तिकनिकयात्र · अध्याय 1
घनतिमिरनागसिंहस्त्रिभुवनभवनाधिपो जगच्चक्षुः।
उदयास्ताच(ल)मौलिर् जयति रविर् गगनतिलकैकः॥
मूर्ध्ना गणेशं च सरस्वतीं च सलोकपालं परमेश्वरं च।
पद्मोद्भवं पद्मधनं हरिं च त्रैलोक्यदीपं प्रणमामि भानुम्॥
यात्राविधिर् अत ऊर्ध्वं विजिगीषोर् विदितजन्मसमयस्य।
प्रत्यब्दमासवासरविभक्तसुखदुःखनिष्ठस्य॥
विदिते होराराशौ स्थानबलपरिग्रहे ग्रहाणां च।
आयुषि च परिज्ञाते शुभम् अशुभं वा फलं वाच्यम्॥
प्रस्तुतविरोध एवं स्थितविषये भवति शास्त्रनिर्देशः।
जन्मसमयं च केचिद् वदन्ति न वदन्ति बहुवो ऽन्ये॥
जन्मर्क्षोदयलग्ने तद् अपि ययोर् वा यियासतः प्रश्ने।
त्रिषडेकादशशीर्षोदयेषु मार्गेषु च जयः स्यात्॥
शत्रोर् होराराशिस् तद् अधिपतिर् जन्मभं तदीशो वा॥
यद्य् अस्ते हिबुके वा तथापि शत्रुर् हतो वाच्यः॥
प्रश्ने मनोरमा भूर् मङ्गल्यद्रव्यदर्शनं शस्तम्।
यदि चादरेण पृच्छति दैवज्ञो निर्दिशेद् विजयम्॥
नन्दा भद्रा विजया रिक्ता पूर्णा च नामसदृशफलाः।
न्यूनसमेष्टा दशमे तिथयः शुक्ले कृष्णे प्रतीपास् ताः॥
नक्षत्रपुटाकिरणं पश्चात् सन्ध्यागतं ग्रहैर् भिन्नम्।
क्रूरनिपीडितम् उत्पातदूषितं चाशुभं सर्वम्॥
चित्रास्वातिविशाखाभरणीपित्र्येषकृत्तिकाश्लेषाः।
नातिशुभदानि याने शेषाणि शुभानि धिष्ण्यानि॥
शत्रुविषयं दिधक्षोर् अन्यत्रार्कोदयाच् छुभाग्नेयी।
न विशाखारोहिण्युत्तरेषु दिवसस्य पूर्वाह्णे॥
ज्येष्ठामूलाश्लेषारौद्रेषु विवर्जयेच् च मध्याह्णम्।
स्वात्याश्विपुष्यहस्तेष्व् अपराह्णे वर्जयेद् यात्राम्॥
मैत्रेन्दवचित्रारेवतीषु यायात् प्रदोषम् उत्सृज्य।
पूर्वेषु त्रिषु याम्ये पित्र्ये च विहाय मध्यनिशम्॥
न निशापश्चिमभागे पुनर्वसौ त्रिषु च वैष्णवाद्येषु।
सर्वे ऽपि शुभाः कालाः श्रवणेन्द्रवहस्तपुष्येषु॥
प्राच्यादि सप्त सप्त क्रमेन धिष्ण्यानि कृत्तिकादीनि।
अनुलोमान्य् एकत्वं पूर्वोत्तरश् रोणितरयोश् च॥
अनलानिलदिग्रेखां परिघाख्यां यान्ति ये समुत्क्रम्य।
आज्ञाम् इव कुलिशभृतः पतन्ति न चिरेण ते व्यसने॥
सर्वद्वारिकसंज्ञं नक्षत्रचतुष्टयं समुद्दिष्टं।
पुष्यो हस्ताश्विन्यौ नक्षत्रं मित्रदेवं च॥
ज्येष्ठा प्राग्भाद्रपदा रोहिण्य् अथोत्तरा च फल्गुन्या।
शूलानि प्राच्यादिषु तेषु गतो ऽत्येति यदि चित्रम्॥
तारास् तु जन्मसम्पद्विपत्करा क्षेमा (?) ऽपायशुभकष्टा।
मैत्रातिमैत्रसंज्ञाश् चैताः संज्ञानुरूपफलाः॥ए20
मूल पाठ: Tikanikayātra · Edition: Pandit, Vasant Kumar R., Tikanikayatra of Varahamihira, Journal of the University of Bombay. · Data entry Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0