ग्रंथ पाठ
तिकनिकयात्र · अध्याय 2
2.1
सूर्यदिने धननाशश् चान्द्रे शक्तिक्षयो ऽन्नहानिश् च।
ज्वलनासृक्पित्तरुजाः कौजे बौधे सुहृत्प्राप्तिः॥
2.2
जीवे जयधनलब्धिः शौक्रे स्त्रीवस्त्रगन्धधनलाभाः।
दैन्यं च बन्धरोगान् प्राप्नोति दिने ऽर्कपुत्रस्य॥
2.3
उपचयकरग्रहदिने सिद्धिः क्रूरे ऽपि यायिनां भवति।
सौम्ये ऽप्य् अनुपचयस्थे न भवति यात्रा शुभा यातुः॥ए3
मूल पाठ: Tikanikayātra · Edition: Pandit, Vasant Kumar R., Tikanikayatra of Varahamihira, Journal of the University of Bombay. · Data entry Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0