भाषा

ENहिગુ
ग्रंथ पाठ

उदानवर्ग · अध्याय 26

26.1

कूर्मो.यथा.अङ्गानि.स्वके.कपाले.समादधीत.आत्म.वितर्कितानि ।
अनिह्श्रितो.ह्य्.अन्यम्.अहेठयानः.परिनिर्वृतो.न.अपवदेत.कंचित् ॥

26.2

क्षान्तिः.परमम्.तपस्.तितीक्षा.निर्वाणम्.परमम्.वदन्ति.बुद्धाः ।[.तितिक्षा.]
न.हि.प्रव्रजितः.पर.उपतापी.श्रमणो.भवति.परम्.विहेठयन्.वै ॥

26.3

मा.कंचित्.परुषम्.ब्रूथः.प्रोक्ताः.प्रतिवदन्ति.तम् ।
दुह्खा.हि.संरम्भ.कथाः.प्रतिदण्डम्.स्पृशन्ति.हि ॥

26.4

यद्.ईरयसि.ह.आत्मानम्.कंसी.इव.उपहता.सदा ।
जाति.मरण.संसारम्.चिरम्.ह्य्.अनुभविष्यसि ॥

26.5

न.त्व्.ईरयसि.ह.आत्मानम्.कंसिर्.न.उपहता.यथा ।
एष.प्राप्तो.असि.निर्वाणम्.संरम्भस्.ते.न.विद्यते ॥

26.6

आरोग्य.परमा.लाभा.संतुष्टि.परमम्.धनम् ।
विश्वास.परमम्.मित्रम्.निर्वाण.परमम्.सुखम् ॥

26.7

क्षुधा.परम.रोगाणाम्.संस्कारा.दुह्खम्.एव.तु ।[.परमा.]?
एतज्.ज्ञात्वा.यथा.भूतम्.निर्वाण.परमो.भवेत् ॥

26.8

अल्पकाः.सुगतिम्.यान्ति.बहवो.यान्ति.दुर्गतिम् ॥
एतज्.ज्ञात्वा.यथा.भूतम्.निर्वाण.परमो.भवेत् ॥

26.9

सहेतुम्.सुगतिम्.यान्ति.सहेतुम्.यान्ति.दुर्गतिम् ।
सहेतुम्.परिनिर्वान्ति.ह्य्.एवम्.एतत्.सहेतुकम् ॥

26.10

गतिर्.मृगाणाम्.प्रवणम्.आकाशम्.पक्षिणाम्.गतिः ।
धर्मो.गतिर्.विभागीनाम्.निर्वाणम्.त्व्.अर्हताम्.गतिः ॥
....... ।
....... ।
..........न.संवसेत् ।
................... ।

26.11

न.हि.इदम्.हीन.वीर्येण.मन्देन.अप्य्.अविजानता ।
निर्वाणम्.शक्यम्.अधिगन्तुम्.सर्व.ग्रन्थ.प्रदालनम् ॥
..तः.कामेषु.नि............ ।
........................... ।

26.12

सिञ्च.भिक्षोर्.इमाम्.नावम्.सिक्ता.लघ्वी.भविष्यति ।
हित्वा.रागम्.च.दोषम्.च.ततो.निर्वाणम्.एष्यसि ॥

26.13

अभूत्.पूर्वे.ततो.न.अभून्.न.अभूत्.पूर्वे.ततो.ह्य्.अभूत् ।
न.च.अभून्.न.भविष्यति.न.वा.अप्य्.एतर्हि.विद्यते ॥

26.14

दुर्दृशम्.सत्यम्.अचलम्.सुदृशम्.प्रतिविध्यतः ।
तृष्णा.क्षयम्.पश्यतो.हि.दुह्खस्य.अन्तो.निरुच्यते ॥

26.15

छित्त्वा.तृष्णाम्.प्रशाम्य.इह.रजः.सर्वम्.समाहितः ।
विशोषयित्वा.सरिताम्.दुह्खस्य.अन्तो.निरुच्यते ॥

26.16

भित्त्वा.कायम्.च.संज्ञाम्.च.वेदनाम्.व्युपशाम्य.च ।
विज्ञान.अस्त.गमम्.लब्ध्वा.दुह्खस्य.अन्तो.निरुच्यते ॥

26.17

दृष्टे.तु.दृष्ट.मात्रेण.श्रुते.च.श्रुत.मात्रता ।
मते.तथैव.विज्ञाते.दुह्खस्य.अन्तो.निरुच्यते ॥

26.18

एने.मेमे.तथा.दप्फे.दडप्फे.च.इति.बुध्यतः ।
सर्वस्माद्.विरतिः.पापाद्.दुह्खस्य.अन्तो.निरुच्यते ॥

26.19

माशा.तुषा.संशमा.च.सर्वत्र.विरडी.तथा ।
सर्वस्माद्.विरतिः.पापाद्.दुह्खस्य.अन्तो.निरुच्यते ॥

26.20

अनिह्श्रितस्य.अचलितम्.प्रस्रब्धिश्.च.इह.विद्यते ।
न.गतिर्.न.च्युतिश्.चैव.दुह्खस्य.अन्तो.निरुच्यते ॥

26.21

अजाते.सति.जातस्य.वदेन्.निह्सरणम्.सदा ।
असंस्कृतम्.च.सम्पश्यन्.संस्कृतात्.परिमुच्यते ॥

26.22

जातम्.भूतम्.समुत्पन्नम्.कृतम्.संस्कृतम्.अध्रुवम् ।
जरा.मरण.संघातम्.मोष.धर्म.प्रलोपनम् ।
आहार.नेत्री.प्रभवम्.न.अलम्.तद्.अभिनन्दितुम् ॥

26.23

तस्य.निह्ह्सरणम्.शान्तम्.अतर्क.अवचरम्.पदम् ।[.अतर्कावचरम्.]
निरोधो.दुह्ख.धर्माणाम्.संस्कार.उपशमम्.सुखम् ॥

26.24

अभिजानाम्य्.अहम्.स्थानम्.यत्र.भूतम्.न.विद्यते ।
न.आकाशम्.न.च.विज्ञानम्.न.सूर्यश्.चन्द्रमा.न.च ॥

26.25

न.एव.अगतिर्.न.च.गतिर्.न.उपपत्तिश्.च्युतिर्.न.च ।
अप्रतिष्ठम्.अनालम्बम्.दुह्ख.अन्तः.स.निरुच्यते ॥

26.26

यत्र.न.आपो.न.पृथिवी.तेजो.वायुर्.न.गाहते ।
न.तत्र.शुक्ला.द्योतन्ति.तमस्.तत्र.न.विद्यते ॥

26.27

न.तत्र.चन्द्रमा.भाति.न.आदित्यो.वै.प्रकाश्यते ।
यथा.त्व्.इह.आत्मना.वेत्ति.मुनिर्.मौनेयम्.आत्मनः ।
अथ.रूपाद्.अरूपाच्.च.सर्व.दुह्खात्.प्रमुच्यते ॥

26.28

निष्ठा.गतो.ह्य्.असंत्रासी.न.विकन्थी.न.कौकृतिः ।[.विकण्ठी.]?
अच्छेत्ता.भव.शल्यानाम्.अन्तिमो.अस्य.समुच्छ्रयः ॥

26.29

एषा.हि.परमा.निष्ठा.शान्तम्.पदम्.अनुत्तरम् ।
क्षयः.सर्व.निमित्तानाम्.प्रदान.पदम्.अच्युतम् ॥

26.30

तुल्यम्.अतुल्यम्.च.सम्भवम्.भव.संस्कारम्.अवासृजन्.मुनिः ।
आध्यात्म.रतः.समाहितो.ह्य्.अभिनत्.कोशम्.इव.अण्ड.सम्भवम् ॥

26.31

जयते.दानम्.धर्म.दानम्.च.सर्वम्.जयते.रतिम्.धर्म.रतिंश्.च.सर्वाम् ।
जयते.बलम्.क्षान्ति.बलम्.च.सर्वम्.जयते.सुखम्.सर्व.तृष्णा.निरोधः ॥
सर्वम्.दानम्.धर्म.दानम्.जिनाति.सर्वाम्.रतिम्.धर्म.रतिम्.जिनाति ।
सर्वम्.बलम्.क्षान्ति.बलम्.जिनाति.तृष्णा.क्षयः.सर्व.सुखम्.जिनाति ॥

मूल पाठ: Udānavarga · Edition: Franz Bernhard, Goettingen 1965 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc