भाषा

ENहिગુ
ग्रंथ पाठ

उदानवर्ग · अध्याय 15

15.1

आनापान.स्मृतिर्.यस्य.परिपूर्णा.सुभाविता ।
अनुपूर्वम्.परिजिता.यथा.बुद्धेन.देशिता ।
स;इमम्.भासते.लोकम्.अभ्र.मुक्तैव.चन्द्रमाः ॥

15.2

स्थितेन.कायेन.तथैव.चेतसा.स्थितो.निषण्णो.अप्य्.अथवा.शयानः ।
नित्यम्.स्मृतो.भिक्षुर्.अधिष्ठमानो.लभेत.पूर्व.अपरतो.विशेषम् ।
लब्ध्वा.च.पूर्व.अपरतो.विशेषम्.अदर्शनम्.मृत्यु.राजस्य.गच्छेत् ॥

15.3

स्मृतिः.काय.गता.नित्यम्.संवरश्.च.इन्द्रियैः.सदा ।
समाहितः.स.जानीयात्.तेन.निर्वाणम्.आत्मनः ॥

15.4

यस्य.स्यात्.सर्वतः.स्मृतिः.सततम्.काय.गता.ह्य्.उपस्थिता ।
नो.च.स्यान्.नो.च.मे.स्यान्.न.भविष्यति.न.च.मे.भविष्यति ।
अनुपूर्व.विहारवान्.असौ.कालेन.उत्तरते.विषक्तिकाम् ॥

15.5

यो.जागरेत्.स्मृतिमान्.सम्प्रजानः.समाहितो.मुदितो.विप्रसन्नः ।
कालेन.धर्मान्.मीमांसमानः.सो.अतिक्रमेज्.जाति.जराम्.सशोकाम् ॥

15.6

तस्मात्.सदा.जागरिकाम्.भजेत.यो.वीर्यवान्.स्मृतिमान्.अप्रमत्तः ।
सम्योजनम्.जाति.जराम्.च.हित्वा.इह.एव.दुह्खस्य.करोति.सो.अन्तम् ॥

15.7

जागरन्तः.शृणुध्वम्.मे.सुप्ताश्.च.प्रतिबुध्यत ।
सुप्तेषु.जागरम्.श्रेया.न.हि.जागरतो.भयम् ॥

15.8

जागर्यम्.अनुयुक्तानाम्.अहो.रात्र.अनुशिक्षिणाम् ।
अमृतम्.च.अधिमुक्तानाम्.अस्तम्.गच्छन्ति.आस्रवाः ॥

15.9

लाभस्.तेषाम्.मनुष्याणाम्.ये.बुद्धम्.शरणम्.गताः ।
येषाम्.दिवा.च.रात्रौ.च.नित्यम्.बुद्ध.गता.स्मृतिः ॥

15.10

लाभस्.तेषाम्.मनुष्याणाम्.ये.धर्मम्.शरणम्.गताः ।
येषाम्.दिवा.च.रात्रौ.च.नित्यम्.धर्म.गता.स्मृतिः ॥

15.11

लाभस्.तेषाम्.मनुष्याणाम्.ये.संघम्.शरणम्.गताः ।
येषाम्.दिवा.च.रात्रौ.च.नित्यम्.संघ.गता.स्मृतिः ॥

15.12

सुप्रबुद्धम्.प्रबुध्यन्ते;इमे.गौतम.श्रावकाः ।
येषाम्.दिवा.च.रात्रौ.च.नित्यम्.बुद्ध.गता.स्मृतिः ॥

15.13

सुप्रबुद्धम्.प्रबुध्यन्ते;इमे.गौतम.श्रावकाः ।
येषाम्.दिवा.च.रात्रौ.च.नित्यम्.धर्म.गता.स्मृतिः ॥

15.14

सुप्रबुद्धम्.प्रबुध्यन्ते;इमे.गौतम.श्रावकाः ।
येषाम्.दिवा.च.रात्रौ.च.नित्यम्.संघ.गता.स्मृतिः ॥

15.15

सुप्रबुद्धम्.प्रबुध्यन्ते;इमे.गौतम.श्रावकाः ।
येषाम्.दिवा.च.रात्रौ.च.नित्यम्.काय.गता.स्मृतिः ॥
सुप्रबुद्धम्.प्रबुध्यन्ते;इमे.गौतम.श्रावकाः ।
येषाम्.दिवा.च.रात्रौ.च.नित्यम्.समाधयः.स्मृताः ॥

15.16

सुप्रबुद्धम्.प्रबुध्यन्ते;इमे.गौतम.श्रावकाः ।
येषाम्.दिवा.च.रात्रौ.च.नित्यम्.शील.गता.स्मृतिः ॥
सुप्रबुद्धम्.प्रबुध्यन्ते;इमे.गौतम.श्रावकाः ।
येषाम्.दिवा.च.रात्रौ.च.नित्यम्.त्याग.गता.स्मृतिः ॥
सुप्रबुद्धम्.प्रबुध्यन्ते;इमे.गौतम.श्रावकाः ।
येषाम्.दिवा.च.रात्रौ.च.नित्यम्.देव.गता.स्मृतिः ॥

15.17

सुप्रबुद्धम्.प्रबुध्यन्ते;इमे.गौतम.श्रावकाः ।
येषाम्.दिवा.च.रात्रौ.चैव.अहिंसायाम्.रतम्.मनः ॥

15.18

सुप्रबुद्धम्.प्रबुध्यन्ते;इमे.गौतम.श्रावकाः ।
येषाम्.दिवा.च.रात्रौ.चैवा.अव्यापादे.रतम्.मनः ॥

15.19

सुप्रबुद्धम्.प्रबुध्यन्ते;इमे.गौतम.श्रावकाः ।
येषाम्.दिवा.च.रात्रौ.च.नैष्क्रम्ये.अभिरतम्.मनः ॥[.नैष्कर्म्ये.?]

15.20

सुप्रबुद्धम्.प्रबुध्यन्ते;इमे.गौतम.श्रावकाः ।
येषाम्.दिवा.च.रात्रौ.च.नित्यम्.ध्यान.रतम्.मनः ॥

15.21

सुप्रबुद्धम्.प्रबुध्यन्ते;इमे.गौतम.श्रावकाः ।
येषाम्.दिवा.च.रात्रौ.च.विवेके.अभिरतम्.मनः ॥

15.22

सुप्रबुद्धम्.प्रबुध्यन्ते;इमे.गौतम.श्रावकाः ।
येषाम्.दिवा.च.रात्रौ.च.शुन्यतायाम्.रतम्.मनः ॥[.शून्यतायाम्.]

15.23

सुप्रबुद्धम्.प्रबुध्यन्ते;इमे.गौतम.श्रावकाः ।
येषाम्.दिवा.च.रात्रौ.चैव.अनिमित्ते.रतम्.मनः ॥

15.24

सुप्रबुद्धम्.प्रबुध्यन्ते;इमे.गौतम.श्रावकाः ।
येषाम्.दिवा.च.रात्रौ.च;आकिंचन्ये.रतम्.मनः ॥

15.25

सुप्रबुद्धम्.प्रबुध्यन्ते;इमे.गौतम.श्रावकाः ।
येषाम्.दिवा.च.रात्रौ.च.भावनायाम्.रतम्.मनः ॥

15.26

सुप्रबुद्धम्.प्रबुध्यन्ते;इमे.गौतम.श्रावकाः ।
येषाम्.दिवा.च.रात्रौ.च.निर्वाणे.अभिरतम्.मनः ॥

मूल पाठ: Udānavarga · Edition: Franz Bernhard, Goettingen 1965 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc