भाषा

ENहिગુ
ग्रंथ पाठ

उदानवर्ग · अध्याय 23

23.1

सुभाषितस्य.शिक्षेत.श्रमण.उपासनस्य.च ।
एक.आसनस्य.च.रहश्.चित्त.व्युपशमस्य.च ॥[.एकासनस्य.]

23.2

एक.आसनम्.त्व्.एक.शय्याम्.एक.चर्याम्.अतन्द्रितः ।
रमयेच्.च.एकम्.आत्मानम्.वनेष्व्.एकः.सदा.वसेत् ॥

23.3

यः.सहस्रम्.सहस्राणाम्.संग्रामे.द्विषताम्.जयेत् ।
यश्.च.आत्मानम्.जयेद्.एकम्.संग्रामो.दुजयः.स.वै ॥

23.4

आत्मा.ह्य्.अस्य.जितः.श्रेयान्.यच्.च.इयम्.इतराः.प्रजाः ।[यच्.चेयम्.]
आत्म.दान्तस्य.पुरुषस्य.नित्यम्.संवृत.चारिणः ॥

23.5

न.देवा.न.अपि.गन्धर्वा.न.मारो.ब्राह्मणा.सह ।
जितस्य.अपजितम्.कुर्युस्.तथा.प्राज्ञस्य.भिक्षुणः ॥

23.6

आत्मानम्.एव.प्रथमम्.प्रतिरूपे.निवेशयेत् ।
ततो.अन्यम्.अनुशासीत.............यथा.ह्य्.अः. ॥

23.7

आत्मानम्.एव.प्रथमम्.प्रतिरूपे.निवेशयेत् ।
ततो.अन्यम्.अनुशासीत.न.क्लिश्येत.हि.पण्डितः ॥

23.8

आत्मानम्.हि.तथा.कुर्यात्.शासीत.अन्यम्.यथा.स्वयम् ।
सुदान्तो.बत.मे.नित्यम्.आत्मा.स.हि.सुदुर्दमः ॥

23.9

आत्मानम्.हि.तथा.कुर्यात्.शासीत.अन्यम्.यथा.स्वयम् ।
आत्मा.दान्तो.मया.नित्यम्.आत्म.दान्तो.हि.पण्डितः ॥

23.10

आत्मनो.अर्थम्.पर.अर्थेन.बहुना.अपि.न.हापयेत् ।
आत्म.अर्थम्.परमम्.ज्ञात्वा.स्वक.अर्थ.परमो.भवेत् ॥

23.11

आत्मा.त्व्.इह.आत्मनो.नाथः.को.नु.नाथः.परो.भवेत् ।
आत्मना.हि.सुदान्तेन.नाथम्.लभति.पण्डितः ॥

23.12

आत्मा.त्व्.इह.आत्मनो.नाथः.को.नु.नाथः.परो.भवेत् ।
आत्मना.हि.सुदान्तेन.अर्थम्.लभति.पण्डितः ॥

23.13

आत्मा.त्व्.इह.आत्मनो.नाथः.को.नु.नाथः.परो.भवेत् ।
आत्मना.हि.सुदान्तेन.धर्मम्.लभति.पण्डितः ॥

23.14

आत्मा.त्व्.इह.आत्मनो.नाथः.को.नु.नाथः.परो.भवेत् ।
आत्मना.हि.सुदान्तेन.यशो.लभति.पण्डितः ॥

23.15

आत्मा.त्व्.इह.आत्मनो.नाथः.को.नु.नाथः.परो.भवेत् ।
आत्मना.हि.सुदान्तेन.कीर्तिम्.लभति.पण्डितः ॥

23.16

आत्मा.त्व्.इह.आत्मनो.नाथः.को.नु.नाथः.परो.भवेत् ।
आत्मना.हि.सुदान्तेन.सुखाम्.लभति.पण्डितः ॥

23.17

आत्मा.त्व्.इह.आत्मनो.नाथः.को.नु.नाथः.परो.भवेत् ।
आत्मना.हि.सुदान्तेन.स्वर्गम्.लभति.पण्डितः ॥

23.18

आत्मा.त्व्.इह.आत्मनो.नाथः.को.नु.नाथः.परो.भवेत् ।
आत्मना.हि.सुदान्तेन.चिरम्.स्वर्गे.प्रतिष्ठति ॥

23.19

आत्मा.त्व्.इह.आत्मनो.नाथः.को.नु.नाथः.परो.भवेत् ।
आत्मना.हि.सुदान्तेन.प्रज्ञाम्.लभति.पण्डितः ॥

23.20

आत्मा.त्व्.इह.आत्मनो.नाथः.को.नु.नाथः.परो.भवेत् ।
आत्मना.हि.सुदान्तेन.ज्ञाति.मध्ये.विरोचते ॥

23.21

आत्मा.त्व्.इह.आत्मनो.नाथः.को.नु.नाथः.परो.भवेत् ।
आत्मना.हि.सुदान्तेन.शोक.मध्ये.न.शोचति ॥

23.22

आत्मा.त्व्.इह.आत्मनो.नाथः.को.नु.नाथः.परो.भवेत् ।
आत्मना.हि.सुदान्तेन.सर्वम्.छिन्दति.बन्धनम् ॥

23.23

आत्मा.त्व्.इह.आत्मनो.नाथः.को.नु.नाथः.परो.भवेत् ।
आत्मना.हि.सुदान्तेन.सर्वास्.त्यजति.दुर्गतीः ॥

23.24

आत्मा.त्व्.इह.आत्मनो.नाथः.को.नु.नाथः.परो.भवेत् ।
आत्मना.हि.सुदान्तेन.सर्व.दुह्खात्.प्रमुच्यते ॥

23.25

आत्मा.त्व्.इह.आत्मनो.नाथः.को.नु.नाथः.परो.भवेत् ।
आत्मना.हि.सुदान्तेन.निर्वाणस्य.एव.सो.अन्तिके ॥

मूल पाठ: Udānavarga · Edition: Franz Bernhard, Goettingen 1965 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc