उदानवर्ग · अध्याय 14
अक्रुद्धस्य.हि.यः.क्रुध्येत्.कर्म.पापम्.अकुर्वतः ।
दुह्खम्.तम्.एव.स्पृशति.लोके.अस्मिंश्.च.परत्र.च ॥
पूर्वम्.क्षिणोति.ह.आत्मानम्.पश्चाद्.बाह्यम्.विहिंसति ।
स.हतस्.त्व्.इतरम्.हन्ति.वीतंसेन.इव.पक्षिणः ॥
हन्तारम्.लभते.हन्ता.वैरी.वैराणि.पश्यति ।
अक्रोष्टारम्.तथा.आक्रोष्टा.रोषितारम्.च.रोषकः ॥[.आक्रोष्टारम्.]
अन्यत्र.अश्रवणाद्.अस्य.सद्धर्मस्य.अविजानकाः ।
आयुष्य्.एवम्.परित्ते.हि.वैरम्.कुर्वन्ति.केनचित् ॥
पृथक्.शब्दाः.समुत्पन्नास्.तम्.च.श्रेष्ठम्.इति.मन्यथा ।[.पृथक्.छब्दाः.]
संघे.हि.भिद्यमाने.अस्मिन्.श्रेष्ठम्.इत्य्.अभिमन्यथा ॥
अस्थि.छिदाम्.प्राण.हृताम्.गव.अश्व.धन.हारिणाम् ।[.अस्थिच्छिदाम्.]
राष्ट्रम्.विलुम्पताम्.चैव.पुनर्.भवति.संगतम् ।
युष्माकम्.नु.कथम्.न.स्याद्.इमम्.धर्मम्.विजानताम् ॥
अस्थि.छिन्नाः.प्राण.हरा.गव.अश्व.धन.हारकाः ।[.अस्थिच्छिनाः.]
राष्ट्राणाम्.च.विलोप्तारस्.तेषाम्.भवति.संगतम् ।
युष्माकम्.नु.कथम्.न.स्याद्.इमम्.धर्मम्.विजानताम् ॥
पण्डित.आभा.परामृष्टा.वाग्.या.गोचर.भाषिणी ।
व्यायच्छन्ति.मुखम्.वामा.यया.नीता.न.ते.बुधाः ॥
परे.हि.न.विजानन्ति.वयम्.अत्र.उद्यमामहे ।
अत्र.ये.तु.विजानन्ति.तेषाम्.शाम्यन्ति.मेधकाः ॥
आक्रोशन्.माम्.अवोचन्.माम्.अयोजन्.माम्.अजापयेत् ।
अत्र.ये.ह्य्.उपनह्यन्ति.वैरम्.तेषाम्.न.शाम्यति ॥
आक्रोशन्.माम्.अवोचन्.माम्.अजयन्.माम्.अजापयेत् ।
अत्र.ये.न.उपनह्यन्ति.वैरम्.तेषाम्.प्रशाम्यति ॥
न.हि.वैरेण.वैराणि.शाम्यन्ति.इह.कदाचन ।
क्षान्त्या.वैराणि.शाम्यन्ति.एष.धर्मः.सनातनः ॥
वैरम्.न.वैरेण.हि.जातु.शाम्येत्.शाम्येद्.अवैरेण.तु.वैर.भावः ।
वैर.प्रसङ्गो.ह्य्.अहिताय.दृष्टस्.तस्माद्द्.हि.वैरम्.न.करोति.विद्वान् ॥
स.चेल्.लभेद्.वै.निपकम्.सहायम्.लोके.चरन्.साधु.हि.नित्यम्.एव ।
अभिभूय.सर्वाणि.परिस्रवाणि.चरेत.तेन.आप्त.मना.स्मृत.आत्मा ॥
नो.चेल्.लभेद्.वै.निपकम्.सहायम्.लोके.चरन्.साधु.हि.नित्यम्.एव ।
राजा.इव.राष्ट्रम्.विप्लुअम्.प्रहाय.एकश्.चरेन्.न.च.पापानि.कुर्यात् ॥
चरंश्.च.न.अधिगच्छेत.सहायम्.तुल्यम्.आत्मनः ।
एक.चर्याम्.दृढम्.कुर्यान्.न.अस्ति.बाले.सहायता ॥
एकस्य.चरितम्.श्रेयो.न.तु.बालः.सहायकः ।
एकश्.चरेन्.न.च.पापानि.कुर्याद्.अल्प.उत्सुको.अरण्य.गतैव.नागः ॥
एकस्य.चरितम्.श्रेयो.न.तु.बाल.सहायता ।
अल्प.उत्सुकश्.चरेद्.एको.मातङ्ग.अरण्ये.नागवत् ॥
मूल पाठ: Udānavarga · Edition: Franz Bernhard, Goettingen 1965 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0