उदानवर्ग · अध्याय 16
पूर्वम्.हि.कृत्यम्.प्रतिजागरेत.मा.मे.कृत्यम्.कृत्य.काले.विहन्यात् ।
तम्.नित्य.काले.प्रतियत्य.कारिणम्.न.एव.कृत्यम्.कृत्य.काले.विहन्ति ॥
व्यायमेत.एव.पुरुषो.यावद्.अर्थस्य.निष्पदः ।
पश्येद्.असौ.तथा.आत्म.अर्थम्.यथा.एव.इच्छेत्.तथा.भवेत् ॥
उत्तिष्ठत.व्यायमत.कुरुध्वम्.द्वीपम्.आत्मनः ।
कर्मारो.रजतस्य.एव.हरध्वम्.मलम्.आत्मनः ॥
निर्धान्त.मला.ह्य्.अनङ्गणा.न.पुनर्.जाति.जराम्.उपेष्यथ ॥
अलज्जितव्ये.लज्जन्ते.लज्जितव्ये.त्व्.अलज्जिनः ।
अभये.भय.दर्शीनो.भये.च.अभय.दर्शिनः ।[.भय.दर्शिनो.]
मिथ्या.दृष्टि.समादानात्.सत्त्वा.गच्छन्ति.दुर्गतिम् ॥
यस्.तु.पूर्वम्.प्रमाद्य.इह.पश्चाद्.वै.न.प्रमाद्यते ।
स;इमम्.भासते.लोकम्.अभ्र.मुक्तैव.चन्द्रमाः ॥
यस्.तु.पूर्वम्.प्रमाद्य.इह.पश्चाद्.वै.न.प्रमाद्यते ।
स;इमाम्.विषक्तिकाम्.लोके.स्मृतः.समतिवर्तते ॥
दहरो.अपि.चेत्.प्रव्रजते.युज्यते.बुद्ध.शासने ।
स;इमम्.भासते.लोकम्.अभ्र.मुक्तैव.चन्द्रमाः ॥
दहरो.अपि.चेत्.प्रव्रजते.युज्यते.बुद्ध.शासने ।
स;इमाम्.विषक्तिकाम्.लोके.स्मृतः.समतिवर्तते ॥
यस्य.पाप.कृतम्.कर्म.कुशलेन.पिथीयते ।[.पिधीयते.]
स;इमम्.भासते.लोकम्.अभ्र.मुक्तैव.चन्द्रमाः ॥
यस्य.पाप.कृतम्.कर्म.कुशलेन.पिथीयते ।[.पिधीयते.]
स;इमाम्.विषक्तिकाम्.लोके.स्मृतः.समतिवर्तते ॥
यो.जीविते.न.तपते.मरण.अन्ते.च.सर्वशः ।
स.वै.दृष्ट.पदो.धीरो.मरण.अन्ते.न.शोचति ॥
यो.जीविते.न.तपते.मरण.अन्ते.च.सर्वशः ।
स.वै.दृष्ट.पदो.धीरः.शोक.मध्ये.न.शोचति ॥
यो.जीविते.न.तपते.मरण.अन्ते.च.सर्वशः ।
स.वै.दृष्ट.पदो.धीरो.ज्ञाति.मध्ये.विरोचते ॥
कृष्णान्.धर्मान्.विप्रहाय.शुक्लान्.भावयत.भिक्षवः ।
ओकाद्.अनोकम्.आगम्य.विवेकम्.अनुबृंहयेत् ।
तत्र.च.अभिरमेत.आर्यो.हित्वा.कामान्.अकिंचनः ॥
शुद्धस्य.हि.सदा.फल्गुः.शुद्धस्य.पोषथः.सदा ।
शुद्धस्य.शुचि.कर्मणः.सदा.सम्पद्यते.व्रतम् ॥
क्षेत्राणि.तृण.दोषाणि.राग.दोषा.त्व्.इयम्.प्रजा ।
तस्माद्.विगत.रागेभ्यो.दत्तम्.भवति.महा.फलम् ॥
क्षेत्राणि.तृण.दोषाणि.द्वेष.दोषा.त्व्.इयम्.प्रजा ।
तस्माद्.विगत.द्वेषेभ्यो.दत्तम्.भवति.महा.फलम् ॥
क्षेत्राणि.तृण.दोषाणि.मोह.दोषा.त्व्.इयम्.प्रजा ।
तस्माद्.विगत.मोहेभ्यो.दत्तम्.भवति.महा.फलम् ॥
क्षेत्राणि.तृण.दोषाणि.मान.दोषा.त्व्.इयम्.प्रजा ।
तस्माद्.विगत.मानेभ्यो.दत्तम्.भवति.महा.फलम् ॥
क्षेत्राणि.तृण.दोषाणि.लोभ.दोषा.त्व्.इयम्.प्रजा ।
तस्माद्.विगत.लोभेभ्यो.दत्तम्.भवति.महा.फलम् ॥
क्षेत्राणि.तृण.दोषाणि.तृष्णा.दोषा.त्व्.इयम्.प्रजा ।
तस्माद्.विगत.तृष्णेभ्यो.दत्तम्.भवति.महा.फलम् ॥
षष्ठ;अधिपती.राजा.रज्यमाने.रजस्वलः ।
अरक्ते.विरजा.भवति.रक्ते.बालो.निरुच्यते ॥
नगरम्.ह्य्.अस्थि.प्राकारम्.मांस.शोणित.लेपनम् ।
यत्र.रागश्.च.द्वेषश्.च.मानो.ंरक्षश्.च.बाध्यते ॥
हेतु.प्रभवम्.सदा.हि.दुह्खम्.तद्.अपश्यन्.स.हि.तेन.तत्र.बद्धः ।
तस्य.तु.समयाज्.जहाति.सङ्गम्.न.हि.बाह्या.प्रजहन्ति.तम्.महौघम् ॥[.महा.ओघम्.]
मूल पाठ: Udānavarga · Edition: Franz Bernhard, Goettingen 1965 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0