भाषा

ENहिગુ
ग्रंथ पाठ

उदानवर्ग · अध्याय 25

25.1

अश्राद्धेभिः.कदर्येभिः.पिषुनैर्.विभूति.नन्दिभिः ।
साख्यम्.कुर्वीत.न.प्राज्ञः.संगतिः.पापैर्.हि.पापिका ॥

25.2

श्राद्धेभिः.पेशलेभिश्.च.शीलवद्भिर्.बहु.श्रुतैः ।
साख्यम्.कुर्वीत.सप्रज्ञः.संगतिर्.भद्रैर्.हि.भद्रिका ॥?

25.3

न.भजेत्.पापकम्.मित्रम्.न.भजेत्.पुरुष.अधमम् ।
भजेत.मित्रम्.कल्याणम्.भजेद्.उत्तम.पूरुषम् ॥

25.4

अद्धा.नराः.सेवितव्याः.श्रुत.आढ्याः.स्थान.चिन्तकाः ।
तेषाम्.हि.श्रुत्वा.तु.सुभाषितानि.विना.अपि.तेभ्यो.लभते.विशेषम् ॥

25.5

हीयति.पुरुषो.निहीन.सेवी.न.तु.खलु.हायेत.तुल्य.सेवी ।
श्रेष्ठम्.उपगतो.ह्य्.उपैति.श्रैष्ठ्यम्.तस्मात्.श्रेष्ठम्.इह.आत्मनो.भजेत ॥

25.6

श्रेयो.हि.लभते.नित्यम्.यः.श्रेष्ठान्.उपसेवते ।
प्रज्ञया.च.उत्तमतमान्.शीलेन.उपशमेन.च ॥

25.7

पूति.मत्स्यान्.कुश.अग्रेण.यो.नरो.ह्य्.उपनह्यते ।
कुशा.अपि.पूतिका.वान्ति.ह्य्.एवम्.पाप.उपसेवनाः ॥

25.8

तगरम्.पलाश.पत्त्रेण.यो.नरो.ह्य्.उपनह्यति ।
पत्त्राण्य्.अपि.सुगन्धीनि.सद्.एवम्.संगमात्.सताम् ॥

25.9

अकुर्वन्न्.अपि.पापानि.कुर्वाणम्.उपसेवते ।
शङ्कितो.भवति.पापस्य.अवर्णश्.च.अस्य.वर्धते ॥

25.10

संसेवमानः.पापो.हि.संस्पृष्टः.संस्पृशेत्.परान् ।
शरो.लिप्तः.कलापस्थान्.अलिप्तान्.उपलिम्पति ।
उपलेप.भयाद्.धीरो.न.एव.पाप.सखा.भवेत् ॥

25.11

यादृशम्.कुरुते.मित्रम्.यादृशम्.च.उपसेवते ।
न.चिरात्.तादृशो.भवति.संसेवा.ह्य्.अस्य.तादृशी ॥

25.12

तस्मात्.फल.पुटस्य.एव.दृष्ट्वा.सम्पाकम्.आत्मनः ।
असन्तो.न.उपसेवेत.सन्तः.सेवेत.पण्डितः ॥

25.13

यावज्.जीवम्.पि.चेद्.बालः.पण्डितान्.पर्युपासते ।
न.स.धर्मम्.विजानाति.दर्वी.सूप.रसान्.इव ॥

25.14

मुहूर्तम्.अपि.सप्रज्ञः.पण्डितान्.पर्युपासते ।
स.वै.धर्मम्.विजानाति.जिह्वा.सूप.रसान्.इव ॥

25.15

यावज्.जीवम्.पि.चेद्.बालः.पण्डितान्.पर्युपासते ।
न.स.धर्मम्.विजानाति.प्रज्ञा.ह्य्.अस्य.न.विद्यते ॥

25.16

मुहूर्तम्.अपि.सप्रज्ञः.पण्डितान्.पर्युपासते ।
स.वै.धर्मम्.विजानाति.प्रज्ञा.तस्य.हि.विद्यते ॥

25.17

यावज्.जीवम्.पि.चेत्.बालः.पण्डितान्.पर्युपासते ।
न.स.धर्मम्.विजानाति.सम्यक्.सम्बुद्ध.देशितम् ॥

25.18

मुहूर्तम्.अपि.सप्रज्ञः.पण्डितान्.पर्युपासते ।
स.वै.धर्मम्.विजानाति.सम्यक्.सम्बुद्ध.देशितम् ॥

25.19

एकम्.अर्थ.पदम्.प्रोक्तम्.पण्डितस्य.अर्थ.कारकम् ।
बालस्य.तु.न.कृत्याय.स्यात्.सर्वम्.बुद्ध.भाषितम् ॥

25.20

बालः.पद.सहस्रेण.पदम्.एकम्.न.बुध्यते ।
पदेन.एकेन.मेधावी.पदानाम्.विन्दते.शतम् ॥

25.21

अमित्रः.पण्डितः.श्रेयान्.न.तु.बालो.अनुकम्पकः ।
बालो.अनुकम्पमानो.हि.नरकान्.उपकर्षति ॥

25.22

यो.जानीयाद्.अहम्.बाल;इति.बालः.स.पण्डितः ।
बालः.पण्डित.मानी.तु.बाल;एव.निरुच्यते ॥

25.23

यच्.च.बालः.प्रशंसेत.यच्.च.निन्देत.पण्डितः ।
निन्दा.तु.पण्डितात्.श्रेष्ठा.न.तु.बालात्.प्रशंसना ॥

25.24

बालम्.न.पश्येत्.शृणुयान्.न.च.नो.तेन.संवसेत् ।
दुह्खो.बालैर्.हि.संवासो.ह्य्.अमित्रेण.एव.सर्वशः ।
धीरैस्.तु.सुख.संवासो.ज्ञातीनाम्.इव.संगमः ॥

25.25

धीरम्.प्राज्ञम्.निषेवेत.शीलवन्तम्.बहु.श्रुतम् ।
धौरेयम्.जव.सम्पन्नम्.चन्द्रम्.तारा.गणा;इव ॥[.धैरेयम्.]?

मूल पाठ: Udānavarga · Edition: Franz Bernhard, Goettingen 1965 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc