भाषा

ENहिગુ
ग्रंथ पाठ

तन्त्रालोक · अध्याय 21

21.1

परोक्षसंस्थितस्याथ दीक्षाकर्म निगद्यते ॥ 1

21.2

भुक्तिमुक्तिप्रसिद्ध्यर्थं नीयते सद्गुरुं प्रति ।
इत्यस्मिन्मालिनीवाक्ये प्रतिः सांमुख्यावाचकः ॥ 2

21.3

सांमुख्यं चास्य शिष्यस्य तत्कृपास्पदतात्मकम् ।
तमाराध्येति वचनं कृपाहेतूपलक्षणम् ॥ 3

21.4

तत्संबन्धात्ततः कश्चित्तत्क्षणादपवृज्यते ।
इत्यस्यायमपि ह्यर्थो मालिनीवाक्यसन्मणेः ॥ 4

21.5

तत्क्षणादिति नास्यास्ति यियासादिक्षणान्तरम् ।
किंत्वेवमेव करुणानिघ्नस्तं गुरुरुद्धरेत् ॥ 5

21.6

गुरुसेवाक्षीणतनोर्दीक्षामप्राप्य पञ्चताम् ।
गतस्याथ स्वयं मृत्युक्षणोदिततथारुचेः ॥ 6

21.7

अथवाधरतन्त्रादिदीक्षासंस्कारभागिनः ।
प्राप्तसामयिकस्याथ परां दीक्षामविन्दतः ॥ 7

21.8

डिम्बाहतस्य योगेशीभक्षितस्याभिचारतः ।
मृतस्य गुरुणा यन्त्रतन्त्रादिनिहतस्य वा ॥ 8

21.9

भ्रष्टस्वसमयस्याथ दीक्षां प्राप्तवतो@प्यलम् ।
बन्धुभार्यासुहृत्पुत्रगाढाभ्यर्थनयोगतः ॥ 9

21.10

स्वयं तद्विषयोत्पन्नकरुणाबलतो@पि वा ।
विज्ञाततन्मुखायातशक्तिपातांशधर्मणः ॥ 10

21.11

गुरुर्दीक्षां मृतोद्धारीं कुर्वीत शिवदायिनीम् ।
श्रीमृत्युञ्जयसिद्धादौ तदुक्तं परमेशिना ॥ 11

21.12

अदीक्षिते नृपत्यादावलसे पतिते मृते ।
बालातुरस्त्रीवृद्धे च मृतोद्धारं प्रकल्पयेत् ॥ 12

21.13

विधिः सर्वः पूर्वमुक्तः स तु संक्षिप्त इष्यते ।
गुर्वादिपूजारहितो बाह्ये भोगाय सा यतः ॥ 13

21.14

अधिवासचरुक्षेत्रं शय्यामण्डलकल्पने ।
नोपयोग्यत्र तच्छिष्यसंस्क्रियास्वप्नदृष्टये ॥ 14

21.15

मन्त्रसंनिधिसंतृप्तियोगायात्र तु मण्डलम् ।
भूयोदिने च देवार्चा साक्षान्नास्योपकारि तत् ॥ 15

21.16

क्रियोपकरणस्थानमण्डलाकृतिमन्त्रतः ।
ध्यानयोगैकतद्भक्तिज्ञानतन्मयभावतः ॥ 16

21.17

तत्प्रविष्टस्य कस्यापि शिष्याणां च गुरोस्तथा ।
एकादशैते कथिताः संनिधानाय हेतवः ॥ 17

21.18

उत्तरोत्तरमुत्कृष्टास्तथा व्यामिश्रणावशात् ।
क्रियातिभूयसी पुष्पाद्युत्तमं लक्षणान्वितम् ॥ 18

21.19

एकलिङ्गादि च स्थानं यत्रात्मा संप्रसीदति ।
मण्डलं त्रित्रिशूलाब्जचक्रं यन्मन्त्रमण्डले ॥ 19

21.20

अनाहूते@पि दृष्टं सत्समयित्वप्रसाधनम् ।
तदुक्तं मालिनीतन्त्रे सिद्धं समयमण्डलम् ॥ 20

21.21

येन संदृष्टमात्रेति सिद्धमात्रपदद्वयात् ।
आकृतिर्दीप्तरूपा या मन्त्रस्तद्वत्सुदीप्तिकः ॥ 21

21.22

शिष्टं स्पष्टमतो नेह कथितं विस्तरात्पुनः ।
कृत्वा मण्डलमभ्यर्च्य तत्र देवं कुशैरथ ॥ 22

21.23

गोमयेनाकृतिं कुर्याच्छिष्यवत्तां निधापयेत् ।
ततस्तस्यां शोध्यमेकमध्वानं व्याप्तिभावनात् ॥ 23

21.24

प्रकृत्यन्तं विनिक्षिप्य पुनरेनं विधिं चरेत् ।
महाजालप्रयोगेण सर्वस्मादध्वमध्यतः ॥ 24

21.25

चित्तमाकृष्य तत्रस्थं कुर्यात्तद्विधिरुच्यते ।
मूलाधारादुदेत्य प्रसृतसुविततानन्तनाड्यध्वदण्डं वीर्येणाक्रम्य नासागगनपरिगतं विक्षिपन् व्याप्तुमीष्टे ।
यावद्धूमाभिरामप्रचिततरशिखाजालकेनाध्वचक्रं संछाद्याभीष्टजीवानयनमिति महाजालनामा प्रयोगः ॥ 25

21.26

एतेनाच्छादनीयं व्रजति परवशं संमुखीनत्वमादौ पञ्चादानीयते चेत्सकलमथ ततो@प्यध्वमध्याद्यथेष्टम् ।
आकृष्टावुद्धृतौ वा मृतजनविषये कर्षणीये@थ जीवे योगः श्रीशंभुनाथागमपरिगमितो जालनामा मयोक्तः ॥ 26

21.27

चिरविघटिते सेनायुग्मेयथामिलिते पुनर्हयगजनरं स्वां स्वां जातिं रसादभिधावति ।
करणपवनैर्नाडीचक्रैस्तथैव समागतैर्निजनिजरसादेकीभाव्यं स्वजालवशीकृतैः ॥ 27

21.28

महाजालसमाकृष्टो जीवो विज्ञानशालिना ।
स्वःप्रेततिर्यङ्निरयांस्तदैवैष विमुञ्चति ॥ 28

21.29

तज्ज्ञानमन्त्रयोगाप्तः पुरुषश्चैष कृत्रिमम् ।
योगीव साध्यहृदयात्तदा तादात्म्यमुज्झति ॥ 29

21.30

स्थावरादिदशाश्चित्रास्तत्सलोकसमीपताः ।
त्यजेच्चेति न चित्रं स एवं यः कर्मणापि वा ॥ 30

21.31

अधिकारिशरीरत्वान्मानुष्ये तु शरीरगः ।
न तदा मुच्यते देहाद्देहान्ते तु शिवं व्रजेत् ॥ 31

21.32

तस्मिन्देहे तु काप्यस्य जायते शाङ्करी परा ।
भक्तिरूहाच्च विज्ञानादाचार्याद्वाप्यसेवितात् ॥ 32

21.33

तद्देहसंस्थितो@प्येष जीवो जालबलादिमम् ।
दार्भादिदेहं व्याप्नोति स्वाधिष्ठित्याप्यचेतयन् ॥ 33

21.34

योगमन्त्रक्रियाज्ञानभूयोबलवशात्पुनः ।
मनुष्यदेहमप्येष तदैवाशु विमुञ्चति ॥ 34

21.35

सुप्तकल्पो@प्यदेहो@पि यो जीवः सो@पि जालतः ।
आकृष्टो दार्भमायाति देहं फलमयं च वा ॥ 35

21.36

जातीफलादि यत्किंचित्तेन वा देहकल्पना ।
अन्तर्बहिर्द्वयौचित्यात्तदत्रोत्कृष्टमुच्यते ॥ 36

21.37

ततो जालक्रमानीतः स जीवः सुप्तवत्स्थितः ।
मनोविशिष्टदेहादिसामग्रीप्राप्त्यभावतः ॥ 37

21.38

न स्पन्दते न जानाति न वक्ति न किलेच्छति ।
तादृशस्यैव संस्कारान् सर्वान् प्राग्वत्प्रकल्पयेत् ॥ 38

21.39

निर्बीजदीक्षायोगेन सर्वं कृत्वा पुरोदितम् ।
विधिं योजनिकां पूर्णाहुत्या साकं क्षिपेच्च तम् ॥ 39

21.40

दार्भादिदेहे मन्त्राग्नावर्पिते पूर्णया सह ।
मुक्तपाशः शिवं याति पुनरावृत्तिवर्जितः ॥ 40

21.41

सप्रत्यया त्वियं यत्र स्पन्दते दर्भजा तनुः ।
तत्र प्राणमनोमन्त्रार्पणयोगात्तथा भवेत् ॥ 41

21.42

साभ्यासस्य तदप्युक्तं बलाश्वासि न तत्कृते ।
मृतोद्धारोदितैरेव यथासंभूति हेतुभिः ॥ 42

21.43

जीवत्परोक्षदीक्षापि कार्या निर्बीजिका तु सा ।
तस्यां दर्भाकृतिप्रायकल्पने जालयोगतः ॥ 43

21.44

संकल्पमात्रेणाकर्षो जीवस्य मृतिभीतितः ।
शिष्टं प्राग्वत्कुशाद्युत्थाकारविप्लोषवर्जितम् ॥ 44

21.45

पारिमित्यादनैश्वर्यात्साध्ये नियतियन्त्रणात् ।
जालाकृष्टिर्विनाभ्यासं रागद्वेषान्न जायते ॥ 45

21.46

परोक्ष एवातुल्याभिर्दीक्षाभिर्यदि दीक्षितः ।
तत्रोत्तरं स्याद्बलवत्संस्काराय त्वधस्तनम् ॥ 46

21.47

भुक्तियोजनिकायां तु भूयोभिर्गुरुभिस्तथा ।
कृतायां भोगवैचित्र्यं हेतुवैचित्र्ययोगतः ॥ 47

21.48

परोक्षदीक्षणे मायोत्तीर्णे भोगाय योजयेत् ।
भोगानीप्सा दुर्लभा हि सती वा भोगहानये ॥ 48

21.49

उक्तं हि स्वान्यसंवित्त्योः स्वसंविद्बलवत्तरा ।
बाधकत्वे बाधिकासौ साम्यौदासीन्ययोस्तथा ॥ 49

21.50

श्रीमान् धर्मशिवो@प्याह पारोक्ष्यां कर्मपद्धतौ ।
परोक्षदीक्षणे सम्यक् पूर्णाहुतिविधौ यदि ॥ 50

21.51

अग्निश्चिटिचिटाशब्दं सधूमं प्रतिमुञ्चति ।
धत्ते नीलाम्बुदच्छायां मुहुर्ज्वलति शाम्यति ॥ 51

21.52

विस्तरो घोररूपश्च महीं धावति चाप्यधः ।
ध्वांक्षाद्यश्रव्यशब्दो वा तदा तं लक्षयेद्गुरुः ॥ 52

21.53

ब्रह्महत्यादिभिः पापैस्तत्सङ्गैश्चोपपातकैः ।
तदा तस्य न कर्तव्या दीक्षास्मिन्नकृते विधौ ॥ 53

21.54

नवात्मा फट्पुटान्तःस्थः पुनः पञ्चफडन्वितः ।
अमुकस्येति पापानि दहाम्यनु फडष्टकम् ॥ 54

21.55

इति साहस्रिको होमः कर्तव्यस्तिलतण्डुलैः ।
अन्ते पूर्णा च दातव्या ततो@स्मै दीक्षया गुरुः ॥ 55

21.56

परयोजनपर्यन्तं कुर्यात्तत्त्वविशोधनम् ।
प्रत्यक्षे@पि स्थितस्याणोः पापिनो भगवन्मयीम् ॥ 56

21.57

शक्तिं प्राप्तवतो ज्येष्ठामेवमेव विधिं चरेत् ।
यदि वा दैशिकः सम्यङ् न दीप्तस्तस्य तत्पुरा ॥ 57

21.58

प्रायश्चित्तैस्तथा दानैः प्राणायामैश्च शोधनम् ।
कृत्वा विधिमिमां चापि दीक्षां कुर्यादशङ्कितः ॥ 58

21.59

सर्वथा वर्तमानो@पि तत्त्वविन्मोचयेत्पशून् ।
इच्छयैव शिवः साक्षात्तस्मात्तं पूजयेत्सदा ॥ 59

21.60

शाठ्यं तत्र न कार्यं च तत्कृत्वाधो व्रजेच्छिशुः ।
न पुनः कीर्तयेत्तस्य पापं कीर्तयिता व्रजेत् ॥ 60

21.61

निरयं वर्जयेत्तस्मादिति दीक्षोत्तरे विधिः ।
एषा परोक्षदीक्षा द्विधोदिता जीवदितरभेदेन ॥ 61

मूल पाठ: Tantrāloka · Edition: The Tantraloka of Abhinavagupta With commentary of Rajanaka Jayaratha, Kashmir Series of Texts and Studies, No. 23, 28, 30, 36, 35, 29, 41, 47, 59, 52, 57, 58 (1918-1938) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc