उदानवर्ग · अध्याय 24
यच्.च.गाथा.शतम्.भाषेद्.अनर्थ.पद.संहितम् ।
एकम्.अर्थ.पदम्.श्रेयो.यत्.श्रुत्वा.ह्य्.उपशाम्यति ॥
यच्.च.गाथा.शतम्.भाषेद्.अधर्म.पद.संहितम् ।
एकम्.धर्म.पदम्.श्रेयो.यत्.श्रुत्वा.ह्य्.उपशाम्यति ॥
यच्.च.वर्ष.शतम्.जीवेद्.दुह्शीलो.ह्य्.असमाहितः ।
एक.अहम्.जीवितम्.श्रेयः.सदा.शीलवतः.शुचेः ॥
यच्.च.वर्ष.शतम्.जीवेद्.दुष्प्रज्ञो.ह्य्.असमाहितः ।
एक.अहम्.जीवितम्.श्रेयः.प्राज्ञस्य.ध्यायिनः.सदा ॥
यच्.च.वर्ष.शतम्.जीवेत्.कुसीदो.हीन.वीर्यवान् ।
एक.अहम्.जीवितम्.श्रेयो.वीर्यम्.आरभतो.दृढम् ॥
यच्.च.वर्ष.शतम्.जीवेद्.अपश्यन्न्.उदय.व्ययम् ।
एक.अहम्.जीवितम्.श्रेयः.पश्यतो.ह्य्.उदय.व्ययम् ॥
यच्.च.वर्ष.शतम्.जीवेद्.अपश्यन्.वेदना.क्षयम् ।
एक.अहम्.जीवितम्.श्रेयः.पश्यतो.वेदना.क्षयम् ॥
यच्.च.वर्ष.शतम्.जीवेद्.अपश्यन्न्.आस्रव.क्षयम् ।
एक.अहम्.जीवितम्.श्रेयः.पश्यतो.ह्य्.आस्रव.क्षयम् ॥
यच्.च.वर्ष.शतम्.जीवेद्.अपश्यन्न्.अचलम्.पदम् ।
एक.अहम्.जीवितम्.श्रेयः.पश्यतो.ह्य्.अचलम्.पदम् ॥
यच्.च.वर्ष.शतम्.जीवेद्.अपश्यन्न्.अच्युतम्.पदम् ।
एक.अहम्.जीवितम्.श्रेयः.पश्यतो.ह्य्.अच्युतम्.पदम् ॥
यच्.च.वर्ष.शतम्.जीवेद्.अपश्यन्न्.अरजः.पदम् ।
एक.अहम्.जीवितम्.श्रेयः.पश्यतो.ह्य्.अरजः.पदम् ॥
यच्.च.वर्ष.शतम्.जीवेद्.अपश्यन्.विरजः.पदम् ।
एक.अहम्.जीवितम्.श्रेयः.पश्यतो.विरजः.पदम् ॥
यच्.च.वर्ष.शतम्.जीवेद्.अपश्यन्.दुर्दृशम्.पदम् ।
एक.अहम्.जीवितम्.श्रेयः.पश्यतो.दुर्दृशम्.पदम् ॥
यच्.च.वर्ष.शतम्.जीवेद्.अपश्यन्न्.उत्तमम्.पदम् ।
एक.अहम्.जीवितम्.श्रेयः.पश्यतो.ह्य्.उत्तमम्.पदम् ॥
यच्.च.वर्ष.शतम्.जीवेद्.अपश्यन्न्.अमृतम्.पदम् ।
एक.अहम्.जीवितम्.श्रेयः.पश्यतो.ह्य्.अमृतम्.पदम् ॥
यच्.च.वर्ष.शतम्.पूर्णम्.अग्निम्.परिचरेद्.वने ।
यच्.च.एकम्.भावित.आत्मानम्.मुहूर्तम्.अपि.पूजयेत् ।
सा.तस्य.पूजना.श्रेष्ठा.न.तद्.वर्ष.शतम्.हुतम् ॥
मासे.मासे.कुश.अग्रेण.यो.हि.भुञ्जीत.भोजनम् ।
न.तद्.बुद्धे.प्रसादस्य.कलाम्.अर्घति.षोडशीम् ॥
मासे.मासे.कुश.अग्रेण.यो.हि.भुञ्जीत.भोजनम् ।
न.तद्.धर्मे.प्रसादस्य.कलाम्.अर्घति.षोडशीम् ॥
मासे.मासे.कुश.अग्रेण.यो.हि.भुञ्जीत.भोजनम् ।
न.तद्.संघे.प्रसादस्य.कलाम्.अर्घति.षोडशीम् ॥
मासे.मासे.कुश.अग्रेण.यो.हि.भुञ्जीत.भोजनम् ।
न.तत्.शीले.प्रसादस्य.कलाम्.अर्घति.षोडशीम् ॥
मासे.मासे.कुश.अग्रेण.यो.हि.भुञ्जीत.भोजनम् ।
न.तम्.मैत्रस्य.चित्तस्य.कलाम्.अर्घति.षोडशीम् ॥
मासे.मासे.कुश.अग्रेण.यो.हि.भुञ्जीत.भोजनम् ।
न.तत्.सत्त्व.अनुकम्पायाः.कलाम्.अर्घति.षोडशीम् ॥
मासे.मासे.कुश.अग्रेण.यो.हि.भुञ्जीत.भोजनम् ।
न.तत्.प्राण.अनुकम्पायाः.कलाम्.अर्घति.षोडशीम् ॥
मासे.मासे.कुश.अग्रेण.यो.हि.भुञ्जीत.भोजनम् ।
न.तद्.भूत.अनुकम्पायाः.कलाम्.अर्घति.षोडशीम् ॥
मासे.मासे.कुश.अग्रेण.यो.हि.भुञ्जीत.भोजनम् ।
न.तत्.स्वाख्यात.धर्मस्य.कलाम्.अर्घति.षोडशीम् ॥
मासे.मासे.सहस्रेण.यो.यजेत.समा.शतम् ।
न.तद्.बुद्धे.प्रसादस्य.कलाम्.अर्घति.षोडशीम् ॥
मासे.मासे.सहस्रेण.यो.जयेत.समा.शतम् ।
न.तद्.धर्मे.प्रसादस्य.कलाम्.अर्घति.षोडशीम् ॥
मासे.मासे.सहस्रेण.यो.यजेत.समा.शतम् ।
न.तद्.संघे.प्रसादस्य.कलाम्.अर्घति.षोडशीम् ॥
मासे.मासे.सहस्रेण.यो.यजेत.समा.शतम् ।
न.तत्.शीले.प्रसादस्य.कलाम्.अर्घति.षोडशीम् ॥
मासे.मासे.सहस्रेण.यो.यजेत.समा.शतम् ।
न.तम्.मैत्रस्य.चित्तस्य.कलाम्.अर्घति.षोडशीम् ॥
मासे.मासे.सहस्रेण.यो.यजेत.समा.शतम् ।
न.तद्.सत्त्व.अनुकम्पायाः.कलाम्.अर्घति.षोडशीम् ॥
मासे.मासे.सहस्रेण.यो.यजेत.समा.शतम् ।
न.तत्.प्राण.अनुकम्पायाः.कलाम्.अर्घति.षोडशीम् ॥
मासे.मासे.सहस्रेण.यो.यजेत.समा.शतम् ।
न.तद्.भूत.अनुकम्पायाः.कलाम्.अर्घति.षोडशीम् ॥
मासे.मासे.सहस्रेण.यो.यजेत.समा.शतम् ।
न.तत्.स्वाख्यात.धर्मस्य.कलाम्.अर्घति.षोडशीम् ॥
यत्.किंचिद्.इष्टम्.च.हुतम्.च.लोके.संवत्सरम्.यजति.पुण्य.प्रेक्षी ।
सर्वम्.पि.तम्.न.चतुर्.भागम्.एति.अभिवादनम्.त्व्.ऋज्जु.गतेषु.श्रेयः ॥
मूल पाठ: Udānavarga · Edition: Franz Bernhard, Goettingen 1965 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0