भाषा

ENहिગુ
ग्रंथ पाठ

त्रिंशिकाविज्ञप्तिकारिका · श्लोक 1-20

1

अथ त्रिंशिकाविज्ञप्तिकारिकाः (त्व्क्)
कृतिरियमाचार्यवसुबन्धोः ।
आत्मधर्मोपचारो हि विविधो यः प्रवर्तते ।
विज्ञानपरिणामे ऽसौ परिणामः स च त्रिधा

2

विपाको मननाख्यश्च विज्ञप्तिर्विषयस्य च ।
तत्रालयाख्यं विज्ञानं विपाकः सर्वबीजकम्

3

असंविदितकोपादिस्थानविज्ञप्तिकं च तत् ।
सदा स्पर्शमनस्कारवित्सञ्ज्ञाचेतनान्वितम्

4

उपेक्षा वेदना तत्रानिवृताव्याकृतं च तत् ।
तथा स्पर्शादयस्तच्च वर्तते स्रोतसौघवत्

5

तस्य व्यावृतिरर्हत्वे तदाश्रित्य प्रवर्तते ।
तदालम्बं मनोनाम विज्ञानं मननात्मकम्

6

क्लेशैश्चतुर्भिः सहितं निवृताव्याकृतैः सदा ।
आत्मदुष्ट्यात्ममोहात्ममानात्मस्नेहसञ्ज्ञितैः

7

यत्रजस्तन्मयैरन्यैः स्पर्शाद्यैश्चार्हतो न तत् ।
न निरोधसमापत्तौ मार्गे लोकोत्तरे न च

8

द्वितीयः परिणामो ऽयं तृतीयः षड्विधस्य या ।
विषयस्योपलब्धिः सा कुशलाकुशलाद्वया

9

सर्वत्रगैर्विनियतैः कुशलैश्चैतसैरसौ ।
सम्प्रयुक्ता तथा क्लेशैरूपक्लेशैस्त्रिवेदना

10

आद्याः स्पर्शादयश्छन्दाधिमोक्षस्मृतयः सह ।
समाधिधीभ्यां नियताः श्रद्धाथ ह्रिरपत्रपा

11

अलोभादि त्रयं वीर्यं प्रश्रब्धिः साप्रमादिका ।
अहिंसा कुशलाः क्लेशा रागप्रतिघमूढयः

12

मानदृग्विचिकित्साश्च क्रोधोपनहने पुनः ।
म्रक्षः प्रदाश ईर्ष्यार्थ मात्सर्यं सह मायया

13

शाठ्यं मदो ऽविहिंसाह्रीरत्रपा स्त्यानमुद्धवः ।
आश्रद्धमथ कौसीद्यं प्रमादो मुषिता स्मृतिः

14

विक्षेपो ऽसम्प्रजन्यं च कौकृत्यं मिद्धमेव च ।
वितर्कश्च विचारश्चेत्युपक्लेशा द्वये द्विधा

15

पञ्चानां मूलविज्ञाने यथाप्रत्ययमुद्भवः ।
विज्ञानानां सह न वा तरङ्गाणां यथा जले

16

मनोविज्ञानसम्भूतिः सर्वदासञ्ज्ञिकादृते ।
समापत्तिद्वयान्मिद्धान्मूर्छनादप्यचित्तकात्

17

विज्ञानपरिणामो ऽयं विकल्पो यद्विकल्प्यते ।
तेन तन्नास्ति तेनेदं सर्वं विज्ञप्तिमात्रकम्

18

सर्वबीजं हि विज्ञानं परिणामस्तथा तथा ।
यात्यन्योन्यवशाद् येन विकल्पः स स जायते

19

कर्मणो वासना ग्राहद्वयवासनया सह ।
क्षीणे पूर्वविपाके ऽन्यद्विपाकं जनयन्ति तत्

20

येन येन विकल्पेन यद्यद् वस्तु विकल्प्यते ।
परिकल्पित एवासौ स्वभावो न स विद्यते

मूल पाठ: Triṃśikāvijñaptikārikā · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc