भाषा

ENहिગુ
ग्रंथ पाठ

उदानवर्ग · अध्याय 22

22.1

साधु.श्रुतम्.सुचरितम्.साधु.च.अप्य्.अनिकेतता ।
प्रदक्षिणम्.प्रव्रज्या.च.श्रामण्यस्य.अनुलोमिकम् ॥

22.2

बाला;इह.अविजानन्तश्.चरन्ति.ह्य्.अमरा;इव ।
विजानताम्.तु.सद्.धर्मम्.आतुरस्य.एव.शर्वरी ॥

22.3

यथा.ह्य्.अगारम्.सुच्छन्नम्.प्रविश्य.तमसा.स्फुटम् ।[.सु.छ्हन्नम्.]
विद्यमानानि.रूपाणि.चक्षुष्मान्.हि.न.पश्यति ॥

22.4

तथैव.इह.नरो.नित्यम्.ज्ञानवान्.अपि.यो.भवेत् ।
अश्रुत्वा.न.विजानाति.धर्मान्.कल्याण.पापकान् ॥

22.5

प्रदीपेन.तु.रूपाणि.चक्षुष्मान्.पश्यते.यथा ।
एवम्.श्रुत्वा.विजानाति.धर्मान्.कल्याण.पापकान् ॥

22.6

श्रुत्वा.धर्मान्.विजानाति.श्रुत्वा.पापम्.न.सेवते ।
श्रुत्वा.ह्य्.अनर्थम्.वर्जयते.श्रुत्वा.प्राप्नोति.निर्वृतिम् ॥

22.7

बहु.श्रुतो.अपि.चेद्.भवति.शीलेषु.त्व्.असमाहितः ।
शीलतस्.तम्.विगर्हन्ति.न.अस्य.सम्पद्यते.श्रुतम् ॥

22.8

अल्प.श्रुतो.अपि.चेद्.भवति.शीलेषु.सुसमाहितः ।
शीलतस्.तम्.प्रशंसन्ति.तस्य.सम्पद्यते.श्रुतम् ॥

22.9

अल्प.श्रुतो.अपि.चेद्.भवति.शीलेषु.त्व्.असमाहितः ।
उभयतस्.तम्.विगर्हन्ति.न.अस्य.सम्पद्यते.व्रतम् ॥

22.10

बहु.श्रुतो.अपि.चेद्.भवति.शीलेषु.सुसमाहितः ।
उभयतस्.तम्.प्रशंसन्ति.तस्य.सम्पद्यते.व्रतम् ॥

22.11

बहु.श्रुतम्.धर्म.धरम्.प्राज्ञम्.नित्यम्.समाहितम् ।
निष्कम्.जाम्बुनदस्य.एव.कस्.तम्.निन्दितुम्.अर्हति ॥

22.12

ये.मे.रूपेण.मिन्वन्ति.ये.मे.घोषेण.च.अन्वगाः ।
छन्द.राग.वश.उपेता.न.माम्.जानन्ति.ते.जनाः ॥
ये.रूपेण.प्रमिण्वन्ति.माम्.घोषेण.अनुयान्ति.च ।
छन्द.राग.वश.उपेता.न.माम्.जानन्ति.ते.जनाः ॥

22.13

आध्यात्मम्.च.न.जानाति.बहिर्धा.तु.विपश्यति ।
बहिर्धा.फल.दर्शी.तु.स.वै.घोषेण.नीयते ॥

22.14

आध्यात्मम्.तु.प्रजानाति.बहिर्धा.च.न.पश्यति ।
आध्यात्म.फल.दर्शी.तु.स.वै.घोषेण.नीयते ॥

22.15

आध्यात्मम्.च.न.जानान्ति.बहिर्धा.च.न.पश्यति ।
उभये.अफल.दर्शी.तु.स.वै.घोषेण.नीयते ॥

22.16

आध्यात्मम्.च.प्रजानाति.बहिर्धा.च.विपश्यति ।
स.तु.निह्सरण.प्रज्ञो.न.वै.घोषेण.नीयते ॥

22.17

बहु.शृणोति.श्रोत्रेण.बहू.पश्यति.चक्षुषा ।
न.तद्.दृष्टम्.श्रुतम्.धीरः.सर्वम्.श्रद्धातुम्.अर्हति ॥
श्रोत्रेण.श्रूयते.बहु.दृश्यते.बहु.चक्षुषा ।
न.तद्.दृष्टम्.श्रुतम्.धीरः.सर्वम्.श्रद्धातुम्.अर्हति ॥

22.18

विज्ञान.साराणि.सुभाषितानि.ज्ञातम्.श्रुतम्.चैव.समाधि.सारम् ।
न.तस्य.विज्ञान.श्रुतम्.महा.अर्थम्.यः.साहसो.भवति.नरः.प्रमत्तः ॥

22.19

धर्मे.तु.ये.ह्य्.आर्य.निवेदिते.रतास्.तदा.चरन्ते.वचसा.यदा.आहुः ।
ते.क्षान्ति.सौरत्य.समाधि.गोचराः.श्रुतस्य.बुद्धेर्.अपि.सारम्.अध्यगुः ॥

मूल पाठ: Udānavarga · Edition: Franz Bernhard, Goettingen 1965 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc