भाषा

ENहिગુ
ग्रंथ पाठ

तन्त्रालोक · अध्याय 5

5.1

आणवेन विधिना परधाम प्रेप्सतामथ निरूप्यत एतत् ॥ 1ब्

5.2

विकल्पस्यैव संस्कारे जाते निष्प्रतियोगिनि ।
अभीष्टे वस्तुनि प्राप्तिर्निश्चिता भोगमोक्षयोः ॥ 2

5.3

विकल्पः कस्यचित्स्वात्मस्वातन्त्र्यादेव सुस्थिरः ।
उपायान्तरसापेक्ष्यवियोगेनैव जायते ॥ 3

5.4

कस्यचित्तु विकल्पो@सौ स्वात्मसंस्करणं प्रति ।
उपायान्तरसापेक्षस्तत्रोक्तः पूर्वको विधिः ॥ 4

5.5

विकल्पो नाम चिन्मात्रस्वभावो यद्यपि स्थितः ।
तथापि निश्चयात्मासावणोः स्वातन्त्र्ययोजकः ॥ 5

5.6

निश्चयो बहुधा चैष तत्रोपायाश्च भेदिनः ।
अणुशब्देन ते चोक्ता दूरान्तिकविभेदतः ॥ 6

5.7

तत्र बुद्धौ तथा प्राणे देहे चापि प्रमातरि ।
अपारमार्थिके@प्यस्मिन् परमार्थः प्रकाशते ॥ 7

5.8

यतः प्रकाशाच्चिन्मात्रात् प्राणाद्यव्यतिरेकवत् ।
तस्यैव तु स्वतन्त्रत्वाद्द्विगुणं जडचिद्वपुः ॥ 8

5.9

उक्तं त्रैशिरसे चैतद्देव्यै चन्द्रार्धमौलिना ।
जीवः शक्तिः शिवस्यैव सर्वत्रैव स्थितापि सा ॥ 9

5.10

स्वरूपप्रत्यये रूढा ज्ञानस्योन्मीलनात्परा ।
तस्य चिद्रूपतां सत्यां स्वातन्त्र्योल्लासकल्पनात् ॥ 10

5.11

पश्यञ्जडात्मताभागं तिरोधायाद्वयो भवेत् ।
तत्र स्वातन्त्र्यदृष्ट्या वा दर्पणे मुखबिम्बवत् ॥ 11

5.12

विशुद्धं निजचैतन्यं निश्चिनोत्यतदात्मकम् ।
बुद्धिप्राणादितो भिन्नं चैतन्यं निश्चितं बलात् ॥ 12

5.13

सत्यतस्तदभिन्नं स्यात्तस्यान्योन्यविभेदतः ।
विश्वरूपाविभेदित्वं शुद्धत्वादेव जायते ॥ 13

5.14

निष्ठितैकस्फुरन्मूर्तेर्मूर्त्यन्तरविरोधतः ।
अन्तः संविदि सत्सर्वं यद्यप्यपरथा धियि ॥ 14

5.15

प्राणे देहे@थवा कस्मात्संक्रामेत्केन वा कथम् ।
तथापि निर्विकल्पे@स्मिन्विकल्पो नास्ति तं विना ॥ 15

5.16

दृष्टे@प्यदृष्टकल्पत्वं विकल्पेन तु निश्चयः ।
बुद्धिप्राणशरीरेषु पारमेश्वर्यमञ्जसा ॥ 16

5.17

विकल्प्यं शून्यरूपे न प्रमातरि विकल्पनम् ।
बुद्धिर्ध्यानमयी तत्र प्राण उच्चारणात्मकः ॥ 17

5.18

उच्चारणं च प्राणाद्या व्यानान्ताः पञ्च वृत्तयः ।
आद्या तु प्राणनाभिख्यापरोच्चारात्मिका भवेत् ॥ 18

5.19

शरीरस्याक्षविषयैतत्पिण्डत्वेन संस्थितिः ।
तत्र ध्यानमयं तावदनुत्तरमिहोच्यते ॥ 19

5.20

यः प्रकाशः स्वतन्त्रो@यं चित्स्वभावो हृदि स्थितः ।
सर्वतत्त्वमयः प्रोक्तमेतच्च त्रिशिरोमते ॥ 20

5.21

कदलीसंपुटाकारं सबाह्याभ्यन्तरान्तरम् ।
ईक्षते हृदयान्तःस्थं तत्पुष्पमिव तत्त्ववित् ॥ 21

5.22

सोमसूर्याग्निसंघट्टं तत्र ध्यायेदनन्यधीः ।
तद्ध्यानारणिसंक्षोभान्महाभैरवहव्यभुक् ॥ 22

5.23

हृदयाख्ये महाकुण्डे जाज्वलन् स्फीततां व्रजेत् ।
तस्य शक्तिमतः स्फीतशक्तेर्भैरवतेजसः ॥ 23

5.24

मातृमानप्रमेयाख्यं धामाभेदेन भावयेत् ।
वह्न्यर्कसोमशक्तीनां तदेव त्रितयं भवेत् ॥ 24

5.25

परा परापरा चेयमपरा च सदोदिता ।
सृष्टिसंस्थितिसंहारैस्तासां प्रत्येकतस्त्रिधा ॥ 25

5.26

चतुर्थं चानवच्छिन्नं रूपमासामकल्पितम् ।
एवं द्वादश ता देव्यः सूर्यबिम्बवदास्थिताः ॥ 26

5.27

एकैकमासां वह्न्यर्कसोमतच्छान्तिभासनम् ।
एतदानुत्तरं चक्रं हृदयाच्चक्षुरादिभिः ॥ 27

5.28

व्योमभिर्निःसरत्येव तत्तद्विषयगोचरे ।
तच्चक्रभाभिस्तत्रार्थे सृष्टिस्थितिलयक्रमात् ॥ 28

5.29

सोमसूर्याग्निभासात्म रूपं समवतिष्ठते ।
एवं शब्दादिविषये श्रोत्रादिव्योमवर्त्मना ॥ 29

5.30

चक्रेणानेन पतता तादात्म्यं परिभावयेत् ।
अनेन क्रमयोगेन यत्र यत्र पतत्यदः ॥ 30

5.31

चक्रं सर्वात्मकं तत्तत्सार्वभौममहीशवत् ।
इत्थं विश्वाध्वपटलमयत्नेनैव लीयते ॥ 31

5.32

भैरवीयमहाचक्रे संवित्तिपरिवारिते ।
ततः संस्कारमात्रेण विश्वस्यापि परिक्षये ॥ 32

5.33

स्वात्मोच्छलत्तया भ्राम्यच्चक्रं संचिन्तयेन्महत् ।
ततस्तद्दाह्यविलयात् तत्संस्कारपरिक्षयात् ॥ 33

5.34

प्रशाम्यद्भावयेच्चक्रं ततः शान्तं ततः शमम् ।
अनेन ध्यानयोगेन विश्वं चक्रे विलीयते ॥ 34

5.35

तत्संविदि ततः संविद्विलीनार्थैव भासते ।
चित्स्वाभाव्यात् ततो भूयः सृष्टिर्यच्चिन्महेश्वरी ॥ 35

5.36

एवं प्रतिक्षणं विश्वं स्वसंविदि विलापयन् ।
विसृजंश्च ततो भूयः शश्वद्भैरवतां व्रजेत् ॥ 36

5.37

एवं त्रिशूलात् प्रभृति चतुष्पञ्चारकक्रमात् ।
पञ्चाशदरपर्यन्तं चक्रं योगी विभावयेत् ॥ 37

5.38

चतुष्षष्टिशतारं वा सहस्रारमथापि वा ।
असंख्यारसहस्रं वा चक्रं ध्यायेदनन्यधीः ॥ 38

5.39

संविन्नाथस्य महतो देवस्योल्लासिसंविदः ।
नैवास्ति काचित्कलना विश्वशक्तेर्महेशितुः ॥ 39

5.40

शक्तयो@स्य जगत् कृत्स्नं शक्तिमांस्तु महेश्वरः ।
इति माङ्गलशास्त्रे तु श्रीश्रीकण्ठो न्यरूपयत् ॥ 40

5.41

इत्येतत् प्रथमोपायरूपं ध्यानं न्यरूपयत् ।
श्रीशंभुनाथो मे तुष्टस्तस्मै श्रीसुमतिप्रभुः ॥ 41

5.42

अनयैव दिशान्यानि ध्यानान्यपि समाश्रयेत् ।
अनुत्तरोपायधुरां यान्यायान्ति क्रमं विना ॥ 42

5.43

अथ प्राणस्य या वृत्तिः प्राणनाद्या निरूपिता ।
तदुपायतया ब्रूमो@नुत्तरप्रविकासनम् ॥ 43

5.44

निजानन्दे प्रमात्रंशमात्रे हृदि पुरा स्थितः ।
शून्यतामात्रविश्रान्तेर्निरानन्दं विभावयेत् ॥ 44

5.45

प्राणोदये प्रमेये तु परानन्दं विभावयेत् ।
तत्रानन्तप्रमेयांशपूरणापाननिर्वृतः ॥ 45

5.46

परानन्दगतस्तिष्ठेदपानशशिशोभितः ।
ततो@नन्तस्फुरन्मेयसंघट्टैकान्तनिर्वृतः ॥ 46

5.47

समानभूमिमागत्य ब्रह्मानन्दमयो भवेत् ।
ततो@पि मानमेयौघकलनाग्रासतत्परः ॥ 47

5.48

उदानवह्नौ विश्रान्तो महानन्दं विभावयत् ।
तत्र विश्रान्तिमभ्येत्य शाम्यत्यस्मिन्महार्चिषि ॥ 48

5.49

निरुपाधिर्महाव्याप्तिर्व्यानाख्योपाधिवर्जिता ।
तदा खलु चिदानन्दो यो जडानुपबृंहितः ॥ 49

5.50

नह्यत्र संस्थितिः कापि विभक्ता जडरूपिणः ।
यत्र को@पि व्यवच्छेदो नास्ति यद्विश्वतः स्फुरत् ॥ 50

5.51

यदनाहतसंवित्ति परमामृतबृंहितम् ।
यत्रास्ति भावनादीनां न मुख्या कापि संगतिः ॥ 51

5.52

तदेव जगदानन्दमस्मभ्यं शंभुरूचिवान् ।
तत्र विश्रान्तिराधेया हृदयोच्चारयोगतः ॥ 52

5.53

या तत्र सम्यग्विश्रान्तिः सानुत्तरमयी स्थितिः ।
इत्येतद्धृदयाद्येकस्वभावे@पि स्वधामनि ॥ 53

5.54

षट्प्राणोच्चारजं रूपमथ व्याप्त्या तदुच्यते ।
प्राणदण्डप्रयोगेन पूर्वापरसमीकृतेः ॥ 54

5.55

चतुष्किकाम्बुजालम्बिलम्बिकासौधमाश्रयेत् ।
त्रिशूलभूमिं क्रान्त्वातो नाडित्रितयसङ्गताम् ॥ 55

5.56

इच्छाज्ञानक्रियाशक्तिसमत्वे प्रविशेत् सुधीः ।
एकां विकासिनीं भूयस्त्वसंकोचां विकस्वराम् ॥ 56

5.57

श्रयेद्भ्रूबिन्दुनादान्तशक्तिसोपानमालिकाम् ।
तत्रोर्ध्वकुण्डलीभूमौ स्पन्दनोदरसुन्दरः ॥ 57

5.58

विसर्गस्तत्र विश्राम्येन्मत्स्योदरदशाजुषि ।
रासभी वडवा यद्वत्स्वधामानन्दमन्दिरम् ॥ 58

5.59

विकाससंकोचमयं प्रविश्य हृदि हृष्यति ।
तद्वन्मुहुर्लीनसृष्टभावव्रातसुनिर्भराम् ॥ 59

5.60

श्रयेद्विकाससंकोचरूढभैरवयामलाम् ।
एकीकृतमहामूलशूलवैसर्गिके हृदि ॥ 60

5.61

परस्मिन्नेति विश्रान्तिं सर्वापूरणयोगतः ।
अत्र तत्पूर्णवृत्त्यैव विश्वावेशमयं स्थितम् ॥ 61

5.62

प्रकाशस्यात्मविश्रान्तावहमित्येव दृश्यताम् ।
अनुत्तरविमर्शे प्राग्व्यापारादिविवर्जिते ॥ 62

5.63

चिद्विमर्शपराहंकृत् प्रथमोल्लासिनी स्फुरेत् ।
तत उद्योगसक्तेन स द्वादशकलात्मना ॥ 63

5.64

सूर्येणाभासयेद्भावं पूरयेदथ चर्चयेत् ।
अथेन्दुः षोडशकलो विसर्गग्रासमन्थरः ॥ 64

5.65

संजीवन्यमृतं बोधवह्नौ विसृजति स्फुरन् ।
इच्छाज्ञानक्रियाशक्तिसूक्ष्मरन्ध्रस्रुगग्रगम् ॥ 65

5.66

तदेवम[तद]मृतं दिव्यं संविद्देवीषु तर्पकम् ।
विसर्गामृतमेतावद् बोधाख्ये हुतभोजिनि ॥ 66

5.67

विसृष्टं चेद्भवेत्सर्वं हुतं षोढाध्वमण्डलम् ।
यतो@नुत्तरनाथस्य विसर्गः कुलनायिका ।
तत्क्षोभः कादिहान्तं तत्प्रसरस्तत्त्वपद्धतिः ॥ 67

5.68

अंअ इति कुलेश्वर्या सहितो हि कुलेशिता ।
परो विसर्गविश्लेषस्तन्मयं विश्वमुच्यते ॥ 68

5.69

वित्प्राणगुणदेहान्तर्बहिर्द्रव्यमयीमिमाम् ।
अर्चयेज्जुहुयाद्ध्यायेदित्थं संजीवनीं कलाम् ॥ 69

5.70

आनन्दनाडीयुगलस्पन्दनावहितौ स्थितः ।
एनां विसर्गनिःष्यन्दसौधभूमिं प्रपद्यते ॥ 70

5.71

शाक्ते क्षोभे कुलावेशे सर्वनाड्यग्रगोचरे ।
व्याप्तौ सर्वात्मसंकोचे हृदयं प्रविशेत्सुधीः ॥ 71

5.72

सोमसूर्यकलाजालपरस्परनिघर्षतः ।
अग्नीषोमात्मके धाम्नि विसर्गानन्द उन्मिषेत् ॥ 72

5.73

अलं रहस्यकथया गुप्तमेतत्स्वभावतः ।
योगिनीहृदयं तत्र विश्रान्तः स्यात्कृती बुधः ॥ 73

5.74

हानादानतिरस्कारवृत्तौ रूढिमुपागतः ।
अभेदवृत्तितः पश्येद्विश्वं चितिचमत्कृतेः ॥ 74

5.75

अर्थक्रियार्थितादैन्यं त्यक्त्वा बाह्यान्तरात्मनि ।
खरूपे निर्वृतिं प्राप्य फुल्लां नाददशां श्रयेत् ॥ 75

5.76

वक्त्रमन्तस्तया सम्यक् संविदः प्रविकासयेत् ।
संविदक्षमरुच्चक्रं ज्ञेयाभिन्नं ततो भवेत् ॥ 76

5.77

तज्ज्ञेयं संविदाख्येन वह्निना प्रविलीयते ।
विलीनं तत् त्रिकोणे@स्मिञ्शक्तिवह्नौ विलीयते ॥ 77

5.78

तत्र संवेदनोदारबिन्दुसत्तासुनिर्वृतः ।
संहारबीजविश्रान्तो योगी परमयो भवेत् ॥ 78

5.79

अन्तर्बाह्ये द्वये वापि सामान्येतरसुन्दरः ।
संवित्स्पन्दस्त्रिशक्त्यात्मा संकोचप्रविकासवान् ॥ 79

5.80

असंकोचविकासो@पि तदाभासनतस्तथा ।
अन्तर्लक्ष्यो बहिर्दृष्टिः परमं पदमश्नुते ॥ 80

5.81

ततः स्वातन्त्र्यनिर्मेये विचित्रार्थक्रियाकृति ।
विमर्शनं विशेषाख्यः स्पन्द औन्मुख्यसंज्ञितः ॥ 81

5.82

तत्र विश्रान्तिमागच्छेद्यद्वीर्यं मन्त्रमण्डले ।
शान्त्यादिसिद्धयस्तत्तद्रूपतादात्म्यतो यतः ॥ 82

5.83

दिव्यो यश्चाक्षसंघो@यं बोधस्वातन्त्र्यसंज्ञकः ।
सो@निमीलित एवैतत् कुर्यात्स्वात्ममयं जगत् ॥ 83

5.84

महासाहससंयोगविलीनाखिलवृत्तिकः ।
पुञ्जीभूते स्वरश्म्योघे निर्भरीभूय तिष्ठति ॥ 84

5.85

अकिचिच्चिन्तकस्तत्र स्पष्टदृग्याति संविदम् ।
यद्विस्फुलिङ्गाः संसारभस्मदाहैकहेतवः ॥ 85

5.86

तदुक्तं परमेशेन त्रिशिरोभैरवागमे ।
शृणु देवि प्रवक्ष्यामि मन्त्रभूम्यां प्रवेशनम् ॥ 86

5.87

मध्यनाड्योर्ध्वगमनं तद्धर्मप्राप्तिलक्षणम् ।
विसर्गान्तपदातीतं प्रान्तकोटिनिरूपितम् ॥ 87

5.88

अधःप्रवाहसंरोधादूर्ध्वक्षेपविवर्जनात् ।
महाप्रकाशमुदयज्ञानव्यक्तिप्रदायकम् ॥ 88

5.89

अनुभूय परे धाम्नि मात्रावृत्त्या पुरं विशेत् ।
निस्तरङ्गावतीर्णा सा वृत्तिरेका शिवात्मिका ॥ 89

5.90

चतुष्षड्द्विर्द्विगुणितचक्रषट्कसमुज्ज्वला ।
तत्स्थं [त्स्थो] विचारयेत् खं खं खस्थं खस्थेन संविशेत् ॥ 90

5.91

खं खं त्यक्त्वा खमारुह्य खस्थं खं चोच्चरेदिति ।
खमध्यास्याधिकारेण पदस्थाश्चिन्मरीचयः ॥ 91

5.92

भावयेद्भावमन्तःस्थं भावस्थो भावनिःस्पृहः ।
भावाभावगती रुद्ध्वा भावाभावावरोधदृक् ॥ 92

5.93

आत्माणुकुलमूलानि शक्तिर्भूतिश्चिती रतिः ।
शक्तित्रयं द्रष्टृदृश्योपरक्तं तद्विवर्जितम् ॥ 93

5.94

एतत्खं दशधा प्रोक्तमुच्चारोच्चारलक्षणम् ।
धामस्थं धाममध्यस्थं धामोदरपुटीकृतम् ॥ 94

5.95

धाम्ना तु बोधयेद्धाम धाम धामान्तगं कुरु ।
तद्धाम धामगत्या तु भेद्यं धामान्तमान्तरम् ॥ 95

5.96

भेदोपभेदभेदेन भेदः कार्यस्तु मध्यतः ।
इति प्रवेशोपायो@यमाणवः परिकीर्तितः ॥ 96

5.97

श्रीमहेश्वरनाथेन यो हृत्स्थेन ममोदितः ।
श्रीब्रह्मयामले चोक्तं श्रीमान् रावो दशात्मकः ॥ 97

5.98

स्थूलः सूक्ष्मः परो हृद्यः कण्ठ्यस्तालव्य एव च ।
सर्वतश्च विभुर्यो@सौ विभुत्वपददायकः ॥ 98

5.99

जितरावो महायोगी संक्रामेत्परदेहगः ।
परां च विन्दति व्याप्तिं प्रत्यहं ह्यभ्यसेत तम् ॥ 99

5.100

तावद्यावदरावे सा रावाल्लीयेत राविणी ।
अत्र भावनया देहगतोपायैः परे पथि ॥ 100

5.101

विविक्षोः पूर्णतास्पर्शात्प्रागानन्दः प्रजायते ।
ततो@पि विद्युदापातसदृशे देहवर्जिते ॥ 101

5.102

धाम्नि क्षणं समावेशादुद्भवः प्रस्फुटं प्लुतिः ।
जलपांसुवदभ्यस्तसंविद्देहैक्यहानितः ॥ 102

5.103

स्वबलाक्रमणाद्देहशैथिल्यात् कम्पमाप्नुयात् ।
गलिते देहतादात्म्यनिश्चये@न्तर्भुखत्वतः ॥ 103

5.104

निद्रायते पुरा यावन्न रूढः संविदात्मनि ।
ततः सत्यपदे रूढो विश्वात्मत्वेन संविदम् ॥ 104

5.105

संविदन् घूर्णते घूर्णिर्महाव्याप्तिर्यतः स्मृता ।
आत्मन्यनात्माभिमतौ सत्यामेव ह्यनात्मनि ॥ 105

5.106

आत्माभिमानो देहादौ बन्धो मुक्तिस्तु तल्लयः ।
आदावनात्मन्यात्मत्वे लीने लब्धे निजात्मनि ॥ 106

5.107

आत्मन्यनात्मतानाशे महाव्याप्तिः प्रवर्तते ।
आनन्द उद्भवः कम्पो निन्द्रा घूर्णिश्च पञ्चकम् ॥ 107

5.108

इत्युक्तमत एव श्रीमालिनीविजयोत्तरे ।
प्रदर्शिते@स्मिन्नानन्दप्रभृतौ पञ्चके यदा ॥ 108

5.109

योगी विशेत्तदा तत्तच्चक्रेशत्वं हठाद्व्रजेत् ।
यथा सर्वेशिना बोधेनाक्रान्तापि तनुः क्वचित् ॥ 109

5.110

किंचित्कर्तुं प्रभवति चक्षुषा रूपसंविदम् ।
तथैव चक्रे कुत्रापि प्रवेशात्को@पि संभवेत् ॥ 110

5.111

आनन्दचक्रं वह्न्यश्रि कन्द उद्भव उच्यते ।
कम्पो हृत्तालु निद्रा च घूर्णिः स्यादूर्ध्वकुण्डली ॥ 111

5.112

एतच्च स्फुटमेवोक्तं श्रीमन्त्रैशिरसे मते ।
एवं प्रदर्शितोच्चारविश्रान्तिहृदयं परम् ॥ 112

5.113

यत्तदव्यक्तलिङ्गं नृशिवशक्त्यविभागवत् ।
अत्र विश्वमिदं लीनमत्रान्तःस्थं च गम्यते ॥ 113

5.114

इदं तल्लक्षणं पूर्णशक्तिभैरवसंविदः ।
देहगाध्वसमुन्मेषे समावेशस्तु यः स्फुटः ॥ 114

5.115

अहन्ताच्छादितोन्मेषिभावेदंभावयुक् स च ।
व्यक्ताव्यक्तमिदं लिङ्गं मन्त्रवीर्यं परापरम् ॥ 115

5.116

नरशक्तिसमुन्मेषि शिवरूपाद्विभेदितम् ।
यन्न्यक्कृतशिवाहन्तासमावेशं विभेदवत् ॥ 116

5.117

विशेषस्पन्दरूपं तद् व्यक्तं लिङ्गं चिदात्मकम् ।
व्यक्तात्सिद्धिप्रसवो व्यक्ताव्यक्ताद्द्वयं विमोक्षश्च ।
अव्यक्ताद्बलमाद्यं परस्य नानुत्तरे त्वियं चर्चा ॥ 117

5.118

आत्माख्यं यद्व्यक्तं नरलिङ्गं तत्र विश्वमर्पयतः ।
व्यक्ताव्यक्तं तस्माद्गलिते तस्मिंस्तदव्यक्तम् ॥ 118

5.119

तेनात्मलिङ्गमेतत् परमे शिवशक्त्यणुस्वभावमये ।
अव्यक्ते विश्राम्यति नानुत्तरधामगा त्वियं चर्चा ॥ 119

5.120

एकस्य स्पन्दनस्यैषा त्रैधं भेदव्यवस्थितिः ।
अत्र लिङ्गे सदा तिष्ठेत् पूजाविश्रान्तितत्परः ॥ 120

5.121

योगिनीहृदयं लिङ्गमिदमानन्दसुन्दरम् ।
बीजयोनिसमापत्त्या सूते कामपि संविदम् ॥ 121

5.122

अत्र प्रयासविरहात्सर्वो@सौ देवतागणः ।
आनन्दपूर्णे धाम्न्यास्ते नित्योदितचिदात्मकः ॥ 122

5.123

अत्र भैरवनाथस्य ससंकोचविकासिका ।
भासते दुर्घटा शक्तिरसंकोचविकासिनः ॥ 123

5.124

एतल्लिङ्गसमापत्तिविसर्गानन्दधारया ।
सिक्तं तदेव सद्विश्वं शश्वन्नवनवायते ॥ 124

5.125

अनुत्तरे@भ्युपायो@त्र ताद्रूप्यादेव वर्णितः ।
ज्वलितेष्वपि दीपेषु घर्मांशुः किं न भासते ॥ 125

5.126

अर्थेषु तद्भोगविधौ तदुत्थे दुःखे सुखे वा गलिताभिशङ्कम् ।
अनाविशन्तो@पि निमग्नचित्ता जानन्ति वृत्तिक्षयसौख्यमन्तः ॥ 126

5.127

सत्येवात्मनि चित्स्वभावमहसि स्वान्ते तथोपक्तियां तस्मै कुर्वति तत्प्रचारविवशे सत्यक्षवर्गे@पि च ।
सत्स्वर्थेषु सुखादिषु स्फुटतरं यद्भेदवन्ध्योदयं योगी तिष्ठति पूर्णरश्मिविभवस्तत्तत्त्वमाचीयताम् ॥ 127

5.128

इत्युच्चारविधिः प्रोक्तः करणं प्रविविच्यते ।
तच्चेत्थं त्रिशिरःशास्त्रे परमेशेन भाषितम् ॥ 128

5.129

ग्राह्यग्राहकचिद्व्याप्तित्यागाक्षेपनिवेशनैः ।
करणं सप्तधा प्राहुरभ्यासं बोधपूर्वकम् ॥ 129

5.130

तद्व्याप्तिपूर्वमाक्षेपे करणं स्वप्रतिष्ठता ।
गुरुवक्त्राच्च बोद्धव्यं करणं यद्यपि स्फुटम् ॥ 130

5.131

तथाप्यागमरक्षार्थं तदग्रे वर्णयिष्यते ।
उक्तो य एष उच्चारस्तत्र यो@सौ स्फुरन् स्थितः ॥ 131

5.132

अव्यक्तानुकृतिप्रायो ध्वनिर्वर्णः स कथ्यते ।
सृष्टिसंहारबीजं च तस्य मुख्यं वपुर्विदुः ॥ 132

5.133

तदभ्यासवशाद्याति क्रमाद्योगी चिदात्मताम् ।
तथा ह्यनच्के साच्के वा कादौ सान्ते पुनःपुनः ॥ 133

5.134

स्मृते प्रोच्चारिते वापि सा सा संवित्प्रसूयाते ।
बाह्यार्थसमयापेक्षा घटाद्या ध्वनयो@पि ये ॥ 134

5.135

ते@प्यर्थभावनां कुर्युर्मनोराज्यवदात्मनि ।
तदुक्तं परमेशेन भैरवो व्यापको@खिले ॥ 135

5.136

इति भैरवशब्दस्य संततोच्चारणाच्छिवः ।
श्रीमत्त्रैशिरसे@प्युक्तं मन्त्रोद्धारस्य पूर्वतः ॥ 136

5.137

स्मृतिश्च स्मरणं पूर्वं सर्वभावेषु वस्तुतः ।
मन्त्रस्वरूपं तद्भाव्यस्वरूपापत्तियोजकम् ॥ 137

5.138

स्मृतिः स्वरूपजनिका सर्वभावेषु रञ्जिका ।
अनेकाकाररूपेण सर्वत्रावस्थितेन तु ॥ 138

5.139

स्वस्वभावस्य संप्राप्तिः संवित्तिः परमार्थतः ।
व्यक्तिनिष्ठा ततो विद्धि सत्ता सा कीर्तिता परा ॥ 139

5.140

किं पुनः समयापेक्षां विना ये बीजपिण्डकाः ।
संविदं स्पन्दपन्त्येते नेयुः संविदुपायताम् ॥ 140

5.141

वाच्याभावादुदासीनसंवित्स्पन्दात्स्वधामतः ।
प्राणोल्लासनिरोधाभ्यां बीजपिण्डेषु पूर्णता ॥ 141

5.142

सुखसीत्कारसत्सम्यक्साम्यप्रथमसंविदः ।
संवेदनं हि प्रथमं स्पर्शो@नुत्तरसंविदः ॥ 142

5.143

हृत्कण्ठ्योष्ठ्यत्रिधामान्तर्नितरां प्रविकासिनि ।
चतुर्दशः प्रवेशो य एकीकृततदात्मकः ॥ 143

5.144

ततो विसर्गोच्चारांशे द्वादशान्तपथावुभौ ।
हृदयेन सहैकध्यं नयते जपतत्परः ॥ 144

5.145

कन्दहृत्कण्ठताल्वग्रकौण्डिलीप्रक्रियान्ततः ।
आनन्दमध्यनाड्यन्तः स्पन्दनं बीजमावहेत् ॥ 145

5.146

संहारबीजं खं हृत्स्थमोष्ठ्यं फुल्लं स्वमूर्धनि ।
तेजस्त्र्यश्रं तालुकण्ठे बिन्दुरूर्ध्वपदे स्थितः ॥ 146

5.147

इत्येनया बुधो युक्त्या वर्णजप्यपरायणः ।
अनुत्तरं परं धाम प्रविशेदचिरात् सुधीः ॥ 147

5.148

वर्णशब्देन नीलादि यद्वा दीक्षोत्तरे यथा ।
संहारन्रग्निमरुतो रुद्रबिन्दुयुतान्स्मरेत् ॥ 148

5.149

हृदये तन्मयो लक्ष्यं पश्येत्सप्तदिनादथ ।
विस्फुलिङ्गाग्निवन्नीलपीतरक्तादिचित्रितम् ॥ 149

5.150

जाज्वलीति हृदम्भोजे बीजदीपप्रबोधितम् ।
दीपवज्ज्वलितो बिन्दुर्भासते विघनार्कवत् ॥ 150

5.151

स्वयंभासात्मनानेन तादात्म्यं यात्यनन्यधीः ।
शिवेन हेमतां यद्वत्ताम्रं सूतेन वेधितम् ॥ 151

5.152

उपलक्षणमेतच्च सर्वमन्त्रेषु लक्षयेत् ।
यद्यत्संकल्पसंभूतं वर्णजालं हि भौतिकम् ॥ 152

5.153

तत् संविदाधिक्यवशादभौतिकमिव स्थितम् ।
अतस्तथाविधे रूपे रूढो रोहति संविदि ॥ 153

5.154

अनाच्छादितरूपायामनुपाधौ प्रसन्नधीः ।
नीले पीते सुखे दुःखे संविद्रूपमखण्डितम् ॥ 154

5.155

गुरुभिर्भाषितं तस्मादुपायेषु विचित्रता ।
उच्चारकरणध्यानवर्णैरेभिः प्रदर्शितः ॥ 155

5.156

अनुत्तरपदप्राप्तावभ्युपायविधिक्रमः ।
अकिंचिच्चिन्तनं वीर्यं भावनायां च सा पुनः ॥ 156

5.157

ध्याने तदपि चोच्चारे करणे सो@पि तद्ध्वनौ ।
स स्थानकल्पने बाह्यमिति क्रममुपाश्रयेत् ॥ 157

5.158

लङ्घनेन परो योगी मन्दबुद्धिः क्रमेण तु ।
वीर्यं विना यथा षण्ठस्तस्याप्यस्त्यथ वा बलम् ।
मृतदेह इवेयं स्याद्बाह्यान्तःपरिकल्पना ॥ 158

5.159

इत्याणवे@नुत्तरताभ्युपायः प्रोक्तो नयः स्पष्टपथेन बाह्यः ॥ 159अ

मूल पाठ: Tantrāloka · Edition: The Tantraloka of Abhinavagupta With commentary of Rajanaka Jayaratha, Kashmir Series of Texts and Studies, No. 23, 28, 30, 36, 35, 29, 41, 47, 59, 52, 57, 58 (1918-1938) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc