उदानवर्ग · अध्याय 17
स्मृतिमन्तः.प्रयुज्यन्ते.न.निकेते.रमन्ति.ते ।
हंसवत्.पल्वलम्.हित्वा.ह्य्.ओकम्.ओघम्.जहन्ते.ते ॥[.जहन्ति.ते.]
हंसा.आदित्य.पथे.यान्ति.आकाशे.जीवित.इन्द्रियाः ।
निर्यान्ति.धीरा.लोकान्.मार.सैन्यम्.प्रमथ्य.ते ॥
अचरित्वा.ब्रह्मचर्यम्.अलब्ध्वा.यौवने.धनम् ।
जीर्ण.क्रौञ्चैव.ध्यायन्ते.अल्प.मत्स्य;इव.पल्वले ॥
अचरित्वा.ब्रह्मचर्यम्.अलब्ध्वा.यौवने.धनम् ।
शेन्ति.चापाति.कीर्णा.वा.पौराणान्य्.अनुचिन्तिताः ॥
न.अल्पम्.मन्येत.पापस्य.न.एतम्.माम्.आगमिष्यति ।
उद.बिन्दु.निपातेन.महा.कुम्भो.अपि.पूर्यते ।
पूर्यन्ति.बालाः.पापैर्.हि.स्तोक.स्तोकम्.कृतैर्.अपि ॥
न.अल्पम्.मन्येत.पुण्यस्य.न.एतम्.माम्.आगमिष्यति ।
उद.बिन्दु.निपातेन.महा.कुम्भो.अपि.पूर्यते ।
पूर्यन्ति.धीराः.पुण्यैर्.हि.स्तोक.स्तोकम्.कृतैर्.अपि ॥
ये.तरन्त्य्.आर्णवम्.नित्यम्.कोलम्.बद्ध्वा.जनाः.शुभम् ।
न.ते.तरन्ति.सरिताम्.तीर्णा.मेधाविनो.जनाः ॥
उत्तीर्णो.भगवान्.बुद्धः.स्थले.तिष्ठति.ब्राह्मणः ।
भिक्षवः.स्नान्ति.चैव.अत्र.कोलम्.बध्नन्ति.च.अपरे ॥
किम्.कुर्याद्.उद.पानेन.यत्र.आपः.सर्वतो.भवेत् ।
तृष्णाया.मूलम्.उद्धृत्य.कस्य.पर्येषणाम्.चरेत् ॥
उदकेन.निजन्ति.नेजका;इषु.कारा.नमयन्ति.तेजसा ।
दारुम्.नमयन्ति.तक्षका.ह्य्.आत्मानम्.दमयन्ति.पण्डिताः ॥
यथा.ह्रदः.सुगम्भीरो.विप्रसन्नो.ह्य्.अनाविलः ।
एवम्.श्रुत्वा.हि.सद्धर्मम्.विप्रसीदन्ति.पण्डिताः ॥
पृथिवी.सदृशो.न.लिप्यते.तायी.कीलवद्.अप्रकम्पयः ।
ह्रद;इव.हि.विनीत.कर्दमो.निष्कलुषा.हि.भवन्ति.पण्डिताः ॥
मूल पाठ: Udānavarga · Edition: Franz Bernhard, Goettingen 1965 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0