उदानवर्ग · अध्याय 13
फलम्.वै.कदलिम्.हन्ति.फलम्.वेणुम्.फलम्.नडम् ।
सत्कारः.कापुरुषम्.हन्ति.स्व.गर्भो.अश्वतरीम्.यथा ॥
यावद्.एव.ह्य्.अनर्थाय.ज्ञातो.भवति.बालिशः ।
हन्ति.बालस्य.शुक्ल.अंशम्.मूर्धानम्.च.अस्य.पातयेत् ॥
असन्तो.लाभम्.इच्छन्ति.सत्कारम्.च.एव.भिक्षुषु ।
आवासेषु.च.मात्सर्यम्.पूजाम्.पर.कुलेषु.च ॥
माम्.एव.नित्यम्.जानीयुर्.गृही.प्रव्रजितस्.तथा ।
मम.प्रतिवशाश्.च.स्युः.कृत्य.अकृत्येषु.केषुचित् ॥
इति.बालस्य.संकल्पा;इच्छा.मान.अभिवर्धकाः ।
अन्या.हि.लाभ.उपनिषद्.अन्या.निर्वाण.गामिनी ॥
एतज्.ज्ञात्वा.यथा.भूतम्.बुद्धानाम्.श्रावकः.सदा ।
सत्कारम्.न.अभिनन्देत.विवेकम्.अनुबृंहयेत् ॥
न.व्यायमेत.सर्वत्र.न.अन्येषाम्.पुरुषो.भवेत् ।
न.अन्याम्.निह्श्रित्य.जीवेत.धर्मेण.न.वणिक्.चरेत् ॥
स्व.लाभम्.न.अवमन्येत.न.अन्येषाम्.स्पृहको.भवेत् ।
अन्येषाम्.स्पृहको.भिक्षुः.समाधिम्.न.अधिगच्छति ॥
सुखम्.जीवितुम्.इच्छेत्.चेत्.श्रामण्य.अर्थेष्व्.अवेक्षवान् ।
अहिर्.मूषक.दुर्गम्.वा.सेवेत.शयन.आसनम् ॥
सुखम्.जीवितुम्.इच्छेत्.चेत्.श्रामण्य.अर्थेष्व्.अवेक्षवान् ।
इतरेतरेण.संतुष्येद्.एक.धर्मम्.च.भावयेत् ॥
सुखम्.जीवितुम्.इच्छेत्.चेत्.श्रामण्य.अर्थेष्व्.अवेक्षवान् ।
सांघिकम्.न.अवमन्येत.चीवरम्.पान.भोजनम् ॥
अल्प.ज्ञातो.अपि.चेद्.भवति.शीलेषु.सुसमाहितः ।
विद्वांसस्.तम्.प्रशंसन्ति.शुद्धाजीवम्.अतन्द्रितम् ॥[.शुद्ध.आजीवम्.]
त्रैविद्यः.स्यात्.स.चेद्.भिक्षुर्.मृत्यु.हन्ता.निरास्रवः ।
अल्प.ज्ञातम्.इति.ज्ञात्वा.ह्य्.अवजानन्त्य्.अजानकाः ॥
स.चेद्.भवति.त्रैविद्यो.मृत्यु.हायी.निरास्रवः ।
ज्ञात्वा.अल्प.ज्ञात;इति.तम्.अवजानन्त्य्.अजानकाः ॥
स.चेत्.त्व्.इह.अन्न.पानस्य.लाभी.भवति.पुद्गलाः ।
पाप.धर्मा.अपि.चेद्.भवति.स.तेषाम्.भवति.पूजितः ॥
बहून्.अमित्रान्.लभते.संघाटी.प्रावृतः.सदा ।
लाभी.यो.ह्य्.अन्न.पानस्य.वस्त्र.शय्या.आसनस्य.च ॥
एतद्.आदी.नवम्.ज्ञात्वा.सत्कारेषु.महा.भयम् ।[.आदीनवम्.]
अल्प.ज्ञातो.ह्य्.अनुत्सुकः.स्मृतो.भिक्षुः.परिव्रजेत् ॥
न.अयम्.अनशनेन.जीवते.न.आहारो.हृदयस्य.शान्तये ।
आहारः.स्थितये.तु.विद्यते.तज्.ज्ञात्वा.हि.चरेत;एषणाम् ॥
पङ्कस्.त्व्.इति.यो.हि.विन्दते.नित्यम्.वन्दन.मानना.कुले ।
सूक्ष्मः.शल्यो.दुरुद्धरः.सत्कारः.कापुरुषेण.दुस्त्यजः ॥
मूल पाठ: Udānavarga · Edition: Franz Bernhard, Goettingen 1965 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0