उदानवर्ग · अध्याय 12
आर्य.सत्यानि.चत्वारि.प्रज्ञया.पश्यते.यदा ।
एष.मार्गम्.प्रजानाति.भव.तृष्णा.प्रदालनम् ॥
उद्धतम्.हि.रजो.वातैर्.यथा.वृष्टेन.शाम्यति ।
एवम्.शाम्यन्ति.संकल्पाः.प्रज्ञया.पश्यते.यदा ॥
श्रेष्ठा.हि.प्रज्ञा.लोके.अस्मिन्.या.इयम्.निर्वेद.गामिनी ।
यया.सम्यक्.प्रजानाति.जाति.मरण.संक्षयम् ॥
मार्गेष्व्.अष्ट.अङ्गिकः.श्रेष्ठश्.चत्वार्य्.आर्याणि.सत्यतः ।
श्रेष्ठो.विरागो.धर्माणाम्.चक्षुष्मान्.द्विपदेषु.च ॥
अनित्यान्.सर्व.संस्कारान्.प्रज्ञया.पश्यते.यदा ।
अथ.निर्विद्यते.दुह्खाद्.एष.मार्गो.विशुद्धये ॥
दुह्खम्.हि.सर्व.संस्कारान्.प्रज्ञया.पश्यते.यदा ।
अथ.निर्विद्यते.दुह्खाद्.एष.मार्गो.विशुद्धये ॥
शुन्यतः.सर्व.संस्कारान्.प्रज्ञया.पश्यते.यदा ।[.शून्यतः.]
अथ.निर्विद्यते.दुह्खाद्.एष.मार्गो.विशुद्धये ॥
सर्व.धर्मा;अनात्मानः.प्रज्ञया.पश्यते.यदा ।
अथ.निर्विद्यते.दुह्खाद्.एष.मार्गो.विशुद्धये ॥
आख्यातो.वो.मया.मार्गस्.त्व्.अज्ञायै.शल्य.कृन्तनः ।
युष्माभिर्.एव.करणीयम्.आख्यातारस्.तथा.गताः ॥
देशितो.वो.मया.मार्गस्.तृष्णा.शल्य.निकृन्तनः ।
युष्माभिर्.एव.करणीयम्.देष्टारो.हि.तथा.गताः ॥
एषो.हि.मार्गो.न.अस्त्य्.अन्यो.दर्शनस्य.विशुद्धये ।
प्रतिपन्नकाः.प्रहास्यन्ति.ध्यायिनो.मार.बन्धनम् ॥
एषो.अञ्जसो.ह्य्.एष.च.वै.पराक्रमे.त्व्.एक.अयनो.हंस.पथो.यथा.ह्रदे ।
यम्.अध्यगात्.शाक्य.मुनिः.समाहितस्.तम्.एव.च.आख्याति.गणेष्व्.अभीक्ष्णशः ॥
एक.अयनम्.जाति.जरा.अन्त.दर्शी.मार्गम्.वदत्य्.एष.हित.अनुकम्पी ।
एतेन.मार्गेण.हि.तीर्णवन्तस्.तरिष्यते.ये.प्रतरन्ति.च.ओघम् ॥
अत्यन्त.निष्ठाय.दमाय.शुद्धये.संसार.जाती.मरण.क्षयाय ।
अनेक.धातु.प्रतिषंविधाय.मार्गो.ह्य्.अयम्.लोकविदा.प्रकाशितः ॥
गङ्गा.गतम्.यद्वद्.अपेत.दोषम्.संस्यन्दते.वारि.तु.सागरेण ।
तथा.एव.मार्गः.सुगत.प्रदेशितः.संस्यन्दते.अयम्.ह्य्.अमृतस्य.प्राप्तये ॥
यो.धर्म.चक्रम्.ह्य्.अननुश्रुतम्.पुरा.प्रावर्तयत्.सर्व.भूत.अनुकम्पी ।
तम्.तादृशम्.देव.नर.अग्र.सत्त्वम्.नित्यम्.नमस्येत.भवस्य.पारगम् ॥[.देवनराग्रसत्वम्.]
सदा.वितर्कान्.कुशलान्.वितर्कयेत्.सदा.पुनश्.च.अकुशलान्.विवर्जयेत् ।
ततो.वितर्कांश्.च.विचारितानि.च.प्रहास्यते.वृष्टिर्.इव.उद्धतम्.रजः ॥
स.वै.वितर्क.उपशमेन.चेतसा.स्पृशेत.सम्बोधि.सुखम्.ह्य्.अनुत्तरम् ।
शुभम्.समाधिम्.मनसा.निबन्धयेद्.विवेकजम्.भावयित्वा.अप्रमाणम् ।
प्रदालयित्वा.त्रिभिर्.आलयांस्.त्रीन्.जहाति.बन्धान्.निपकः.प्रतिस्मृतः ॥
प्रज्ञा.आयुधो.ध्यान.बल.उपपेतः.समाहितो.ध्यान.रतः.स्मृत.आत्मा ।
लोकस्य.बुद्ध्वा.ह्य्.उदय.व्ययम्.च.विमुच्यते.वेदकः.सर्वतो.असौ ॥
सुखम्.सुख.अर्थी.लभते.समाचरन्.कीर्तिम्.समाप्नोति.यशश्.च.सर्वतः ।
य;आर्यम्.अष्ट.अङ्गिकम्.आञ्जसम्.शिवम्.भावयति.मार्गम्.ह्य्.अमृतस्य.प्राप्तये ॥
मूल पाठ: Udānavarga · Edition: Franz Bernhard, Goettingen 1965 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0