तिकनिकयात्र · अध्याय 3
गरवणिजा(ज)विष्टि(परि)वर्जितानि करणानि यातुर् अनिष्टानि(इष्टानि)।
गरम् अपि कैश् चिच् छस्तं वणिजा(जां) च वणिक्क्रियास्व् एव॥
शिवभुजगमित्रपितृवसुजलविश्वविरिञ्चिपङ्कजप्रभवाः।
इन्द्राग्नीन्द्रनिशाचरवरुणार्य्यमयोनयश् चाह्नि॥
रुद्राजाहिर्बुध्न्याः पूषा दखान्तकाग्निधातारः।
इन्द्वदितिगुरुहरिरवित्वष्ट्रनिलाख्याः क्षणा रात्रौ॥
अह्नः पञ्चदशांशो रात्रेश् चैवं मुहूर्त इति संज्ञा।
स च विज्ञेयस् तज्ज्ञैश् छायायन्त्राम्बुभिर् युक्त्या॥
नक्षत्रवत् क्षणानां परिघादि तदीश्वरैः समं चिन्त्यम्।
फलम् अपि तद् एव दृष्टं गर्गाद्यैस् तत्र च श्लोकाः॥
अहोरात्रं च संपूर्णं चन्द्रनक्षत्रयोजितम्।
तन्नक्षत्रमुहूर्त्ताश् च समकर्मगुणाः स्मृताः॥
यश् चाष्टमो मुहूर्तो विरिञ्चिनामाभिजित् स निर्दिष्टः।
तस्मिंस् त्र्य (लचुन) याम्याम् अत्यन्तगतस्य जयलब्धिः॥
अष्टमेन दिवसे समे शुभो यो विरिञ्चिविभुसंज्ञिताः(तः)(अद्द्.क्षणः)।
तेन यानम् अपहायि(य)दक्षिणां सर्वदिक्षु अ(क्ष्वभि)जित्(ता)प्रशस्यते॥ए8
मूल पाठ: Tikanikayātra · Edition: Pandit, Vasant Kumar R., Tikanikayatra of Varahamihira, Journal of the University of Bombay. · Data entry Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0