उदानवर्ग · अध्याय 21
सर्व.अभिभूः.सर्वविद्.एव.च.अस्मि.सर्वैश्.च.धर्मैः.सततम्.न.लिप्तः ।
सर्वम्.जहः.सर्व.भयाद्.विमुक्तः.स्वयम्.ह्य्.अभिज्ञाय.कम्.उद्दिशेयम् ॥
कम्.उद्दिशेयम्.त्व्.असमो.ह्य्.अतुल्यः.स्वयम्.प्रवक्ता.ह्य्.अधिगम्य.बोधिम् ।
तथागतो.देव.मनुष्य.शास्ता.सर्वज्ञताम्.प्राप्य.बलैर्.उपेतः ॥
अहम्.हि.लोकेष्व्.अरहन्न्.अहम्.लोकेष्व्.अनुत्तरः.सदेवकेषु.लोकेषु.च.अहम्.मार.अभिभूर्.जिनः ॥
आचार्यो.मे.न.वै.कश्चित्.सदृशस्.च.न.विद्यते ।
एको.अस्मिन्.लोके.सम्बुद्धः.प्राप्तः.सम्बोधिम्.उत्तमाम् ॥
जिना.हि.मादृशा.ज्ञेया.ये.प्राप्ता.ह्य्.आस्रव.क्षयम् ।
जिता.मे.पापका.धर्मास्.ततो.अहम्.उपगा.जिनः ॥
बाराणसीम्.गमिष्यामि.हनिष्ये.अमृत.दुन्दुभिम् ।
धर्म.चक्रम्.प्रवर्तयिष्ये.लोकेष्व्.अप्रतिवर्तितम् ॥
न.हि.सन्तः.प्रकाश्यन्ते.विदित्वा.लोक.पर्यायम् ।
आदेशयन्तो.विरजः.पदम्.शान्त.मनीषिणः ॥
नदन्ति.इह.महा.वीरः.सद्.धर्मेण.तथागताः ।
धर्मेण.नदमानानाम्.के.त्व्.असूयेद्.विजानकाः ॥
ये.ध्यान.प्रसृता.धीरा.नैष्क्रम्य.उपशमे.रताः ।
देवा.अपि.स्पृहयन्त्य्.एषाम्.बुद्धानाम्.श्रीमताम्.सदा ॥
तेषाम्.देवा.मनुष्याश्.च.सम्बुद्धानाम्.यशस्विनाम् ।
स्पृहयन्त्य्.आशु.बुद्धीनाम्.शरीर.अन्तिम.धारिणाम् ॥
ये.च.अभ्यतीताः.सम्बुद्धा.ये.च.बुद्धा.ह्य्.अनागताः ।
यश्.च.अप्य्.एतर्हि.सम्बुद्धो.बहूनाम्.शोक.नाशकः ॥
सर्वे.सद्.धर्म.गुरवो.व्याहार्षु.विहरन्ति.च ।
अथ.अपि.विहरिष्यन्ति;एषा.बुद्धेषु.धर्मता ॥
तस्माद्.इह.आत्म.कामेन.माहात्म्यम्.अभिकाङ्क्षता ।
सद्.धर्मो.गुरु.कर्तव्यः.स्मरता.बुद्ध.शासनम् ॥
न.श्रद्धास्यन्ति.वै.ये.तु.नरा.बुद्धस्य.शासनम् ।
व्यसनम्.ते.गमिष्यन्ति.वणिजो.राक्षसीष्व्.इव ॥
श्रद्धास्यन्ति.तु.ये.नित्यम्.नरा.बुद्धस्य.शासनम् ।
स्वस्तिना.ते.गमिष्यन्ति.वालाहेन.एव.वाणिजाः ॥
तथागतम्.बुद्धम्.इह.स्वयम्भुवम्.द्वौ.वै.वितर्कौ.बहुलम्.समुदाचरेते ।
क्षेमस्.तथैव.प्रविवेक.युक्तस्.तमो.नुदम्.पार.गतम्.महर्षिम् ॥
प्राप्तः.स.च.आर्यो.वशिताम्.अशेषाम्.विश्व.उत्तरः.सर्व.भयाद्.विमुक्तः ।
तृष्णा.प्रहीणो.विमलो.निराशश्.च.आलोकयन्.लोक.हिताय.सत्त्वान् ॥
शैले.यथा.पर्वत.मूर्धनि.स्थितो.यथा.एव.पश्येज्.जनताम्.समन्तात् ।
तथा.ह्य्.असौ.धर्म.मयम्.सुमेधाः.प्रासादम्.आरुह्य.समन्त.चक्षुः ।
शोक.अभिभूताम्.जनताम्.अशोको.अद्राक्षीद्.इमाम्.जाति.जरा.अभिभूताम् ॥
मूल पाठ: Udānavarga · Edition: Franz Bernhard, Goettingen 1965 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0