भाषा

ENहिગુ
ग्रंथ पाठ

तर्कताण्डव (टीका सहित) · अध्याय 1

1.1

॥ तर्कताण्डवम् ॥
श्रीराघवेन्द्रतीर्थकृतन्यायदीपाख्याव्याख्यासमलङ्कृतम्
मुखोपन्यासः
व्यासत्रयनाम्ना प्रथितेषु चन्द्रिकान्यायामृततर्कताण्डवाख्येषु ग्रन्थेषु कृतविमर्षानां महोदयानां विचारचातुरी स्वसिद्धान्तवैखरी सुतत्वसाधुरी च सुगमतया भवतीति नाविदितमुद्धोषयामो वयम् । त्रिष्वप्येषु तर्कताण्डवाख्योयं वादग्रन्थादिराजः निगमोपकारतया शिष्टप्ररिगृहीतासु तर्कशास्त्रपरम्परास्वागन्तुकानां,"वेदाः केनचित् कृताः । न प्रमाणम् । अपि तु सहकारिमहिन्मैव प्रमाणम् । ईश्वरः परिमितगुणः । दुःखध्वंसो मोक्षः"इत्यादिमविषयान् निगममहिमापकर्षकान् प्रतिपादयतां प्रबन्धानां दूषणीयतां, निगमविरोधाकूतानामादरणीयतां च युक्त्यैव समर्पयति । यदस्य नाम्नि; तर्के ताण्डवं, तर्कस्य तण्डवं, तर्के ताण्डवमिति च त्रिधा विग्रहीतव्यमास्ते । तेन हि सप्तम्या अधःकारस्य, षष्ट्या भावाविष्करणचेष्टाविशेषरूपताण्डवान्वयिनः सम्बन्धस्य,
अनुमार्तकतर्कशब्देन युक्तेश्च सुलभो लाभः ।
कथमस्मिन्कल्पनीवनावनपथे निःशङ्कसञ्चरणमादरश्चेति शङ्का परमवशिष्यते । तत्रैतद्व्यानस्य दिशं प्रत्यङ्गुलि प्रसारयामः । व्याख्यानस्यास्य, तात्पर्यचन्द्रिकायाः प्रकशस्येव, सुधायाः परिमलस्येव च नर्तनोपकारकवस्तुनाम्ना न नामाभिहितम् । अपि तु मुलनाम्नोपि स्वनाम्नैव व्याचिख्यासया, शुष्कन्यायं दीपयति दहतीति, सन्न्यायं प्रकाशयतीति, न्यायेन युक्त्या प्रकाशत इति च सुलभत्रिविवारणं न्यायदीपनामैव । नैतवदेव सन्ति च वाक्यानि। सम्पुटेस्मिन् द्वितीयपुटे चतुर्दशतमपङ्केः"अत्र न्यायचिन्तापरे ग्रन्थे"इत्यारम्य"ब्रह्मतन्त्रोक्तप्रमेयनिर्णयोपयुक्तप्रमाणन्यायचिन्तापरत्वात्तद्विषयादिनैवास्य विषयादिमत्ता"इति; तृतीयसम्पुटे नवमाङ्कौ"ताण्डवकरणस्य प्रसञ्जकं पूर्वरङ्गं निबध्नाति"इति च । द्वितीयसम्पुटे उपयुक्तचिन्तापदाभ्यां ब्रह्मतन्त्रा(वेदान्ताना)नुकूलाननुकूलन्यायोर्युक्तायुक्तत्वाविमर्शनस्य
तृतीयपुटपङ्क्त्या नर्तनार्थविवक्षायाः, सर्वत्र युक्त्यनुधावनस्य चावगमः सुलभः॥
इदृङ्महिम्नोस्य ग्रन्थस्य प्रथमं सम्पुटमिदानीं प्रकाशयामः । तत्र प्रथमतः ग्रन्थं
ग्रन्थकर्तारं चाधिकृत्य कञ्चन मुखोवन्यासमारचयेम ॥ आस्तामनन्तरं विपुला ग्रन्थविचारणा । कर्तुरपि विचारणे सङ्कुचितैवास्मदीया प्रवृत्तिः। यतः प्रचीनः सोमनाथकविवरेण्यः व्यासविजयाख्यकाव्ये सुविशालमुपाश्लोकयत् । उपलभमाहे
च मुद्रितं काव्यमिदमिदानीम् ॥
सुविचारविचारणाविवेकशौण्डस्यास्य तर्कताणडवस्य; अपरेषां- 1. न्यायामृतम्,
2. तात्पर्यचन्द्रिका, 3. तत्वविवेकटीकामन्दारमञ्जरी, 4. उपाधिकण्डनटीकामन्दारमञ्जरी, 5. मायावादखण्डनटीकामन्दारमञ्जरी, 6. मिथ्यात्वानुमानखण्डनटीकामन्दारमञ्जरी, 7. भेदोज्जीवनम्, इत्येषामपि ग्रन्थामनां ग्रथयितारः पदवाक्यप्रमाणज्ञाः सम्प्रदायार्थकोविदाः व्यासराजमुनयः ।
एभ्यः पारव्राज्यप्रदातारः -
"कंसध्वंसिपदाम्भोज संसक्तो हंसपुङ्गवः ।
ब्रह्मण्यगुरुराजाख्यो वर्ततां मम मानसे"॥
इति तात्पर्यचन्द्रिकादावादृता ब्रह्मण्यतीर्थमुनिवरेण्याः । विद्यागुरवस्तु सर्वशास्त्रविशारदाः ज्ञानभक्तिवैराग्यादिगुणगुम्भिताः श्रीपादराजाः इति विश्रुता लक्ष्मीनारायणमुनयः । इममप्यभिप्रयन्तिग्रन्थकारा एव
न्यायामुते -
"ज्ञानवैराग्यभक्त्यादि कल्याणगुणशालिनः ।
लक्ष्मीनारायणमुनीन् वन्दे विद्यागूरून् मम"॥ इति ॥
एतेषामन्तेवासिन अनेके अवर्तन्त । तेषु चतुरधिकशतानां ग्रन्थानां निर्मातरो विजयीन्द्रसंयमीन्द्राः, गुर्वर्थदीपिकायुक्तिमाल्लिकाद्यनेकग्रन्थकतारो वादिराजस्वामिनश्च सुप्रसिद्धाः ॥
क्रिस्तशकषोडशशतमाने भारतभूमिमिमे मूर्तितोप्यलमकुर्वन्निति शासनसंपादितो निर्णयः ।"विजयनगराधीशकृष्णदेवराजेन गौरपुराभिदो ग्रामः व्यासराजस्वामिभ्यः
नवचत्वारिंशतदधिकचतुःशतोत्तरैकसहस्रतमे शकाब्दे दत्तः"इति हि शासने प
ठन्ति । ग्रन्थैरेभिरखिलानुपकुर्वतामेषां विशेषतः सर्वे मध्वमतावलम्बिन अधमर्णा एव ॥
अयमपि तु कथासंग्रहः पण्डितरत्नबिरुदाङ्कितविद्वद्वरगौडगोरि वेङ्कटपमणार्यरचितचन्द्रिकाप्रकाशप्रसराख्यग्रन्थस्य भूमिकात उद्धृतः ॥
व्यसतीर्था एते गनशास्त्रे कर्णाटककविकर्मणि च सुकृतपरिचया इति एभिःकृतगानगाथापरिशीलनेन निश्चिनुमः। अत एषां शिष्यपरंपरे द्वे । गीर्वाणभाषया द्वैतसिद्धान्तप्रचारकाणामेका । कर्णाटकभाषया द्वैतसिद्धान्तप्रचारकाणामपरा । प्रथमपरम्परां विजयीन्द्रादयाः पण्डितप्रकाण्डा प्रथमपरिगणनाः । द्वितीयायां प्रसिद्धतमपुरन्दरदासादयः । यैः कृतगीतिकामेव सर्वे गानाभ्यासिनः प्रथममवलम्बन्ते । पुरन्दरदासादयोपि नानाधीतगीर्वाणप्रबन्धाः । अभ्यस्तवेदान्तशास्त्रा एव । परंलोकोपकाराय कर्णाटकभाषया प्रबन्धानबन्धयन् ॥
ततः प्रकृतग्रन्थमिममधिकृत्य विचारयिष्यामः । तर्कताण्डवस्येत्थं नामकरेण तदनुगुणत्वे च पूर्वमेव किञ्चिदलिखाम । इदानीमत्र प्रकरणविभाग, प्रतिपादनीयं,
प्रतिपादनापारिपाटां च निरूपणायानेष्यामः ॥
विभागः - आदौ प्रत्यक्षपरिच्छेदः शब्दपरिच्छेदः अनुमानपरिच्छेदः इति त्रिधा परिच्छेदनाम्ना विभागः कृतः । 487 पुटे 7 पङ्क्त्यौ, 490 - 12 पङ्क्त्यौ 505 - 5 पङ्क्त्यौ च व्याख्याने प्रथमद्वितीयतृतीयशब्दैः परिच्छेदशब्दोत्तराण्येव नामानि व्यक्तीभवन्ति हार्दं किञ्चिदस्ति एव सुव्यक्तमिदम् ॥
परिशीलितेस्मिन् ग्रन्थे प्राथो विष्णुतत्वनिर्णयस्य प्रमाणनिरूपणवाक्यानां नानाविवरणान्युपलभ्यन्ते । तत्र"सदागमैक"इति श्लोकेन हरिं स्तुत्वा तत्रोक्तविशेषणानां तत्कोटिप्रविष्टानां च समर्थनायोत्तरोद्योगः, परिच्छेदनाम्नैव विभागः, तेपि त्रय एव हि वर्तन्ते । अत्रापि प्रथमतः"स्वतप्रमाणैः"रिति श्लोकः, तत्र श्रीरमणविशेषणकोटिप्रविष्टानां समर्थनार्थाम्भस्च वर्तते । परिच्छेदत्रयकृतिरपि तद्वभागकरणमनुरुणद्धीति वयमुत्प्रेक्षामहे । एतत्सम्पुटान्तिमग्रन्थपर्यालोचनया"स्वतः"इत्यादिश्लोकपूर्वोर्धोक्तस्थापनायैतावान्प्रबन्ध इति सुव्यक्तं भविष्यति ।"तदेवं वर्णस्य गुणत्वे उक्तरीत्या ग्रहणासम्भवात् नित्यविभुद्रव्यात्मकवर्णसमुदायात्मकस्य
वेदस्यापौरूषेयत्वं युक्तमिति"इति मूले ।"युक्तमिति । तथाचाम्नायैरादिवर्जितैरित्युक्तं साध्विति भावः"इति व्याख्यायां चास्ति ॥
परिच्छेदेष्वप्येष्वान्तरालिकान् षड्विभागान् तत्तद्विषयविवेचनानुगुणैर्वादशब्दोत्तरैर्नामभिरुपलभामहे । त इमे -
1. प्रामाण्यवादः
2.वेदापौरुषेयत्ववादः
3. ईश्वरवादः
4.वर्णवादः
5. समवायवादः
6. निर्विकल्पवादः । इति ।

षट्स्वप्येषु द्वात्रिन्द्विभागाः सन्ति । तेषां"स्वमते ज्ञाप्तौ स्वतस्त्वनिरुक्तिः"इतिरीत्या विषयानुगुणान्येव नामानि तत्तदन्ते लिखितान्यवलोक्यन्ते । विषयानुक्रमणिकायां तानि स्पष्टानि । यथा महाविभागानां नामसु समानः परिच्छेगशब्दः. यथा च तदल्पानां मध्यविभागानां नामसु वादशब्दः, एवमेवान्तिमविभागानां नामस्वपि
समानो ऽप्रतिकूलार्थदः कश्चन शब्दो भवेदेव । तेन प्रथमाद्वितीयादिसंख्याशब्दान्योजयित्वाह्वयामेत्यपरमप्यनुकूलम् ।
भगवान् बादरायणः महाभारतेपर्वान्तैः पौलोमास्तिकादिशब्दैरल्पविभागान्, तादृशैः आदिसभादिशब्दैरनल्पविभागांश्चोररीचकार, इमे
व्यालमुनयोप्यल्पोभयगणघटितानां नामस्वन्तमप्रतिकूलार्थं वादशब्दमेवानुमन्यत इत्यस्मान् प्रतिभाति नायमध्वास्मदुपज्ञः । न्यायदीवकर्त्रैव कृतपदाङ्कः । तत्र चतुर्थपुटे अष्टमाङ्कौ"अत्र स्वतः प्रमाण्यज्ञप्तिवादपर्यन्तं"इति; 108 तमपुटे 11 पङ्क्तौ"अतीतवदोक्तदिशा निःशङ्कप्रवृत्त्यर्थं, अत्र वादे उक्तदिशा"इति; 378 तमपुटे 6 पङ्क्तौ"व्यक्तं चैतद्वा (1) दान्ते ग्रन्थे एव"इति च पश्यामः ।
स्वतन्त्रवादग्रन्थे न्ययामृतेप्येषैव रीतिरिति, 459 तमपुटे 8 मपङ्क्तौ"न्यायामृते असतो निषेदप्रतियोगित्वसमर्थनवादे"इति व्याख्यानस्यास्य वाक्यविमर्शका अभ्युपगच्छेयुः । मूलेपि केषिचित्पुस्तकेषु 184 तमपुटे 9 मपङ्क्तौ"इत्युत्पत्ति स्वतस्त्ववादे"इत्यस्ति ॥
आस्तामयं विचारः । इत्थमस्ति महावादेषु विन्यस्तानामणुवादानामियत्तानिर्णयः॥
प्रथमे प्रामाण्यवादे ..... अष्टादश ..... 18
द्वितीये ........ उत्तरास्त्रयः ... 3
तृतीये .......... अनन्तर एक एव 1
चतुर्थे ......... ततः षट् .... 6
पञ्चमे ......... उपरि द्वौ ..... 2
षष्टे ......... अवशिष्टौ ...... 2 इति ।
प्रतिपादनीयः.
आदावेव नामानिर्वचनाव्याजेन प्रतिपादनीयो विषयः सामान्यतः प्रदर्शितप्राय एव। केवलनैयायिकाभिधानानामनृसृतवेदानां च ज्ञानज्ञानसाधनविषये यत्रयत्र विसंवादस्तत्समीकरण एव ग्रन्थकर्तुर्मुख्योभिप्रायः । तेषांस्तेषां संपुटानां प्रकाशनवेलायां विशेषतस्तांस्तान्विषयान् प्रतर्शयिष्यामः ॥
प्रकृतसंपुटे अयं विषयविशेषः .
प्रत्यक्षखण्डप्रत्यक्षपरिच्छेदशब्दाभ्यामपि संकेतितेस्मिन्संपुटे प्रत्यक्षज्ञानानां, तत्साधनानां, तत्प्रामाण्यानां, ज्ञेयानां च निरूपणं न्यायतः संप्राप्तम् । ज्ञानाज्ञेयसाधनानि प्रमाणलक्षणपद्धत्यादिभिरेव सुखावबोधनीति प्रामाण्यमेवोर्वरितम् । तत्रापि प्रामाण्यस्वरूपविषये न तादृशो विवादः । अपि तु
कथमस्योत्पत्तिः ज्ञप्तिश्चेत्यत्रैव । अतः स एव विषयः सामान्यरूपेण विचारपथपान्थ इति सुष्ठु पश्यामः नहि सामान्याकारेण चर्चितं प्रत्यक्षप्रामाण्यत्वादिरूपविशेषाकारेण न सिध्यति ॥
प्रत्यक्षपरिच्छेदे प्रत्यक्षप्रमाण्यविचार एवानुरूपः । न तु शाब्दप्रमाण्यादेः । सत्यम् । तत्तत्परिच्छेदे तत्तत्प्रमाण्यमेव यदि न्यरूपयिष्यन् तदा, प्रमाण्यसामान्यस्य न स्वतस्त्वम् कथं प्रमाण्यविशेषस्येति शङ्कावशिष्टाभविष्यत् । अतः प्रथम्यात्सामान्यविचारेणैवविशेषशङ्काया अपि शान्तेरत्रैव प्रमाण्यसामान्यनिरूपणं नानुपपन्न मित्युत्पश्यामः -
तत्रापि ---
(क) पामाण्यं स्वत इति वेदान्तिनः
,, परत इति नैयायिकाः
(ख) वेदाः अपौरुषेया नित्याश्चेति वेदान्तिनः
ईश्वरोच्चरिता अनित्या इति नैयायिकाः
(ग) ईश्वरस्य सार्वज्ञ्यादिकं वेदेनैव सिद्ध्यतीति वेदान्तिनः
धर्माग्राहकानुमानैरिति नैयायिकाः
(घ) वर्णाः नित्यविभुद्रव्याणीति वेदान्तिनः
अनित्या गुणा इति नैयायिकाः
(ङ) वर्णः संयोगेन ज्ञेय इति वेदान्तिनः
समवायेनेति नैयायिकाः
(च) निर्विकल्पज्ञानं नास्तीति वेदान्तिनः
अस्तीति नैयायिकाः
इति षोडा विप्रतिपत्तयः सन्ति । तत्र निर्णयायैव वादानामङ्गीकारः ॥
प्रमाण्यविषयोयं परिच्छेद इत्युक्त्वा वेदेश्वरादीनां विचारणे कः प्रसङ्गः इति परं शङ्कोन्मीलति । तामेवं प्रतिब्रूमः ॥
प्रक्रान्ते प्रमाण्यस्वतस्त्वे याया बाधकाशङ्काः समापतन्ति तासामसमीकरणे सिद्धान्तस्य न सुस्थापना भविष्यतीति वादपञ्चकानां समाश्रयणमिति । ततश्चैवं पूर्वपूर्ववादानामुत्तरोत्तरवादानुषङ्गिता ॥
ज्ञानज्ञानसाधनानां प्रामाण्यस्वतस्त्वे निरूपणीये वेदेपि तदनुवर्तमानं वेदनित्यत्वापौरुषेयत्वाभ्यां सुव्यवस्थापितम् । वेदस्य पौरुषेयत्वादिदमसंगतमिति शङ्कापनोदाय द्वितीयस्य वेदापौरुषेयत्ववादस्य रचना । पौरुषेयत्वे यानुपपत्तिस्तामेवं परिहरामीति प्रतिवादिनः प्रत्यवस्थाने तृतीयस्य वादस्यारम्भः।
वर्णानामनित्यत्वत्तत्समुदायरूपवेदानामप्यनित्यत्वमिति प्रश्ने; शब्दोनित्यविभुद्रव्यं, ध्वनिराकाशगुणः, इति प्रतिपादयतश्चतुर्थस्य । यदि शब्दो नाकाशगुणः तर्हि श्रोत्रेणाकाशेन न समवायसंबन्ध इति कस्तं श्रोत्रेण जानीयादिति कोलाहलप्रशमनाय समवायनिषेधयितुः पञ्चमस्य । समवायाभावे निर्विकल्पक सविकल्पकभेदेन प्रत्यक्षप्रमाद्वैविध्यमुन्मूलितं भवतीत्युद्धोषस्य स्वेष्टतां प्रथमतः षष्ठस्य चेति ॥
प्रतिपादनपरिपाटी.
विषयाचलनरीतिमेकदेशे प्रमाण्यवादे दिक्प्रदर्शनेन प्रदर्शयिष्यामः ॥
"स्वतःप्रमाणैः"इतिश्लोके प्रमाण्यस्य स्वतस्त्वं प्रकान्तम् । प्रमाणशब्दः यदि भावसाधनस्तदा प्रमाण्यं ज्ञनधर्मः । अथ करणसाधनस्तर्हि ज्ञानसाधनधर्मः । द्विविधेप्यस्मिन् प्रामाण्ये ज्ञ्प्तौ स्वतस्त्वं, उत्पत्तौ स्वतस्त्वं चेति द्वयीरितिरस्ति ।
अन्ततो ज्ञनगतस्य ज्ञप्तौ स्वतस्त्वं उत्पत्तौ स्वतस्त्वं करणगतस्य ज्ञप्तौ स्वतस्त्वं, उत्पत्तौ स्वतस्त्वं चेति चीतुर्विध्यमागतम् । क्रमश एषां निरूमणमारच्यते ॥
तच्च ---
किं तत्स्वतस्त्वं नाम ?
प्रकारान्तरे कानुपपत्तिः ?
किं प्रमाणम् ?
अनुपपत्तीनां कथं परिहारः ?
परतस्त्वं कुतो न ?
इति शङ्कोत्तराभ्यां सुरुचिरं भविष्यतीति तथैवानुधावति विचारणाप्रवाहः ॥
सर्वत्रापि स्वतस्त्वं नाम सहजत्वं, औत्सर्गिकत्वं वा, न त्वितरापेक्षणेनाहितत्वमितिसारम् । अत एव द्वादशतमे पुटे"सहजत्वात् प्रमाण्यग्रहणस्यौत्सर्गिकत्वरूपस्वतस्त्वासिद्धि"रिति, 203 तमपुटे,"प्रमाजनकशक्तिः सहजा नतु भ्रमजननशक्तिवदाधेये"ति चास्ति ॥
1. ज्ञानप्रमाण्यस्य ज्ञप्तौ स्वतस्त्वम् ---
एतच्च त्रिधा निरवक् ।"याथार्थ्यरूपस्य तत्तज्ज्ञानप्रमाण्यस्य ग्राह्यप्रमाण्यविरोध्युपस्थापकसामग्र्यसमवहितग्राह्यप्रामाण्याश्रयतत्तज्ज्ञानविषयकसाक्षिज्ञानविषयत्वनैयत्यम्"इत्येकम् ।"तत्तज्ज्ञानप्रमाण्यस्य ग्राह्यप्रामाण्याश्रयतत्तज्ज्ञानविषयकसाक्षिज्ञानविषयत्वयोग्यत्वम्"इत्यपरम् ।
नैयायिका यदाकारं ज्ञानमनुव्यवसायं मन्यन्ते तदेवात्र साक्षिशब्दितम् । स साक्षी यदि ज्ञानं गृह्णीयात् तर्हि तत्प्रामाण्यमपि गृह्णात्येव । यथा स्वयं गन्तुर्गजस्य कण्टकापसरणं प्रयोजकमेव न तु करणं तथा

प्रामाण्यविरोध्युपस्थापकनिवारणमपि । इति प्रथमनिरुक्त्या पर्यवसितोर्थः । द्वितीयया तु अग्नेर्दाहकशक्तिवत् साक्षिणी प्रामाण्यग्रहणशक्तिरस्ति । अग्नेः प्रतिबन्धकाददाहकत्ववत् अस्यापि प्रामाण्याविषयता । तथापि करतलादौ दाह्यतवत् प्रामाण्येपि साक्षिग्राह्यता । इति साक्षिविषयतायोग्यत्वं स्वतस्त्वमिति फलितम् । तृतीया निरुक्तिस्तु न स्वमतासाधरणेत्यास्ताम् ॥
2. प्रकारान्तरे अनुपपत्तिः ---
"तदप्रामाण्यग्राहकयावज्ज्ञानग्राहकसामग्रीग्राह्यत्वं स्वतस्त्वम् । तदभावश्च परतस्त्वम् । इति मणौ पूर्वपक्षे मीमांसकानां स्वतस्त्वं निरुक्तम् । तस्यात्रान्ततो दूषणमिदभिहितमस्ति ।"तत्"इति शब्देन प्रकरणप्राप्तघटज्ञानं यत्र जायते तत्र तत्प्रामाण्यं
न भासते, ज्ञानं परं प्रतीयत इति बाध इति ॥
तज्ज्ञानविषयकज्ञानाजन्यजन्यज्ञानविषयत्वमिति परिष्कारोपि केनाप्यजन्येश्वरज्ञानेन स्वेष्टस्यानुव्यवसायस्यापि जन्यत्वानुपपन्नार्थकः॥
अतः तज्ज्ञानविषयक जन्यज्ञानेत्याद्युक्तौ, उभयज्ञ जन्यपदत्यागेन अजन्यत्वस्य स्वानुकूलतया निर्वचने वा बाधादिदोष एवोक्तः । सर्वं ज्ञानं गुण इति वाक्ये प्रयुक्ते तादृशमेव शब्दज्ञानं जायते । तदनुव्यवसायेन तत्प्रामाण्यमवगाह्यत इति स्थितिः । अयमनुव्यवसायः अत्र यद्विशेषणमुक्तं तादृशो न भवतीति सारम् ॥
3. स्वतस्त्वे प्रमाणम् ---
"ज्ञानप्रमाण्यं स्वतो ग्राह्यं परतो ऽगृह्यमाणत्वे सति गृह्यमाणत्वात् यद्यदन्येनागृह्यमाणत्वे सति ग्राह्यं तत्तेन ग्राह्यं यथा चक्षुरन्येनागृह्यमाणं रूपं चक्षुर्ग्राह्यम्"इत्यादि प्रथमस्वतस्त्वनिरुक्त्यनुरोधेन;"विमतो ऽनुव्यवसायः स्वग्राह्यज्ञानप्रामाण्यविषयकिरणयोग्यः अनुव्यवसायत्वात् गृहीतप्रमाण्यसमानविषयकज्ञानान्तरानुव्यवसायवत्"इत्यादि द्वितीयानुरोधेन चोक्तम् ॥
केवसतर्कसरण्या प्रतिपादिकानां विषयाणां ललितवचनानुवादो न सुकरः सूपयुक्तेश्चेति तांस्तथैव परित्यजामः ॥
4. प्रामाण्यस्वतस्त्वे अनुपपत्तिपरिहारः ----
इदं रजतं जानीमेत्येको ऽनुव्यवसायः । एतदनन्तरं रजतं ज्ञाने प्रकारो वा न वेति न संदेहः । अतः रजतत्वप्रकारकत्वं न बहिरर्थः । अनुव्यवसायस्य विषयश्चैतत् । रजतत्वविशिष्टं न वा संदेह उदेति । अतो रजतत्ववैशिष्ट्यं बहिरर्थः । नानुव्यवसायविषयः । रजतत्ववैशिष्ट्यादिकं प्रमाण्ये प्रविष्टमास्ते । अतः कथं प्रमाण्यस्वतस्त्वसाधकानुमानैः प्रमाण्यमनुव्यवसायविषय इति साधनम्? एवं बाधादिति शङ्कायाम्; व्यवसाये रजतत्ववैशिष्ट्यग्राह्यहित्वं केन प्रमाणेन सिद्ध्यति अनुव्यवसायेनेति ब्रूयात् । यद्यनुव्यवसायः तदविषयः तस्य सिद्धिरेव ? न स्यादिति दिशा परिहारः ॥
5. ज्ञाने जाते प्रथमतः प्रमाणं न वेति संशयो भवति । स नोदियात् । ज्ञानग्रहणवेलायामेव प्रमाण्यस्थापरित्यागात् । इत्यन्यानुपपत्तिः । प्रतिबन्धकाभाव एव प्रामाण्यग्रहणनियम उक्तः । न तु प्रतिबन्धकसत्वे । प्रमाण्यसंशयस्थले विरोधी वर्तत इति न प्रमाण्यं विषयो भवति, अतः संशयः इत्यादिदिशा परहारः ॥
6. प्रामाण्यस्वतस्त्वे ये हेतव उक्तास्ते सन्तु, साध्यामाभूवन् इत्यप्रयोजकशङ्काया इत्थं परिहारः ॥ महति कार्ये यागादौ निष्कम्पं प्रवर्तितुं वेदादौ प्रामाण्यमवश्यवेद्यम् । तथाचैकस्मिन् प्रामाण्यमितरेण, तत्रान्येन, तत्रापरेणेत्यनवस्था स्यादिति परतस्त्वं प्रमाण्यस्य परित्यज्य स्वतस्त्वमेवाभ्युपेयमिति ॥
परतस्त्वं कुतो न ?
7. प्रमाण्यपरतस्त्वे अप्रामाण्यशङ्कापरिहारणाय प्रमाण्यनिश्चयावश्यकतया उक्तरीत्यानवस्था एको दोषः ॥
8. प्रामाण्यमनुमेयं चेत् कथं प्रथमतः प्रामाण्यज्ञानं, साध्याप्रसिद्धेरित्यपरो दोषः ॥
9. "स्वाश्रयविषयकनिश्चयावधिकतृतीयक्षणवृत्तिसमानाधिकरण्यसंशयविषयी-
भतं ज्ञानप्रमाण्यं, ग्राह्यज्ञानप्रकारप्रकारतया तद्वद्विशेष्यतकतया च स्वाश्रयग्राहकतयावज्ज्ञानाग्राह्यं, स्वाश्रयविषयावधिकतृतीयक्षणवृत्तिसमानाधिकरणसंशयकोटित्वात्, अप्रामाण्यवत्"
इत्यस्य अप्रामाण्यं स्वतो न गृह्यते । ज्ञनानन्तरं तृतीयक्षणे अप्रामाण्यसंशयोदयात् । तथा प्रमानन्तरं तृतीयक्षणे क्कच्त्प्रामाण्यसंशयोदयात्प्रामाण्यमपि न स्वतः इति सारम् । इत्यपरः प्रत्युद्गमः । तस्येत्थं परावर्तनम् । अत्र
साध्ये स्वाश्रयग्राहकयावज्ज्ञानपदं स्वेष्टामनुमितिमपि सङ्गृह्णातीति तदग्राह्यत्वसाधनमपसिद्धान्तदोषकबलितम् ।
बाधो व्याघातश्चेति । रीत्यानवैनयैवानुमानान्तराण्यपि दुष्टनीति ज्ञानप्रमाण्यस्य ज्ञप्तौ परतस्त्वशङ्का न सुस्थिरा ॥
उत्पत्तौ ज्ञानप्रमाण्यस्वतस्त्वम्.
अस्मिन् स्वतस्त्वनिर्वचने न तादृशः प्रयासः । पूर्वपक्षानुमानेनैव साध्यविपरीतस्य तस्य सुखावबोधो भविष्यतीत्यत्र तदनिरुच्य 154 तमपुटे अष्टमपङ्क्तौ"ज्ञानजनकमात्राधीनजन्मत्वं स्वतस्त्व"मित्युक्तम् ॥
पूर्वस्मिन् स्वतस्त्वनिरूपणे अनुकूलान्युक्त्वा प्रतिकूलानां परिहरणमित्यनुलोम आदृतः । इदीनीं प्रतिकूलानि परिहृत्यानुकूलानां निरूपणमिति प्रतिलोम आद्रियते ॥
तथाचादौ परतस्त्वनिरासः.
10. अनित्यप्रमा ज्ञानहेत्वतिरिक्तहेतुजन्या कार्यत्वे सति तद्विशेषत्वात् अप्रामाण्यवत् । इत्यादीन्यनुमानानि परतस्त्वसाधकानि वर्तन्ते । यथा अप्रमा कार्यं ज्ञानविशेषोपीति सा ज्ञानसामान्यकारणातिरिक्तदोषजन्या तद्वदनित्यप्रमापि गुणादिजन्येति तदर्थः । इति शङ्का ॥
प्रमा ज्ञानं हि । तस्यां हेतुर्ज्ञानहेतुरिति निर्विवादम् । एवमपि तदतिरिक्तहेतुजन्यत्वं यदि साध्यते तर्हि भवदनुमानेषु विरोधो बाधश्च । प्रमायाः कार्यतां निर्वहन् कश्चनगुणोपि नास्ति । एवमेवेतराण्यनुमनान्यपीतीदं दक्प्रदर्शनमात्रम् । इति परिहारः ॥
11. यद्यपि प्रमामात्रे गुणः सामान्यो मा भूत् । अनित्यप्रमामात्रे अविद्यमानासंसर्ग्रहादिकं गुणः । इति चारु दर्शयते ॥ तथापि केवलासंसर्गाग्रहस्य भ्रमेपि सुलभतया अविद्यमानविशेषणेन विषयसत्वमेवाभिप्रेति ब्रूयात् । विषयसत्वं तु ज्ञनसाधारणकारणम् । अतः न तत्स्वतस्त्वविरोधि ॥

12. मास्त्वेको ऽनुगतो गुण अनित्यप्रमासु । अननुगतैरनेकैरेव प्रमोत्पद्यताम् ।"अनित्यप्रमात्वं स्वाश्रयमात्रवृत्तिधर्मावच्छिन्नकार्यताश्रयमात्रवृत्ति स्वाश्रयमात्रवृत्तिधर्मावच्छिन्नकार्यताप्रतियोगिककारणत्वाश्रयमात्रानुत्पाद्यकार्यमात्रवृत्त् इधर्मत्वात् अप्रमात्ववदित्यनुमानं तत्र बलमस्ति । अप्रमात्वं अनित्यज्ञानसामान्यकारणापेक्षया अधिकं कारणमपेक्षते यत्कार्यं तन्मात्रस्थितिकम् । अतस्तत् ; स्वाश्रयजन्यभ्रमवृत्तयः येये धर्माः जन्यप्रत्यक्षभ्रमत्वादयः तत्तदवच्छिन्नकार्यताश्रयाः जन्यप्रत्यक्षभ्रमादयः । तन्मात्रे वर्तते । एवं च -- अनित्यभ्रम इति नैकजातीयं कार्यम् । अपितु प्रत्यक्षानुमित्यादिभेदेन नाना । तदनुरोधेन कारणान्यप्यनेकान्येवेति फलितम् । तथैवानित्यप्रमा अपि नाना कार्याणि । तत्त्कारणान्यपि नानैव । तत्तदनुरूपा गुणास्तत्रतत्र कारणानीति पर्यवसितम् ॥
इयं यज्ञपत्युक्तपञ्चमात्रपदानुमानतः शङ्का । अस्या इत्थं परिहरः ॥
सन्तु नामानित्यप्रमाकारणानि नाना । न तानि गुणाः । अपितु अस्मदनुमतास्तत्तत्प्रमाप्रागभावा एव। तथाप्युक्तानुमाने साध्यहेतुसंगतेः । अतः सिद्धसाधनं दोषः । इति ॥
13. अनित्यप्रत्यक्षप्रमात्वं कार्यतावच्छेगकम् बाधकं विना कार्यमात्रवृत्तित्वात् घटत्ववत् । घटत्वं कार्यमात्रे वर्तते । अतस्तत् कार्यतावच्छेदकम् । एवमानित्यप्रत्यक्षप्रमात्वमपि स्यात् । अनित्यानुमितिप्रमात्वे शाब्दप्रमात्वे चायमेव क्रमः । इत्यपरा शङ्का ॥
प्रत्यक्षप्रमामात्रे इन्द्रियसंनिकर्षोर्ऽथश्च न हेतू । यदा शुक्तिं दृष्ट्वा रजतमिति भ्रम्यति तदा सन्निकर्षस्य शुक्तिरूपार्थस्य च तत्र सत्वेन शुक्तिरियामिति प्रमोदयापत्तेः। दोषः शुक्तिं न भासयतीति यदि, तर्हि दोषाभाव एव प्रमायामुपयोगी भवतु । अपरं कारणं मास्तु । इत्युत्तरम् ॥
14. अनित्यप्रमात्वं, अनित्यज्ञानत्वप्रयोजकं यावत् तदधिकप्रयोजकापेक्षं अधिकप्रयोजकसत्वे उत्पत्तेः अधिकप्रयोकासत्वे अनुत्पत्तेः अप्रमात्ववत् । इत्यनुमानेन स्थूलावयवतो वस्तुनः प्रत्यक्षप्रमायां भूयो ऽवयवेन्द्रिसन्निकर्षः कारणम् । संशयविपर्ययोत्तरस्मिन् तस्मिन् विशेषप्रमा कारणम् । नियमेन प्रमारूपायामनुमितौ लिङ्गपरामर्शः कारणम् । तादृशायां शाब्दप्रतीतौ वाक्यार्थज्ञानं कासणम्"इति फलति इति पूर्वपक्षे ॥
कामिलारोगिणः शङ्के शङ्कत्वशुक्लत्वज्ञानं भूयो ऽवयवेन्द्रियसन्निकर्षश्च वर्तते । तथापि शङ्कं पीतं भ्राम्यति । न तु शुक्लं प्रमिनोति । अतः कारणमस्ति कार्यं नैवेत्यन्वयव्यभचारो दोषः । पुरोवर्तिनि स्थाणुर्वा पुरुषोवेति संशयः । ततः
करादिकं चरणादिकं मत्वा पुरुष एवेति निश्चयो भवति । सा प्रमैव । संशयोत्तरस्मिन्नस्मिन्प्रमाज्ञाने भवदभिमतस्य विशेषप्रमारूपस्य कारणस्य क्व प्रसक्तिः ? नास्ति । अतः कारणं नास्ति कार्यमुत्पन्नमिति व्यतिरेकव्यभचारोपि ।
इति समाधानम् ॥
15. दोषाभाव एव कारणमास्ताम् । तथापि प्रामाण्यस्वतस्त्वहानोरिति न सुस्थायि । दण्डत्वदण्डगतदार्ढ्य प्रमुखानां कार्योपयोगित्वेपि कारणत्वाभाववदिहापि निर्वाहात् ॥
इयता प्रमाण्यस्योत्पत्तौस्वतस्त्वे अनुपपत्तयोपि परिहृता एव ॥
प्रामाण्यस्योत्पत्तौ स्वतस्त्वे किं प्रमाणम्
16. अनित्ययथार्थज्ञानत्वं अनित्यज्ञानत्वानवच्छिन्न कार्यतानवच्छेदकम् अनित्यज्ञानावृत्तित्वराहित्वात् ज्ञानत्ववत् । इत्याद्यनुमानं मानम् । ज्ञनत्वं अनित्यज्ञानावृत्ति न । अतस्तदवृत्तित्वरहितम् । तस्मादनित्यज्ञानत्वविशिष्टे सर्वत्र वर्तते या
कार्यता तस्यामनवच्छेदकम् । ज्ञानत्वेन रूपेण ज्ञानमुत्पन्नमिति न भाष्यत इत्यर्थः । एवमेव अनित्ययथार्थज्ञानत्वमपि अनित्यज्ञाने न वर्तत इति नहि । ततः अनित्यज्ञानसामान्ये वर्तते या कार्यता तस्यामनवच्छेदकम् । अनित्ययथार्थज्ञानत्वादिना रूपेण ज्ञानं जायत इति नाह्वाययते । इतीदमस्योपपादनम् । एवं च ज्ञानजनने यावदपेक्षितं तदधिकं कारणं प्रमा नापेक्षत इति फलितम् । तथा च 154 तम पुटे अष्टमङ्क्तौ"ज्ञानजनकमात्राधीनजन्मत्वं"इत्युक्तस्वतस्त्वसिद्धिः ॥
17. अप्रमात्वं ( भ्रमत्वं ) मपि स्वत एव स्यात् । दोषस्तु प्रमायां गुण एव भवतु । इति प्रतिबन्दीत्थं परिहरणीया । दोषसत्वे भ्रमः, दोषाभावे न भ्रमः; इत्यन्वयव्यतिरेकयोर्न कथं कथमपि परित्याज्यतेति दोषो ऽप्रमाकारणमित्यवर्जनीयमेव ।
करणप्रामाण्यस्वतस्त्वम्.
ज्ञानप्रामाण्यस्वतस्त्वे वादप्रतिवादाभ्यामेव करणप्रामाण्यस्वतस्त्वेपि प्रतिभटपरावर्तनं सुशकमिति तदर्थमत्र पृथङ्नायासः ॥
18. यथार्थज्ञानसाधनत्वमेव करणप्रामाण्यम् । तस्य ज्ञानजनकत्वग्राहकमात्रग्राह्यत्वम् ज्ञप्तौ स्वतस्त्वम् ॥ करणेषु ज्ञानजननशक्तिर्यथा सहजा यथा यथार्थज्ञानजननशक्तेरपि सहजत्वम्, तदभिन्नत्वं वा उत्पत्तौ ॥
एतत्सर्वं"प्रामाण्यं स्वत एव अन्यथानवस्थानात्" "परतो ऽप्रमाण्यम्"इति तत्वनिर्णयस्य विवरणरूपमेव ॥
आदित एतावत्प्रबन्धेन --
"स्वतः प्रमाणैराम्नायै रादरेणादिवर्जितैः ।
आख्यादनन्तकल्याण गुण श्रीरमणं भजे"।
इति देवतागुरुनमनोत्तरमत्रोक्तप्रस्तावनाश्लोकेन आदिवर्जितस्वतः प्रमाणवेदोदितानन्तकल्याणगुणः श्रीरमण इति यदुपदर्शितं तन्नानुपपन्नम् । अपैरुषेयत्वेपि वेदस्य सहजप्रामाण्यानपायात् । इति पर्यवसितम् ॥
अतः प्रमाण्यवादान्ते तस्मात्प्रामाण्यस्य स्वतस्त्वादपौरुषेयोपि वेदः प्रमाणमेव"इत्युपसंहारमदर्शयत् ॥
व्याख्याविचारः.
अस्य ग्रन्थस्य द्वे व्याख्ये हस्तगते ---
1. युक्तिरत्नाकराख्या एका
2. न्यायदीपाख्या इयमपरा
युक्तिरत्नाकरकारा विजयीन्द्राः । मूलकारणामन्तेवासिनो न्यायदीपकारिणां विद्यागुरवः आश्रमतः परमगुरवश्च । अयं व्याख्या शब्दतेपि विशाला । न्यादीपे चतुर्थपुटे"अत्र स्वतःपामाण्यज्ञप्तिवादपर्यन्तं विस्तरस्तु गुरुपादकृतयुक्तिरत्नाकरे द्रष्टव्यः"इत्यस्ति । इयं सम्पुर्णा उत इयत्येवेति सन्दिहामहे । पूर्णोयं विस्तरस्तु
एतावत्येवेत्यनेनापि न्यायदीपोक्तिसंगीतर्भवति हि । नोपलभामहे च सम्पूर्णाम् । अतो ऽपूर्णेत्यत्रैव पक्षपातो न्याय्यः ॥
अत्र ----
"गुरुपादकृताप्यस्ति व्याख्या सात्यन्तविस्तरा ।
व्याख्येयं मन्दबोधाय क्रियते ऽशेषगोचरा"॥
इति । न्यायदीपादिस्थितद्वितीयश्लोकोपि प्रमाणम् ॥
अस्या न्यायदीपाख्यायाः कर्तारो राघवेन्द्रस्वामिनः । अत्र न कोपि प्रतिवादः ॥
एतेषां जीवनचारित्रविषये राघवेन्द्रविजयाख्यं काव्यं, गुरुगुणस्तवाख्यं स्तोत्रं च मुद्गितमेवेदानीमस्ति । गुरुगुणस्तवकर्तारो रघवेन्द्रस्वामिनां पूर्वाश्रमे पौत्राः यत्याश्रमे प्रशिष्याः वादीन्द्राः ॥

मूलकारणां छात्रा विजयीन्द्राः, तेषां राघवेन्द्राः"इत्यनेनैषां कालोपि विवृतप्राय एव । एषां वृन्दावनं रायचूरुपुरसमीपवर्तिनि मन्त्रालयाख्यग्रामे भक्तेष्टविकरणविचक्षणो विराजते । इमे इतरसन्यासिन इव मरणानन्तरं न वृन्दावनं प्रवेशिताः । अपि तु
सर्वदृग्विषयतापीरतित्यक्षिषवो वृन्दवनं कल्पयित्वान्तरुपाविशन् । प्यधापयंश्च । इति सांप्रदीयिकानां तथ्यवादः ॥
मध्वसिद्धान्तस्यैभिः कृतमुपकारमेवं स्मरन्ति --
"व्यासेन व्युप्तबीजः श्रुतिभुवि भगवत्पादलब्धाङ्कुरश्रीः
प्रत्नैरीषत्प्रभुन्नो ऽजनि जयमुनिना सम्यगुद्भिन्नशाखः ।
मौनीशव्यासाराजादुदितकिसलयः पुष्पितोयं जयीन्द्रा
दद्य श्रीराघवेन्द्राद्विकसति फलितो मध्वसिद्धान्तशाखी । इति ॥
इतोप्यधिके एतदीयचरिते निर्दिष्टं काव्यं स्तोत्रं चास्तां मार्गदर्शीतिशम् ॥
विषयानुक्रमणिका.
वादसंख्या विषयः
मङ्गलाचकणम्
विषयप्रसञ्जकः श्लोकः
1. स्वमते ज्ञप्तौ स्वतस्त्वनरुक्तिः-
प्रथमा
द्वितीया
तृतीया
निरुक्तित्रयस्यसुधारूढता दर्शनम्
2. परोक्तस्वतस्त्वनिरूक्तिभङ्गः-
प्रथमः
द्वितीयः
तृतीयः
चतुर्थः
3. स्वतस्त्वे प्रमाणम्-
प्रथमम्
द्वितीयम्
तृतीयम्
चतुर्थम्
पञ्चमम्
अस्य मूललभ्यतोपपादनम्
4. स्वतस्त्वानुमानेषु बाधोद्धारः...
अनुव्यवसायस्य वैशिष्ट्यविषयकत्वसाधनम्
अनुव्यवसायस्य तद्वद्विशेष्यकत्वविषयकत्साधनम्
अनुव्यवसायस्य अर्थसत्वविषयत्वसाधनम्
उक्तार्थे मूलकृत्संमतिः
5. स्वतस्त्वे संशयोपपादनम्
वादसंख्या विषयः
उक्तार्थे मूलानुमतिः
6. प्रमाण्यनिश्चयस्य प्रवर्तमत्वम्
स्वतस्त्वहेतूनां सामान्यतो ऽप्रयोजनत्वपरिपरिहारः
अर्थनिश्चयस्य प्रवर्तत्वखण्डनम्
प्रामाण्यनिश्चयस्याप्रामाण्यशङ्कानिवर्तकत्वेनो-
पयोगखण्डनम्
अत्र मूलानुमतिः
7. परतस्त्वे ऽनवस्थोक्तिः
धर्म्यज्ञानादिनाप्रामाण्यशङ्काभावसिद्धिखणडनम्
विशेषदर्शनेनाप्रमाण्यशङ्काभावसिद्धिखण्डनम्
अत्र मूलसंमतिः
स्वमते अनवस्थापरिहारः
अत्र मूलसंमतिः
8. परतस्त्वे प्रथमप्रामाण्यानुमित्यसंभवः
परतस्त्वे अप्रसिद्धविशेषणत्वम्
परतस्त्वे हेतोः प्रमित्यसिद्धिः
परतस्त्वे सप्तहेतुनिराकरणम्
स्वमते अप्रमाण्यपरतस्त्वे अनवस्थापरिहरः
मूलानुमतिः
9. ज्ञप्तौ परतस्त्वानुमान भङ्गः
मणिपूर्वपक्षः
समाधानम्
अनुमान्तरनिरसनम्
आदितः कथितानां नगमनम्
मूलारूढताप्रतर्शनम्
10. उत्पत्तौ परतस्त्वे चिरन्तनानुमानभङ्गः-
प्रथमः
द्वितीयः
वादसंख्या विषयः
तृतीयः
चतुर्थः
पञ्चमः
मूलाभिप्रेतत्वम्
11. अनित्यप्रमामात्रानुगतगुणभङ्गः
मूलानुमतिः
12. यज्ञप्रत्युक्तवक्रानुमानभङ्गः
पूर्वपक्षः
समाधानम्
13. प्रत्यक्षादिप्रमासु प्रत्येकानुगतगुणभङ्गः पूर्वपक्षः
समाधानम्
प्रचीनमतनिरासः
मण्युक्तपक्षान्तरनिरासः
उपसंहारः
मूलानुमतिः
14. स्थूलवयविप्रत्यक्षप्रमादौ भूयोवयवेन्द्रिय
सन्निकर्षर्हेतुत्वभङ्गः
पूर्वपक्षः
अन्वयव्यभिचारेण समाधानम्
व्यतिरेकव्यभचारेण समाधानम्
उपसंहरः
मूलसंमतिः
15. प्रमायां दोषाभावस्य हेतुत्वभङ्गः
प्रयोजकत्वे इष्टापत्तिः
कारणत्वनिरासः
मूलसंमतिः
16. उत्पत्तौ स्वतस्त्वेन अनुमानानि
अनित्यप्रमामात्रानुगतो गुण इतिपक्षे
वादसंख्या विषयः
प्रत्यक्षादिप्रमासु प्रत्येकानुगता गुण इतिपक्षे
यज्ञपतिमते
भ्रमे पित्तादिरिव प्रमायामनुगता गुणाहेतव इति मते
मूलानुमतिः
17. अप्रामाण्य परतस्त्वम्
मूलाभ्युपगमः
18. कारणप्रामाण्यस्य स्वतस्त्वम्
ज्ञप्तौ
अपामाण्यपरतस्त्वम्
मूलानुमतिः
आदितः नगमनम्
वेदापौरुषेत्ववादः
19. वेदापौरुषेयत्वे अनुमानानि
पौरुषेयत्वे प्रमाणम्
(1) अपौरुषेयत्वानुमानम्
(2)......
(3)......
वेदाभावे धर्माद्यसिद्धिकथनम्
अत्र मूलानुमतिः
अपौरुषेयत्वे लाघवम्
अत्र मूलावलम्बः
पौरुषेयत्वे गौरवम्
अत्र मूलानुकूल्यम्
(4) ईश्वरज्ञानं न प्रमोतिमते ऽनुमा
प्रमेतिमते (त्रीणि)
अनुकूलतया मूलोक्तिः
(5) अनुमानान्तरम्
(6) अनुमानान्तरम्
वादसंख्या विषयः
अनुकूलतया मूलोक्तिः
(7) अनुमानान्तरम् (त्रीणि)
अपौरुषेयत्वपर्यवसानम्
अत्र मूलावलम्बः
20. अपौरुषेयत्वे अनुकूलतर्कः--
(1) कर्तुप्रसिद्ध्यभावस्मृतिः
(2) कल्पनागौरवम्
(3)धर्माद्यसिद्धिः
(4) प्रामाण्यासिद्धिः
अत्रमूलानुग्रहः
(5) श्रुतिस्मृतिविरोधः
मूलसंगमनम्
21. वेदापौरुषेयत्वानुमानादिभङ्गः
(1) अनुमाननिरसनम्
वैदिकोत्तमपूरुषेण पौरुषेयत्वस्य खण्डनम्
वैदिकयुष्मच्छब्देन
वैदिकयत्तच्छब्दाभ्याम्
मूलानुकूल्यम्
समाख्यया पौरुषेयत्वस्य खण्डनम्
अनुमान्तरनिरसनम्
मूलावलम्बः
(2) श्रुत्यादिकं न प्रमाणम्
मूलानुकूत्वम्
अनित्यत्वनिरसनम्
ईश्वरवादः
22. ईश्वरस्यानुमानिकत्वभङ्गः-
कार्यत्वहेतुकपूर्वपक्षानुमानम्
क्षितेः पक्षत्वम्
वादसंख्या विषयः
पूर्वपक्षदूषणम् (1)
मूलसंवादः
दूषणम् (2)
मूलसंवादः
दूषणम् (3)
मूलसंपादः
साध्यादिपूर्वपक्षोक्तांशानां क्रमशो दूषणम्
शरीराजन्यत्वे व्याप्यत्वासिद्धिरिति मण्युक्तस्य
निष्कृष्यानुवादः
अस्य समाधानम्
व्यर्थविशेषणस्य दूषणतारूपम्
कार्यायोजनस्येश्वरासाधकत्वम् (2)
धृतेरीश्वरासाधकत्वम् (3)
पदस्येश्वरासाकत्वम् (4)
प्रत्ययादीश्वरसिद्धनिरसनम् (5)
संख्याविशेषस्येश्वरासाधनम् (6)
उपसंहारः
वर्णवादः
23. वर्णानित्यत्वस्य प्रत्यक्षत्वप्रभङ्गः
पूर्वपक्षः
अभ्युपेत्य समाधानम्
स्वमतम्
अधिककरणयोग्यता अभावप्रत्यक्षतस्त्रता
अत्रानुव्याख्यानसंगतिः
24. वर्णानित्यत्वेनुमानभङ्गः (1)
" (2)
"(3)
25. वर्णानित्यत्वे प्रत्यभिज्ञाविरोधः वादसंख्व्या विषयः प्रत्यभिज्ञाभ्रान्तित्वापादकबाधखण्डनम्
ध्वनेरेवानित्यत्वव्यञ्जकत्वे
उत्पत्त्यादिधियो बाधकत्वखण्डनम् वर्णानां नित्यत्वे अनुमानानि (नव)
वर्णानां प्रतिनियतव्यञ्जकव्यङ्गत्वम्
नेत्याशङ्का
समाधानम्
वर्णोत्पत्तौ कल्पनागौरवम्
मूलकारसंमतिः
वर्णानां नित्यत्वेपि क्रमोपदानम्
वर्णानामनित्यत्वेपि वेदनित्यत्वाहानिः
समवायवादः
समवाये प्रमाणभङ्गः
आशङ्का
आन्तरालिकाशङ्का
तत्समाधानम्
मूलशङ्कासमाधानम्
अस्य सूत्रारूढता
समवायसाधमानुमाने तर्कपरिहतिः
अस्य सूत्राल्लाभः
समवायानुमाने व्यभियारः
हेतोरप्रयोजकता
उक्तस्य सूत्राल्लाभः
मणिकृत्सिद्धान्तितानुमाननिरासः
अस्यसूत्राल्लाभः
अभावप्रतीत्यापानपरिहारः 1
परिहारः 2
आपादनान्तरपरिहारःरप समवायसाधकमण्युक्तानुमानान्तरनिरासः
अयुतसिद्धिविशिष्टबुद्धीनां साजात्याय समवाय
इतिशङ्कानिरासः
समवाये बाधकम्
समवायस्य संबन्दत्वनिरासः
समवायस्यैकत्वनिराकरणम्
अस्य सूत्रारूढता
संमवायस्यानित्यत्वोक्तिः
समवायाभावे मानम्
निर्विकल्पवादः
प्रमाणाशङ्का
आन्तराशङ्का
अस्योत्तरम्
प्रथमाशङ्कासमाधानम्
नाना पूर्वपक्षसमाधानानि
विशेषणज्ञानस्य कारणत्वमङ्गीकृत्यापि
निर्विकल्पकासिद्धिकथनम्
केचिन्मतम्
निर्वकल्पके बाधकम्
इष्टापत्तिः

प्रमाणविरोधः
अस्य पद्धत्यारूढता
परिच्छेदार्थोपसंहारः
तर्कताण्डवप्रथमसम्पुटे ग्रन्थकृन्नामानि
मणिकारः.
भदवत्पादाः ( मध्वाचार्याः )
"
"
"
"
"
"
"
"
"
टीकाकाराः ( जयतीर्थाः )
"
"
"
यज्ञपतिः
व्यासः
"(सूत्रकृत् )
प्रभाकरः
"
न्यायसूत्रभाष्यकारः
उदयनः
पक्षिलः
भट्टः
कालीदासः
तर्कताण्डवप्रथमसम्पुटोद्धृतानि ग्रन्थनामानि.
सुधा--
मणिः--
टीका--
वादावली--
ब्रह्मतर्कः--
प्रमाणलक्षणम्--
भाष्यटीका --
विष्णुतत्वनर्णयटीका--
पद्धतिः--
श्रुतिः--
स्मृतिः--
भारतम्--
वेदः--
भाष्यम् (न्यायस्य )--
सूत्रम् ( व्याकरणस्य )--
भाष्यम् ( पक्षिलस्य )--
अनुव्याख्यानम्--
प्रमाणलक्षणटीका--
तर्कताण्डवप्रथमसम्पुटे धृता ग्रन्थानुपूर्व्यः
विषयः
साक्ष्येव ज्ञानं तत्प्रमाण्यं च इत्यादिः
ज्ञानगतयाथार्थ्यस्य
तदप्रामाण्याग्राहक
प्रमाण्यं च स्वत एव अन्यथानवस्थानात्
"
ऋषिभिर्बहुदागीतम् इत्यादिः
तदेतदृचाभ्युक्तम्
अन्यथा
"
आकाङ्क्षाया एव बुद्धिदोषात्मकत्वात्
अप्रामाण्यसंशयेनार्थनिश्चयम् इत्यादि
अन्यथा
"
न परीक्षानवस्था इत्यादि
अनुमेयमेवाप्रामाण्यम्
नपुनर्ज्ञानग्राहकमात्रग्राहकत्वं
अप्रामाण्यस्यानुमेत्वावसायात्
न चाप्रामाण्यं इत्यादि
यत्क्वचिद्व्यभिचारि स्यात्
सुदृढो निर्णयो
अन्यथा
ज्ञानजनकमात्राधीनजन्मत्वं स्वतस्त्वम्
अन्यथा
"
"
अदृष्टमिन्द्रियन्त्वक्षम् इत्यादि
निर्देषार्थेन्द्रिय
दोषाभवस्य कारणत्वे च
इन्द्रियादीनामौत्सर्गिकी
दोषाभावेपि न प्रामाण्यकारणम् इत्यादि
तर्हि दोषाभावः करणमित्यायातम्
तस्माद्गुणेभ्यो
अन्यथा
"
परतो ऽप्रामाण्यम्
"
कारणप्रामाण्यज्ञप्तिस्तु इत्यादि
कारणानां तु ज्ञप्तौ स्वतसत्वं नास्त्येव
अथवा ज्ञानजनकत्वं इत्यादि
छन्दांसि जज्ञिरे
प्रतिमन्वन्तरम्
तदभावे सर्वसमयाभिमत
अपैरपषेयवीक्याङ्गीकारे
अविप्रलम्भस्त्वज्ञानम्
क्रमस्य कृतकत्वेपि
नियतैकप्रकारमपौरुषेयत्वम्
गौरवदोषेण
"
"
"
"
"
"
"
यतस्ता हरिणा दृष्टा इत्यादि
वाचा विरूपनित्यया इत्यादि
श्रुतिर्वाव नित्या अनित्या वाव स्मृतयो इत्यादि
अनादिनिधना नित्या इत्यादि
नित्यदेवाः समस्ताश्च
सर्गेसर्गे ऽमुनैवैते
तदुत्पत्तिवचश्चैव
विज्ञेयं परमं ब्रह्म
यावद्ब्रह्मविष्ठितम् तावती वाक्
"
शरीरं मे विचर्षणम्। जिह्वा मे मधुमत्तम
"
"
किं नो राज्येन गोविन्द
शिष्यस्तेहं शाधि मां त्वां प्रमन्नम्
त्वां प्रपन्नम्
वाच्यस्त्वया मद्वनात्स राजा
स राजा
"
मामुपास्य
गृभ्णामि ते सौभदत्वाय हस्तम्
वयं स्याम पतयो रयीणाम्
भूयिष्टां ते नम उक्तिं विधेम
योस्मान्द्वेष्टि
छन्दांसि जज्ञिरे
तदुत्पत्तिवचश्चैव भवेद्व्यक्तिमपेक्ष्य तु
अवान्तराभिमानानां इत्यादि
तत्क्रमेणैव
ऋग्वेद एवाग्नेरजायत
यो ब्रह्मणं विदधाति
विपर्ययेणाप्यनुमातुं शक्यत्वात्
विपर्ययेण
नित्यवीप्सयोः
पक्षधर्मतासिद्ध्यर्थत्वात्
प्रागुच्चारणादनुपलब्धा इत्यादि
अनुपलब्धिस्त्वर्जनीयसन्निधिरेव
शास्त्रगम्यपरेशानात् इत्यादि
योग्यानुपलब्धेश्चलिङ्गत्वम्
क्वचितद्घटाद्यभावोपि,,
अभावोनुमानप्रत्यक्षं च,,
प्रायेणानुमानेन्तर्भावज्ञापनाय,,
नच सादृश्यात्प्रत्यभिज्ञा,,
प्रत्यभिज्ञानन्तरं,,
प्रदीपे व्यज्यते जातिर्न तु नीरजनीलिमा
अत आकाशगुणे शब्दे इत्यादि
वस्तितत्वविचारकं प्रति,,
समवायाभ्युपगमाच्च साम्यादनवस्थितेः
अनवस्थितेः
"
"
भूदरस्याग्निसंयोगः इत्यादि
समवायः
उपाधिजन्यं तद्गम्य
एतज्जन्मनि प्राथमिकम्,,
द्रव्यादिविकल्पानां ,,
तर्कताण्डवम्
प्रथमपरिच्छेदः
॥ श्रीमद्धनुमद्भीममध्वान्तर्गतरामकृष्णवोदव्यासात्मकलक्ष्मीहयग्रीवायनमः ॥
॥ ओं ॥
अन्तकल्याणगुणैकराशिमशेषदोषोज्झितमप्रमेयम् ।
मुमुक्षुभिः सेव्यमनन्तसौख्यप्रदं रमेशं प्रणमामि नित्यम्

मूल पाठ: Tarkatāṇḍava with Rāghavendratīrtha's Nyāyadīpa · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc