भाषा

ENहिગુ
ग्रंथ पाठ

तत्त्वयाथार्थ्यदीपन · श्लोक 21-25

21

]
ब्राह्मप्राजापत्यसौम्यैन्द्रगान्धर्वयक्षराक्षसपैशाचा इत्यष्टौ देवसर्गाः ।
पशुपक्षिमृगसरीसृपस्थावरा इति पञ्चविधास्तैर्यग्योनयः ।
मानुषश्चैकविधो ब्राह्मणादिश्चण्डालान्त इति ।
गवादिमूषकान्ताः पशवः ।
गरुडादिमशकान्ताः पक्षिणः ।
सिंहादिशृगालान्ता मृगाः ।
शेषादिदुन्दुभान्ताः सरीसृपाः ।
पर्वतादितृणान्ताः स्थावरा इति ।
अत्र कारिका ।
अष्टविधो दैवस्तैर्यग्योन(य)श्च पञ्चधा भवति ।
मानुषश्चैकविधः समसतो भौतिकः सर्गः ॥ इति ।
एतत्संसारमण्डलम् अन्यानप्यनुक्तान् सर्गानुद्दिशति सूत्रत्रयेण ।
[त्रिविधो बन्धः

22

]
[त्रिविधो मोक्षः

23

]
[त्रिविधं प्रमाणम्

24

]
प्राकृतिको वैकृतिको दाक्षिण इति त्रयो बन्धाः ।
प्राकृतो ऽष्टप्रकृतिष्वभिमानरूपः ।
द्वितीयस्तु प्रव्रजितानामपि शब्दादिषु मनसः सङ्गः ।
तृतीयस्तु गृहस्थादीनां कामोपहतचेतसां दक्षिणां ददतां दक्षिणाबन्धः ।
उक्तं च पञ्चशिखाचार्यैः ॥
प्राकृतेन तु बन्धेन तथा वैकारिकेण च ।
दक्षिणाभिस्तृतीयेन बद्धो जन्तुर्विवर्तते ॥ इति
मोक्षत्रैविध्यं चोक्तम् ।
आदौ तु मोक्षो ज्ञानेन द्वितीयो रागसंक्षयात् ।
कृच्छ्रक्षयात् तृतीयस्तु व्याख्यातं मोक्षलक्षणम् ॥
ज्ञानोद्रेकादविद्यानिवृत्तिरूप एकः रागसंक्षयादिन्द्रियोपशमरूपो द्वितीयः कृच्छ्रक्षयाद्धर्माधर्मकरणरूपाद्धर्माधर्मानुत्पादरूपस्तृतीयः ।
एतत्त्रयं ज्ञानद्वारभूतत्वाद् गौणं मोक्षत्रयम् ।
आत्यन्तिकत्रिविधदुःखनिवृत्तिरेव मुख्यो मोक्षः ।
तदुक्तं गोतमेन सूत्रेण दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तराभावादपवर्ग इति ।
उक्तानां पदार्थानां सिद्ध्यर्थं प्रमाणान्याह मानाधीनत्वान्मेयसिद्धेः ।
त्रिविधं प्रमाणमिति ।
प्रत्यक्षानुमानशब्दा इति ।
तत्रानधिगतयथार्थज्ञानं प्रमा तत्करणं प्रमाणमिति सामान्यलक्षणमेकम् ।
अर्थाकारानधिगतयथार्थान्तःकरणवृत्तिरिति द्वितीयम् ।
तत्र प्रत्यक्षमिन्द्रियजन्यमनधिगतयथार्थज्ञानं प्रत्यक्षप्रमा ।
तत्करणं प्रत्यक्षप्रमाणम् ।
इन्द्रियजन्यानधिगतयथार्थान्तःकरणवृत्तिरिति द्वितीयम् ।
यथार्थलिङ्गज्ञानाज्जायमानं ज्ञानमनुमितिस्तत्करणमनुमानमित्येकम् ।
लिङ्गज्ञानाज्जायमाना साध्यविशिष्टपक्षाकारान्तःकरणवृत्तिरिति द्वितीयम् ।
आप्तवचनजन्यज्ञानं शब्दप्रमा तत्करणं शब्दप्रमाणमित्येकं लक्षणम् ।
आप्तवचनजन्या पदार्थासंसर्गाकारान्तःकरणवृत्तिरिति द्वितीयं शब्दप्रमाणलक्षणम् ।
आप्तस्तु स्वकर्मण्यभियुक्तो रागद्वेषरहितो ज्ञानवान् शीलसम्पन्नः ।
इदं तु ज्ञानोपदेष्टुरेवाप्तलक्षणम् वस्तुतो यथाभूतार्थस्योपदेष्टा पुरुष इत्येव ।।
उक्तपदार्थेषु केचित्प्रत्यक्षसिद्धाः केचितनुमानसिद्धाः ।
उभाभ्यां यन्न सिद्धं तच्छब्दप्रमाणेन सिध्यति यथेन्द्रो देवानां राजा उत्तराः कुरवः सौवर्णो मेरुः स्वर्गे ऽप्सरसः एते पदार्था न प्रत्यक्षानुमानगम्याः किन्तु शब्दैकगम्याः ।
अत्र चैषा ज्ञानप्रक्रिया ।
अन्तःकरणस्येन्द्रियाणां चाविभक्तः सङ्कोचविकासशाल्यग्रभागो वृत्तिरभ्युपेयते भागगुणाभ्यां तत्त्वान्तरं वृत्तिः सम्बन्धार्थं सर्पतीति सांख्यप्रवचनसूत्रात् ।
भागो विभक्तो ऽवयवस्तस्माद्गुणाच्च तत्त्वान्तरं पदार्थान्तरमविभक्तो ऽवयव इत्यर्थः ।
तथा चान्तःकरणवृत्तिरिन्द्रियवृत्तिद्वारार्थसन्निकृष्टा भवति तत इन्द्रियवृत्त्या सहार्थाकारा परिणमते सा चार्थाकारा वृत्तिर्गुणरूपा सर्वात्मनां विभुत्वे ऽपि स्वस्वामिन्येवात्मनि प्रतिबिम्बते नान्यत्र अबादिस्वस्वामिभावस्य प्रतिबिम्बनियामकत्वात् अन्यथा ऽतिप्रसङ्गात् प्रतिबिम्बश्चाधिष्ठानगताया बुद्धेर्विकारः परिणामः स्वत्त्वं च स्वामिप्रकाशितवृत्तिजन्यसंस्कारवत्त्वम् ।
स्वामित्वं च स्वनिष्ठसंस्कारजनकवृत्तिप्रकाशकत्वं सा च वृत्तिरात्मनि स्थिता सती अर्थाकारा आत्माकारा च स्वसमानाकारं परिणामान्तरं धत्ते स एवात्मनि वृत्तिप्रतिबिम्बो विषयताख्यः सम्बन्ध इति तदवच्छिन्नं चैतन्यं प्रत्यक्षप्रमा घटमहं जानामीत्याकारार्थात्मविषयिणी तदुक्तम् ॥
अदृश्यो दृश्यते राहुर्गृहीतेन यथेन्दुना ।
तथा ऽनुभवमात्रात्मा दृश्येनात्मा ऽवलोक्यते ॥
दृश्येन वृत्त्या ।
इयं च प्रत्यक्षा वृत्तिर्विषयदेशे जायमाना तत्रैवात्मनि प्रतिबिम्बते आत्मनो विभुत्वात् यत्र चेन्द्रियद्वारं विना मनः स्ववासनावशाद्यत्रार्थेन सम्बद्ध्यते तत्र तदाकारा वृत्तिर्मानसं प्रत्यक्षम् ।
उक्तं च ।
शरीरलयमुत्सृज्य यत्र चित्तविहङ्गमः ।
स्ववासनावशाद्याति तत्रैवात्मा ऽनुभूयते ॥
इति वासिष्ठे ।
इति प्रत्यक्षप्रक्रिया ॥
एवं व्याप्तिप्रमाजन्यसाध्यविशिष्टपक्षाकारा वुत्तिरनुमानम् तत्प्रतिबिम्बावच्छिन्नचैतन्यमनुमितिः ।
इत्यनुमानप्रक्रिया ॥
यथार्थपदस्मृतिजन्या पदार्थसंसर्गाकारा वृत्तिः शब्दप्रमाणम् तत्प्रतिबिम्बावच्छिन्नचैतन्यं शाब्दी प्रमा इदं प्रमाणद्वयमान्तरमेव ।
अपरोक्षत्वं परोक्षत्वं स्मृतित्वं संशयत्वं विपर्ययत्वं प्रमात्वमप्रमात्वं च सर्वे वृत्तिधर्मा एव तत्प्रतिबिम्बवशाच्चैतन्ये ऽप्युपचर्यन्ते तत्रापरोक्षत्वपरोक्षत्वस्मृतित्वानि जातयः संशयश्च भासमानविरोधोभयकोटिस्पृग्वृत्तिः ।
यत्र यन्नास्ति तत्र तन्निश्चयो विपर्ययः यथार्थवृत्तिः प्रमा अयथार्थवृतिरप्रमा अत्र प्रमात्रादिविभागविषये विज्ञानाचार्याणां कारिका ।
प्रमाता चेतनः शुद्धः प्रमाणं वृत्तिरेव च ।
प्रमार्थाकारवृत्तीनां चेतने प्रतिबिम्बनम् ॥
प्रतिबिम्बितवृत्तीनां विषयो मेय उच्यते ।
वृत्तयः साक्षिभास्याः स्युः करणस्यानपेक्षणात् ॥
साक्षाद्दर्शनरूपं च साक्षित्वं सांख्यसूत्रितम् ॥ इति ।
ज्ञानस्य च जन्यत्वं विनाशित्वमात्मधर्मत्वं च प्रतिबिम्बावच्छिन्नत्वेनोपपादनीयम् आत्मरूपस्य ज्ञानस्य नित्यत्वात् ।
विशिष्टे हि विधिनिषेधौ विशेषणमुपसंक्रामतः सति विशेष्ये बाध इति न्यायात् ।
आधाराधेयभावो ऽपि खे खगोदय इतिवदुपपादनीयः वृत्तीनामात्मनि प्रतिबिम्बे प्रमाणम् ।
तस्मिंश्च दर्पणे स्फारे समस्तां वस्तुदृष्टयः ।
इमास्ताः प्रतिबिम्बन्ति सरसीव तटद्रुमाः ॥
इति वासिष्ठम् ।
इति समासतो ज्ञानप्रक्रिया ॥
अत्र शास्त्रे ऽनुक्ताः स्वाविरोधिनः शास्त्रान्तरीया अपि पदार्थाः ग्राह्याः सारादानं षट्पदवदिति सांख्यप्रवचनसूत्रात् ।
सर्वतः सारमादद्यात् पुष्पेभ्य इव षट्पद इति स्मृतेश्च ।
एते च प्रकृत्यादयः पदार्थाः संहतत्वपदार्थत्वजडत्वप्रतिक्षणपरिणामित्वादिदोषैर्दुष्टत्वाद्धेयास्तेभ्यो ऽप्यधिकं हेयमाह ।
[त्रिविधं दुःखम्

25

]
आध्यात्मिकामधिभौतिकमाधिदैविकं चेति ।
तत्राध्यात्मिकं द्विविधं शारीरं मानसं च ।
तत्र शारीरं वातपित्तश्लेष्मणां वैषम्येणोत्पन्नं ज्वरातिसारादि ।
कामक्रोधलोभादिजन्यं मानसं मानुषमृगसर्पादिजन्यमाधिभौतिकं शीतोष्णवातवृष्टिजन्यमाधिदैविकम् ।
अनेन त्रिविधदुःखेनाभिभूतस्य तरति शोकमात्मविदिति श्रुत्वा आत्मनि जिज्ञासा जायते ।
यथा तृषितस्य पानीयपिपासा ।
कृतस्य तत्त्वनिरूपणस्य पुरुषार्थसम्बन्धं दर्शयति ।
[एतत्परं याथार्थ्यं एतज्ज्ञात्वा कृतकृत्यः स्यान्न पुनस्त्रिविधदुःखेनाभिभूयते

मूल पाठ: Tattvayāthārthyadīpana a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (23-) 25 sūtras. · Edition: Vindhyesvari Prasada Dvivedin in: Sāmkhyasaṅgrahaḥ (Chowkhamba Sanskrit Series, 50,1 [fasc. 246], pp. 51-92) · Data entry Dhaval Patel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc