभिनन्दन्ति.प्रक्रमन्तम्.न.शोचति ।
अशोकम्.विरजम्.शान्तम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥

33.23

अनन्य.पोषी.ह्य्.आज्ञाता.दान्तः.सारे.प्रतिष्ठितः ।
क्षीण.आस्रवो.वान्त.दोषो.यः.स.वै.ब्राह्मणः.स्मृतः ॥

33.24

यस्य.पारम्.अपारम्.च.पार.अपारम्.न.विद्यते ।
पारगम्.सर्व.धर्माणाम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥

33.25

यस्.तु.दीर्घम्.तथा.ह्रस्वम्.अणु.स्थूलम्.शुभ.अशुभम् ।
लोके.न.किंचिद्.आदत्ते.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥

33.26

यस्य.पारम्.अपारम्.च.पार.अपारम्.न.विद्यते ।
असक्तम्.त्रिषु.लोकेषु.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥

33.27

इह.एव.यः.प्रजानाति.दुह्खस्य.क्षयम्.आत्मनः ।
वीत.रागम्.विसम्युक्तम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥

33.28

यस्.तु.पुण्यैस्.तथा.पापैर्.उभयेन.न.लिप्यते ।
अशोकम्.निर्ज्वरम्.शान्तम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥

33.29

यस्.तु.पुण्यम्.च.पापम्.च.अप्य्.उभौ.सङ्गाव्.उपत्यगात् ।
सङ्ग.अतिगम्.विसम्युक्तम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
यस्य.पश्चात्.पुरे.च.अपि.मध्ये.च.अपि.न.विद्यते ।
विरजम्.बन्धनम्.मुक्तम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥

33.30

वारि.पुष्कर.पत्त्रेण.इव.आराग्रेण.इव.सर्षपः ।?
न.लिप्यते.यो.हि.कामैर्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥

33.31

वारि.पुष्कर.पत्त्रेण.इव.आराग्रेण.इव.सर्षपः ।?
न.लिप्यते.यो.हि.पापैर्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
चन्द्रो.वा.विमलः.शुद्धो.विप्रसन्नो.ह्य्.अनाविलः ।
न.लिप्यते.यो.हि.कामैर्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
चन्द्रो.वा.विमलः.शुद्धो.विप्रसन्नो.ह्य्.अनाविलः ।
न.लिप्यते.यो.हि.पापैर्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
चन्द्रो.वा.विमलः.शुद्धो.विप्रसन्नो.ह्य्.अनाविलः ।
नन्दी.भव.परिक्षीणम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥

33.32

ध्यायिनम्.वीत.रजसम्.कृत.कृत्यम्.अनास्रवम् ।
क्षीण.आस्रवम्.विसम्युक्तम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥

33.33

गम्भीर.बुद्धिम्.मेधा.आढ्यम्.मार्ग.अमार्गेषु.कोविदम् ।
उत्तम.अर्थम्.अनुप्राप्तम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥

33.34

यस्.तु.कश्चिन्.मनुष्येषु.भैक्षाचर्येण.जीवति ।
अममो.अहिंसको.नित्यम्.धृतिमान्.ब्रह्मचर्यवान् ।
आज्ञाय.धर्मम्.देशयति.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥

33.35

सर्व.कामान्.विप्रहाय.यो.अनगारः.परिव्रजेत् ।
काम.आस्रव.विसम्युक्तम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥

33.36

निक्षिप्त.दण्डम्.भूतेषु.त्रसेषु.थावरेषु.च ।
यो.न.हन्ति.हि.भूतानि.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥

33.37

आकाशम्.इव.पङ्केन.रजसा.चन्द्रमा;इव ।
न.लिप्यते.यो.हि.कामैर्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥

33.38

आकाशम्.इव.पङ्केन.रजसा.चन्द्रमा;इव ।
न.लिप्यते.यो.हि.पापैर्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
आकाशम्.इव.पङ्केन.रजसा.चन्द्रमा;इव ।
नन्दी.भाव.परिक्षीणम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥

33.39

अविरुद्धो.विरुद्धेषु.त्व्.आत्त.दण्डेषु.निर्वृतः ।
हित.अनुकम्पी.भूतेषु.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥

33.40

यस्य.रागश्.च.दोषश्.च.मानो.ंरक्षश्.च.शातितः ।
न.लिप्यते.यश्.च.दोषैर्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥

33.41

य;इमाम्.परिखाम्.दुर्गाम्.संसार.ओघम्.उपत्यगात् ।
तीर्णः.पार.गतो.ध्यायी.ह्य्.अनेयो.निष्कथम्.कथः ।
निर्वृतश्.च.अनुपादाय.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
......................... ।
......................... ।
............ब्रवीमि.ब्राह्मणम्.हि.तम् ॥

33.42

न.विद्यते.यस्य.तृष्णा.च.अस्मिन्.लोके.परे.अपि.च ।
तृष्णा.भव.परिक्षीणम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥

33.43

न.विद्यते.यस्य.च.आशा.ह्य्.अस्मिन्.लोके.परे.अपि.च ।
निराशिषम्.विसम्युक्तम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥

33.44

हित्वा.रतिम्.च.अरतिम्.च.शीती.भूतो.निरौपधिः ।
सर्व.लोक.अभिभूर्.धीरो.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥

33.45

हित्वा.मनुष्यकान्.कामान्.दिव्यान्.कामान्.उपत्यगात् ।
सर्व.लोक.विसम्युक्तम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥

33.46

गतिम्.यस्य.न.जानन्ति.देव.गन्धर्व.मानुषाः ।
अनन्त.ज्ञान.सम्युक्तम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥

33.47

पूर्वे.निवासम्.यो.वेत्ति.स्वर्ग.अपायांश्.च.पश्यति ।[.स्वर्गापायांश्.च.]
अथ.जाति.क्षयम्.प्राप्तो.ह्य्.अभिज्ञा.व्यवसितो.मुनिः ।
दुह्खस्य.अन्तम्.प्रजानाति.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
........................ ।
..............ब्रवीमि.ब्राह्मणम्.हि.तम् ॥

33.48

च्युतिम्.यो.वेत्ति.सत्त्वानाम्.उपपत्तिम्.च.सर्वशः ।
असक्तः.सुगतो.बुद्धो.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥

33.49

सर्व.सम्योजन.अतीतो.यो.वै.न.परितस्यते ।[.परितप्यते.]?
असक्तः.सुगतो.बुद्धो.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥

33.50

ऋषभम्.प्रवरम्.नागम्.महर्षिम्.विजिताविनम् ।
अनेयम्.स्नातकम्.बुद्धम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
ऋषभः.प्रवरो.नागो.महर्षिर्.विजिताविनः ।
यो.अनेयः.स्नातको.बुद्धो.ब्राह्मणम्.तम्.ब्रवीम्य्.अहम् ॥

33.51

सर्व.अभिभूम्.भव.अतीतम्.ओघ.तीर्णम्.अनास्रवम् ।
पारम्.गतम्.विसम्युक्तम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
सर्व.अभिभूर्.भव.अतीत;ओघ.तीर्णो.विनायकः ।
पारगो.ह्य्.विसम्युक्तः.ब्राह्मणम्.तम्.ब्रवीम्य्.अहम् ॥

33.52

गत.अभिध्यम्.वीत.जल्पम्.पाप.चित्त.विवर्जितम् । [.गताभिध्यम्.]
ध्यायिनम्.वीत.रजसम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
न.अभिध्यायेन्.न.अभिजल्पेत्.पापकानाम्.विवर्जयेत् ।
आसीनो.विरजा.ध्यायी.ब्राह्मणम्.तम्.ब्रवीम्य्.अहम् ॥

33.53

पांसु.कूल.धरम्.भिक्षुम्.कामेषु.निरवेक्षिणम् ।
ध्यायन्तम्.वृक्ष.मूलस्थम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
पांसु.कूल.धरो.ह्रीमान्.कामेषु.निरवेक्षकः ।
निषण्णो.वृक्ष.मूले.यो.ब्राह्मणम्.तम्.ब्रवीम्य्.अहम् ॥

33.54

यस्य.आलयो.न.अस्ति.सदा.यो.ज्ञाता.निष्कथम्.कथः ।
अमृतम्.च.एव.यः.प्राप्तो.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥

33.55

यस्य.आलयो.न.अस्ति.सदा.यो.ज्ञाता.निष्कथम्.कथः ।
दूरम्.गमश्.च.एक.चरो.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
दूरम्.गमम्.एक.चरम्.अशरीरम्.गुहाशयम् ।
तेनै.............कस्य.ब्राह्मणम् ।
......... उ..................ब्राह्मणम्.तम्.ब्रवीम्य्.अहम् ॥

33.56

येषाम्.च.भावितो.मार्गः.आर्यो.ह्य्.अष्ट.अङ्गिकः.शिवः ।
सर्व.दुह्ख.प्रहाणाय.लोकेषु.ब्राह्मणा.हि.ते ॥

33.57

अरूपिणम्.सदा.चित्तम्.असारम्.अनिदर्शनम् ।
दमयित्वा.ह्य्.अभिज्ञाय.ये.चरन्ति.सदा.स्मृताः ।
क्षीण.सम्योजना.बुद्धा.लोकेषु.ब्राह्मणा.हि.ते ॥
अरूपम्.अनिदर्शनम्.अनन्तम्.असुदर्शनम् ।
सूक्ष्मम्.पदम्.अभिज्ञाय.ये.चरन्ति.सदा.स्मृताः ।
क्षीण.सम्योजना.बुद्धास्.ते.लोके.ब्राह्मणा;इह ॥
............................. ।
............................. ।

33.58

छित्त्वा.नद्ध्रीन्.वरत्रान्.च.संतानम्.दुरतिक्रमम् ।
उत्क्षिप्त.परिखम्.बुद्धम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
छित्त्वा.नद्ध्रीन्.वरत्रान्.ये.संतानम्.दुरतिक्रमम् ।
उत्क्षिप्त.परिखा.बुद्धास्.ते.लोके.ब्राह्मणा;इह ॥

33.59

छित्त्वा.नद्ध्रीन्.वरत्रान्.च.इच्छा.लोभम्.च.पापकम् ।
तृष्णाम्.समूलाम्.आवृह्य.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
छित्त्वा.नद्ध्रीन्.वरत्रान्.ये.इच्छा.लोभम्.च.पापकम् ।
समूलाम्.च.उद्धृतास्.तृष्णाम्.ते.लोके.ब्राह्मणा;इह ॥

33.60

छिन्द्धि.स्रोतः.पराक्रम्य.कामान्.प्रणुद.ब्राह्मण ।
संस्काराणाम्.क्षयम्.ज्ञात्वा.ह्य्.अकृतज्ञो.भविष्यति ॥
छिन्द्धि.स्रोतः.पराक्रम्य.कामान्.सर्वान्.प्रणुद.च ।
संस्काराणाम्.क्षयम्.ज्ञात्वा.ब्राह्मणो.याति.ह.अनिघः ॥

33.61

मातरम्.पितरम्.हत्वा.राजानम्.द्वौ.च.स्श्रोत्रियौ ।
राष्ट्रम्.सानुचरम्.हत्वा.अनिघो.याति.ब्राह्मणः ॥

33.62

मातरम्.पितरम्.हत्वा.राजानम्.द्वौ.च.श्रोत्रियौ ।
व्याघ्रम्.च.पञ्चमम्.हत्वा.शुद्ध;इत्य्.उच्यते.नरः ॥

33.63

न.ब्राह्मणस्य.प्रहरेन्.न.च.मुञ्चेत.ब्राह्मणः ।
धिग्.ब्राह्मणस्य.हन्तारम्.धिक्.तम्.यश्.च.प्रमुञ्चति ॥
.............................. ।
.............................. ।

33.64

यस्य.धर्मम्.विजानीयाद्.वृद्धस्य.दहरस्य.वा ।
सत्कृत्य.एनम्.नमस्येत.ह्य्.अग्नि.होत्रम्.इव.द्विजः ॥

33.65

यस्य.धर्मम्.विजानीयाद्.वृद्धस्य.दहरस्य.वा ।
सत्कृत्य.एनम्.परिचरेद्.अग्नि.होत्रम्.इव.द्विजः ॥

33.66

यस्य.धर्मम्.विजानीयाद्त्.सम्यक्.सम्बुद्ध.देशितम् ।
सत्कृत्य.एनम्.नमस्येत.ह्य्.अग्नि.होत्रम्.इव.द्विजः ॥

33.67

यस्य.धर्मम्.विजानीयात्.सम्यक्.सम्बुद्ध.देशितम् ।
सत्कृत्य.एनम्.परिचरेद्.अग्नि.होत्रम्.इव.द्विजः ॥

33.68

यदा.हि.स्वेषु.धर्मेषु.ब्राह्मणः.पारगो.भवेत् ।
अथ.च.एकः.पिशाचीम्.च.बक्कुलम्.च.अतिवर्तते ॥

33.69

यदा.हि.स्वेषु.धर्मेषु.ब्राह्मणः.पारगो.भवेत् ।
अथ.अस्य.वेदनाः.सर्वे;अस्तम्.गच्छन्ति.पश्यतः ॥

33.70

यदा.हि.स्वेषु.धर्मेषु.ब्राह्मणः.पारगो.भवेत् ।
अथ.अस्य.प्रत्ययाः.सर्वे;अस्तम्.गच्छन्ति.पश्यतः ॥

33.71

यदा.हि.स्वेषु.धर्मेषु.ब्राह्मणः.पारगो.भवेत् ।
अथ.अस्य.च.आस्रवाः.सर्वे;अस्तम्.गच्छन्ति.पश्यतः ॥

33.72

यदा.हि.स्वेषु.धर्मेषु.ब्राह्मणः.पारगो.भवेत् ।
अथ.अस्य.सर्व.सम्योगा;अस्तम्.गच्छन्ति.पश्यतः ॥

33.73

यदा.हि.स्वेषु.धर्मेषु.ब्राह्मणः.पारगो.भवेत् ।
अथ.जाति.जराम्.चैव.मरणम्.च.अतिवर्तते ॥

33.74

दिवा.तपति.ह.आदित्यो.रात्राव्.आभाति.चन्द्रमाः ।
सम्नद्धः.क्षत्रियस्.तपति.ध्यायी.तपति.ब्राह्मणः ।
अथ.नित्यम्.अहो.रात्रम्.बुद्धस्.तपति.तेजसा ॥

33.75

न.ब्राह्मणस्य.ईदृशम्.अस्ति.किंचिद्.यथा.प्रियेभ्यो.मनसो.निषेधः ।
यथा.यथा.ह्य्.अस्य.मनो.निवर्तते.तथा.तथा.संवृतम्.एति.दुह्खम् ॥

33.76

यदा.त्व्.इमे.तु.प्रभवन्ति.धर्मा;आतापिनो.ध्यायतो.ब्राह्मणस्य ।
अथ.अस्य.काङ्क्षा.व्यपयान्ति.सर्वा.यदा.प्रजानाति.सहेतु.दुह्खम् ॥

33.77

यदा.त्व्.इमे.तु.प्रभवन्ति.धर्मा;आतापिनो.ध्यायतो.ब्राह्मणस्य ।
अथ.अस्य.काङ्क्षा.व्यपयान्ति.सर्वा.यदा.प्रजानाति.सहेतु.धर्मम् ॥

33.78

यदा.त्व्.इमे.तु.प्रभवन्ति.धर्मा;आतापिनो.ध्यायतो.ब्राह्मणस्य ।
अथ.अस्य.काङ्क्षा.व्यपयान्ति.सर्वा.यदा.क्षयम्.प्रत्ययानाम्.उपैति ॥

33.79

यदा.त्व्.इमे.तु.प्रभवन्ति.धर्मा;आतापिनो.ध्यायतो.ब्राह्मणस्य ।
अथ.अस्य.काङ्क्षा.व्यपयान्ति.सर्वा.यदा.क्षयम्.वेदनानाम्.उपैति ॥

33.80

यदा.त्व्.इमे.तु.प्रभवन्ति.धर्मा;आतापिनो.ध्यायतो.ब्राह्मणस्य ।
अथ.अस्य.काङ्क्षा.व्यपयान्ति.सर्वा.यदा.क्षयम्.ह्य्.आस्रवाणाम्.उपैति ॥

33.81

यदा.त्व्.इमे.तु.प्रभवन्ति.धर्मा;आतापिनो.ध्यायतो.ब्राह्मणस्य ।
अवभासयंस्.तिष्ठति.सर्व.लोकम्.सूर्यो.यथा.एव.अभ्युदितो.अन्तरीक्षम् ॥

33.82

यदा.त्व्.इमे.तु.प्रभवन्ति.धर्मा;आतापिनो.ध्यायतो.ब्राह्मणस्य ।
अवभासयंस्.तिष्ठति.सर्व.लोकम्.बुद्धो.हि.सम्योजन.विप्रमुक्तः ॥

33.83

यदा.त्व्.इमे.तु.प्रभवन्ति.धर्मा;आतापिनो.ध्यायतो.ब्राह्मणस्य ।
विधूपयंस्.तिष्ठति.मार.सैन्यम्.बुद्धो.हि.सम्योजन.विप्रमुक्त;इति ॥

मूल पाठ: Udānavarga · Edition: Franz Bernhard, Goettingen 1965 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc