उदानवर्ग · अध्याय 18
क;इमाम्.पृथिवीम्.विजेष्यते.यम.लोकम्.च.तथा.सदेवकम् ।
को.धर्म.पदम्.सुदेशितम्.कुशलः.पुष्पम्.इव.प्रचेष्यते ॥
शैक्षः.पृथिवीम्.विजेष्यते.यम.लोकम्.च.तथा.सदेवकम् ।
स.हि.धर्म.पदम्.सुदेशितम्.कुशलः.पुष्पम्.इव.प्रचेष्यते ॥
वनम्.छिन्दत.मा.वृक्षम्.वनाद्.वै.जायते.भयम् ।
छित्त्वा.वनम्.समूलम्.तु.निर्वणा.भवत.भिक्षवः ॥
न.छिद्यते.यावता.वनम्.ह्य्.अनुमात्रम्.अपि.नरस्य.बन्धुषु ।[.अणु.मात्रम्.]?
प्रतिबद्ध.मनाः.स.तत्र.वै.वत्सः.क्षीरपक;इव.मातरम् ॥
उच्छिन्द्धि.हि.स्नेहम्.आत्मनः.पद्मम्.शारदकम्.यथा.उदकात् ।
शान्ति.मार्गम्.एव.बृंहयेन्.निर्वाणम्.सुगतेन.देशितम् ॥
यथा.अपि.रुचिरम्.पुष्पम्.वर्णवत्.स्याद्.अगन्धवत् ।
एवम्.सुभाषिता.वाचा.निष्फला.असाव्.अकुर्वातः ॥
यथा.अपि.रुचिरम्.पुष्पम्.वर्णवत्.स्यात्.सुगन्धवत् ।
एवम्.सुभाषिता.वाचा.सफला.भवति.कुर्वतः ॥
यथा.अपि.भ्रमरः.पुष्पाद्.वर्ण.गन्धाव्.अहेठयन् ।
परैति.रसम्.आदाय.तथा.ग्रामान्.मुनिश्.चरेत् ॥
न.परेषाम्.विलोमानि.न.परेषाम्.कृत.अकृतम् ।
आत्मनस्.तु.समीक्षेत.समानि.विषमानि.च ॥
यथा.अपि.पुष्प.राशिभ्यः.कुर्यान्.माला.गुणान्.बहून् ।
एवम्.जातेन.मर्त्येन.कर्तव्यम्.कुशलम्.बहु ॥
वर्षासु.हि.यथा.पुष्पम्.वगुरो.विप्रमुञ्चति ।[.वागुरो.]?
एवम्.रागम्.च.दोषम्.च.विप्रमुञ्चत.भिक्षवः ॥
यथा.संकार.कूटे.तु.व्युज्झिते.हि.महा.पथे ।
पद्मम्.तत्र.तु.जायेत.शुचि.गन्धि.मनो.रमम् ॥
एवम्.संकार.भूते.अस्मिन्न्.अन्ध.भूते.पृथग्.जने ।
प्रज्ञया.व्यतिरोचन्ते.सम्यक्.सम्बुद्ध.श्रावकाः ॥
पुष्पाण्य्.एव.प्रचिन्वन्तम्.व्यासक्त.मनसम्.नरम् ।
सुप्तम्.ग्रामम्.महौघैव.मृत्युर्.आदाय.गच्छति ॥
...............................................नरम् ।
सुप्तम्.ग्रामम्.महौघैव.मृत्युर्.आदाय.गच्छति ॥
पुष्पाण्य्.एव.प्रचिन्वन्तम्.व्यासक्त.मनसम्.नरम् ।
अतृप्तम्.एव.कामेषु.त्व्.अन्तकः.कुरुते.वशम् ॥
पुष्पाण्य्.एव.प्रचिन्वन्तम्.व्यासक्त.मनसम्.नरम् ।
अनुत्पन्नेषु.भोगेषु.त्व्.अन्तकः.कुरुते.वशम् ॥
कुम्भ.उपमम्.कायम्.इमम्.विदित्वा.मरीचि.धर्मम्.परिबुध्य.चैव ।
छित्त्वा.इह.मारस्य.तु.पुष्पकाणि.त्व्.अदर्शनम्.मृत्यु.राजस्य.गच्छेत् ॥
फेन.उपमम्.कायम्.इमम्.विदित्वा.मरीचि.धर्मम्.परिबुध्य.चैव ।
छित्त्वा.इह.मारस्य.तु.पुष्पकाणि.त्व्.अदर्शनम्.मृत्यु.राजस्य.गच्छेत् ॥
कुम्भ.उपमम्.लोकम्.इमम्.विदित्वा.मरीचि.धर्मम्.परिबुध्य.चैव ।
छित्त्वा.इह.मारस्य.तु.पुष्पकाणि.त्व्.अदर्शनम्.मृत्यु.राजस्य.गच्छेत् ॥
फेन.उपमम्.लोकम्.इमम्.विदित्वा.मरीचि.धर्मम्.परिबुध्य.चैव ।
छित्त्त्वा.इह.मारस्य.तु.पुष्पकाणि.त्व्.अदर्शनम्.मृत्यु.राजस्य.गच्छेत् ॥
यो.न.अध्यगमद्.भवेषु.सारम्.बुद्ध्वा.पुष्पम्.उदुम्बरस्य.यद्वत् ।
स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥
यो.रागम्.उदाच्छिनत्त्य्.अशेषम्.बिस.पुष्पम्.इव.जलेरुहम्.विगाह्य ।
स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥
यो.द्वेषम्.उदाछिनत्त्य्.अशेषम्.बिस.पुष्पम्.इव.जलेरुहम्.विगाह्य ।
स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥
यो.मोहम्.उदाछिनत्त्य्.अशेषम्.बिस.पुष्पम्.इव.जलेरुहम्.विगाह्य ।
स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥
यो.मानम्.उदाछिनत्त्य्.अशेषम्.बिस.पुष्पम्.इव.जलेरुहम्.विगाह्य ।
स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥
यो.लोभम्.उदाछिनत्त्य्.अशेषम्.बिस.पुष्पम्.इव.जलेरुहम्.विगाह्य ।
स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥
तृष्णाम्.य;उदाछिनत्त्य्.अशेषम्.बिस.पुष्पम्.इव.जलेरुहम्.विगाह्य ।
स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.त्व.त्वचम्.पुराणम् ॥
मूल पाठ: Udānavarga · Edition: Franz Bernhard, Goettingen 1965 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0