भाषा

ENहिગુ
ग्रंथ पाठ

उदानवर्ग · अध्याय 20

20.1

क्रोधम्.जहेद्.विप्रजहेच्.च.मानम्.सम्योजनम्.सर्वम्.अतिक्रमेत ।
तम्.नाम्ने.रूपे.च;असज्यमानम्.अकिंचनम्.न.अनुपतन्ति.संगाः ॥

20.2

क्रोधम्.जहेद्.उत्पतितम्.रागम्.जातम्.निवारयेत् ।
अविद्याम्.प्रजहेद्.धीरः.सत्य.अभिसमयात्.सुखम् ॥

20.3

क्रोधम्.हत्वा.सुखम्.शेते.क्रोधम्.हत्वा.न.शोचति ।
क्रोधस्य.विष.मूलस्य.मधुर.घ्नस्य.भिक्षवः ।
वधम्.आर्याः.प्रशंसन्ति.तम्.च.हत्वा.न.शोचति ॥

20.4

यत्.तु.रोचयति.क्रुद्धो.दुष्कृतम्.सुकृतम्.त्व्.इति ।
पश्चात्.स.विगते.क्रोधे.स्पृष्ट्वा.अग्निम्.इव.तप्यते ॥

20.5

अह्रीकश्.च.अनवत्रापी.च.अव्रतश्.चैव.रोषणः ।
क्रोधेन.ह्य्.अभिभूतस्य.द्वीपम्.न.अस्ति.इह.किंचन ॥
अह्रीक्यो.अप्य्.अनवत्रापी.भवति.क्रोधनो.अव्रतः ।
क्रोधेन.च.अभिभूतस्य.न.द्वीपो.भवति.कश्चन ॥

20.6

अबलम्.हि.बलम्.तस्य.यस्य.क्रोधे.बलम्.बलम् ।
क्रुद्धस्य.धर्म.हीनस्य.प्रतिपत्तिर्.न.विद्यते ॥

20.7

यस्.त्व्.अयम्.बलवान्.भूत्वा.दुर्बलस्य.तितीक्षति ।[.तितिक्षति.]
ताम्.आहुः.परमाम्.क्षान्तिम्.नित्यम्.क्षमति.दुर्बलः ॥

20.8

यः.परेषाम्.प्रभूः.संस्.तु.दुर्बलान्.संतितीक्षति ।[.तितिक्षति.]
ताम्.आहुः.परमाम्.क्षान्तिम्.नित्यम्.क्षमति.दुर्बलः ॥

20.9

अत्युक्तो.हि.परैर्.यो.वै.बलवान्.संतितीक्षति ।[.तितिक्षति.]
ताम्.आहुः.परमाम्.क्षान्तिम्.नित्यम्.क्षमति.दुर्बलः ॥

20.10

आत्मानम्.च.परम्.चैव.महतो.रक्षते.भयात् ।
यः.परम्.कुपितम्.ज्ञात्वा.स्वयम्.तत्र.उपशाम्यति ॥

20.11

उभयोश्.चरते.सो.अर्थम्.आत्मनस्य.परस्य.च ।
यः.परम्.कुपितम्.ज्ञात्वा.स्वयम्.तत्र.उपशाम्यति ॥

20.12

उभ.अर्थे.चरमाणम्.तम्.ह्य्.आत्मनस्य.परस्य.च ।
अबलम्.मन्यते.बालो.धर्मेष्व्.अवविचक्षणः ॥

20.13

जयम्.हि.मन्यते.बालो.वचोभिः.परुषैर्.वदन् ।
नित्यम्.इव.जयस्.तस्य.यो.अतिवाक्यम्.तितीक्षति ॥[.तितिक्षति.]

20.14

श्रेष्ठस्य.वाक्यम्.क्षमते.भयेन.संरम्भ.हेतोः.सदृशस्य.चैव ।
यो.वै.निहीनस्य.वचः.क्षमेत.ताम्.उत्तमाम्.क्षान्तिम्.इह.आहुर्.आर्याः ॥

20.15

क्रुद्धो.वाचम्.न.भाषेत.परिषत्स्व्.अथ.वा.मिथः ।
क्रोध.अभिभूतः.पुरुषः.स्वम्.अर्थम्.हि.न.बुध्यते ॥

20.16

सत्यम्.वदेन्.न.च.क्रुध्येद्.दद्याद्.अल्पाद्.अपि.स्वयम् ।
स्थानैर्.एभिस्.त्रिभिर्.युक्तो.देवानाम्.अन्तिकम्.व्रजेत् ॥

20.17

शान्तस्य.हि.कुतः.क्रोधो.दान्तस्य.सम.जीविनः ।
सम्यग्.आज्ञा.विमुक्तस्य.क्रोधो.न.अस्ति.प्रजानतः ॥

20.18

तस्य.एव.पापम्.भवति.यः.क्रुद्धे.क्रुध्यते.पुनः ।
क्रुद्धेष्व्.अक्रुद्धमानस्.तु.संग्रामम्.दुर्जयम्.जयेत् ॥[.अक्रुधमानस्.]?

20.19

अक्रोधेन.जयेत्.क्रोधम्.असाधुम्.साधुना.जयेत् ।
जयेत्.कदर्यम्.दानेन.सत्येन.त्व्.अनृतम्.जयेत् ॥

20.20

अक्रुद्धस्य.कुतः.क्रोधो.दान्तस्य.सम.जीविनः ।
सम्यग्.आज्ञा.विमुक्तस्य.क्रोधस्.तस्य.न.विद्यते ॥

20.21

अक्रोधश्.च.अविहिंसा.च.वसत्य्.आर्येषु.सर्वदा ।
सदा.पाप.जने.क्रोधस्.तिष्ठति.पर्वतो.यथा ॥

20.22

यस्.त्व्.इह.उत्पतितम्.क्रोधम्.रथम्.भ्रान्तम्.इव.धारयेत् ।
वदामि.सारथिम्.तम्.तु.रश्मि.ग्राहो.अयम्.अन्यथा ॥

मूल पाठ: Udānavarga · Edition: Franz Bernhard, Goettingen 1965 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc