भाषा

ENहिગુ
ग्रंथ पाठ

उदानवर्ग · अध्याय 11

11.1

छिन्धि.स्रोतः.पराक्रम्य.कामान्.प्रणुद.सर्वशः ।
न.अप्रहाय.मुनिः.कामान्.एकत्वम्.अधिगच्छति ॥

11.2

कुर्वाणो.हि.सदा.प्राज्ञो.दृढम्.एव.पराक्रमेत् ।
शिथिला.खलु.प्रव्रज्या.ह्य्.आददाति.पुनो.रजः ॥

11.3

यत्.किंचित्.शिथिलम्.कर्म.संक्लिष्टम्.वा.अपि.यत्.तपः ।
अपरिशुद्धम्.ब्रह्मचर्यम्.न.तद्.भवति.महा.फलम् ॥

11.4

शरो.यथा.दुर्गृहीतो.हस्तम्.एव.अपकृन्तति ।
श्रामण्यम्.दुष्परामृष्टम्.नरकान्.उपकर्षति ॥

11.5

शरो.यथा.सुगृहीतो.न.हस्तम्.अपकृन्तति ।
श्रामण्यम्.सुपरामृष्टम्.निर्वाणस्य.एव.सो.अन्तिके ॥

11.6

दुष्करम्.दुस्तितीक्षम्.च.श्रामण्यम्.मन्द.बुद्धिना ।[.दुस्तितिक्षम्.]
बहवस्.तत्र.सम्बाधा.यत्र.मन्दो.विषीदति ॥

11.7

श्रामण्ये.चरते.यस्.तु.स्व.चित्तम्.अनिवारयेत् ।
पुनः.पुनर्.विषीदेत्.स.संकल्पानाम्.वशम्.गतः ॥

11.8

दुष्प्रव्रज्यम्.दुरभिरमम्.दुरध्यावसिता.गृहाः ।
दुह्खा.असमान.संवासा.दुह्खाश्.च.उपचिता.भवाः ॥[.दुह्खासमान.संवासा.]

11.9

काषाय.कण्ठा.बहवः.पाप.धर्मा.ह्य्.असम्यताः ।
पापा.हि.कर्मभिः.पापैर्.इतो.गच्छन्ति.दुर्गतिम् ।

11.10

यो.असाव्.अत्यन्त.दुह्शीलः.सालवान्.मालुता.यथा ।
करोत्य्.असौ.तथा.आत्मानम्.यथा.एनम्.द्विषद्.इच्छति ॥

11.11

स्थविरो.न.तावता.भवति.यावता.पलितम्.शिरः ।
परिपक्वम्.वयस्.तस्य.मोह.जीर्णः.स;उच्यते ॥

11.12

यस्.तु.पुण्यम्.च.पापम्.च.प्रहाय.ब्रह्मचर्यवान् ।
विश्रेणयित्वा.चरति.स.वै.स्थविर;उच्यते ॥

11.13

न.मुण्ड.भावात्.श्रमणो.ह्य्.अवृतस्.त्व्.अनृतम्.वदन् ।
इच्छा.लोभ.समापन्नः.श्रमणः.किम्.भविष्यति ॥

11.14

न.मुण्ड.भावात्.श्रमणो.ह्य्.अवृतस्.त्व्.अनृतम्.वदन् ।
शमितम्.येन.पापम्.स्याद्.अणु.स्थूलम्.हि.सर्वशः ।
शमितत्वात्.तु.पापानाम्.श्रमणो.हि.निरुच्यते ॥

11.15

ब्राह्मणो.वाहितैः.पापैः.श्रमणः.शमित.अशुभः ।
प्रव्राजयित्वा.तु.मलान्.उक्तः.प्रव्रजितस्.त्व्.इह ॥

मूल पाठ: Udānavarga · Edition: Franz Bernhard, Goettingen 1965 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc