भाषा

ENहिગુ
ग्रंथ पाठ

श्वेताश्वतरोपनिषद् (अन्य संस्करण) · अध्याय 6

6.1

स्वभावम् एके कवयो वदन्ति कालं तथान्ये परिमुह्यमानाः
देवस्यैष महिमा तु लोके येनेदं भ्राम्यते ब्रह्म-चक्रम् ॥

6.2

येनावृतं नित्यम् इदं हि सर्वं ज्ञः काल-कालो गुणी सर्व-विद् यः
तेनेशितं कर्म विवर्तते ह पृथिव्य्-अप्-तेजो ऽनिल-खानि चिन्त्यम् ॥

6.3

तत् कर्म कृत्वा विनिवर्त्य भूयस् तत्त्वस्य तत्त्वेन समेत्य योगम्
एकेन द्वाभ्यां त्रिभिर् अष्टभिर् वा कालेन चैवात्म-गुणैश् च सूक्ष्मैः ॥

6.4

आरभ्य कर्माणि गुणान्वितानि भावांश् च सर्वान् विनियोजयेद् यः
तेषाम् अभावे कृत-कर्म-नाशः कर्म-क्षये याति स तत्त्वतो ऽन्यः ॥

6.5

आदिः स संयोग-निमित्त-हेतुः परस् त्रिकालाद् अकलो ऽपि दृष्टः
तं विश्व-रूपं भव-भूतम् ईड्यं देवं स्व-चित्त-स्थम् उपास्य पूर्वम् ॥

6.6

स वृक्ष-कालाकृतिभिः परो ऽन्यो यस्मात् प्रपञ्चः परिवर्तते ऽयम्
धर्मावहं पाप-नुदं भगेशं ज्ञात्वात्म-स्थम् अमृतं विश्व-धाम ॥

6.7

तम् ईश्वराणां परमं महेश्वरं तं देवतानां परमं च दैवतम्
पतिं पतीनां परमं परस्ताद् विदाम देवं भुवनेशम् ईड्यम् ॥

6.8

न तस्य कार्यं करणं च विद्यते न तत्-समश् चाभ्यधिकश् च दृश्यते
परास्य शक्तिर् विविधैव श्रूयते स्वाभाविकी ज्ञान-बल-क्रिया च ॥

6.9

न तस्य कश्चित् पतिर् अस्ति लोके न चेशिता नैव च तस्य लिङ्गम्
स कारणं करणाधिपाधिपो न चास्य कश्चिज् जनिता न चाधिपः ॥

6.10

यस् तन्तु-नाभ इव तन्तुभिः प्रधानजैः स्वभावतः
देव एकः स्वम् आवृणोति स नो दधातु ब्रह्माप्ययम् ॥

6.11

एको देवः सर्व-भूतेषु गूढः सर्व-व्यापी सर्व-भूतान्तरात्मा
कर्माध्यक्षः सर्व-भूताधिवासः साक्षी चेता केवलो निर्गुणश् च ॥

6.12

एको वशी निष्क्रियाणां बहूनाम् एकं बीजं बहुधा यः करोति
तम् आत्म-स्थं ये ऽनुपश्यन्ति धीरास् तेषां सुखं शाश्वतं नेतरेषाम् ॥

6.13

नित्यो नित्यानां चेतनश् चेतनानाम् एको बहूनां यो विदधाति कामान्
तत् कारणं साङ्ख्य-योगाधिगम्यं ज्ञात्वा देवं मुच्यते सर्व-पाशैः ॥

6.14

न तत्र सूर्यो भाति न चन्द्र-तारकं नेमा विद्युतो भान्ति कुतो ऽयम् अग्निः
तम् एव भान्तम् अनुभाति सर्वं तस्य भासा सर्वम् इदं विभाति ॥

6.15

एको हंसो भुवनस्यास्य मध्ये स एवाग्निः सलिले संनिविष्टः
तम् एव विदित्वातिमृत्युम् एति नान्यः पन्था विद्यते ऽयनाय ॥

6.16

स विश्व-कृद् विश्व-विद् आत्म-योनिर् ज्ञः काल-कालो गुणी सर्व-विद् यः
प्रधान-क्षेत्र-ज्ञ-पतिर् गुणेशः संसार-मोक्ष-स्थिति-बन्ध-हेतुः ॥

6.17

स तन्-मयो ह्य् अमृत ईश-संस्थो ज्ञः सर्वगो भुवनस्यास्य गोप्ता
य ईशे ऽस्य जगतो नित्यम् एव नान्यो हेतुर् विद्यत ईशनाय ॥

6.18

यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश् च प्रहिणोति तस्मै
तं ह देवं आत्म-बुद्धि-प्रकाशं मुमुक्षुर् वै शरणम् अहं प्रपद्ये ॥

6.19

निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्
अमृतस्य परं सेतुं दग्धेन्दनम् इवानलम् ॥

6.20

यदा चर्मवद् आकाशं वेष्टयिष्यन्ति मानवाः
तदा देवम् अविज्ञाय दुःखस्यान्तो भविष्यति ॥

6.21

तपः-प्रभावाद् देव-प्रसादाच् च ब्रह्म ह श्वेताश्वतरो ऽथ विद्वान्
अत्याश्रमिभ्यः परमं पवित्रं प्रोवाच सम्यग्-ऋषि-सङ्घ-जुष्टम् ॥

6.22

वेदान्ते परमं गुह्यं पुरा-कल्पे प्रचोदितम्
नाप्रशान्ताय दातव्यं नापुत्रायाशिष्याय वा पुनः ॥

6.23

यस्य देवे परा भक्तिः यथा देवे तथा गुरौ
तस्यैते कथिता ह्य् अर्थाः प्रकाशन्ते महात्मनः ॥

मूल पाठ: Śvetāśvataropaniṣad · Edition: two editions: 1. Isadi nau upanisad. Ed. by Harikrsnadas Goendaka. (Gorakhpur : Gita Press, 2038 samvat), 2. Sri Sri Sruti-ratna-mala. Ed. by Bhakti Sudhakar. (Dhaka : 'Manjusa Printing Works) n.d. · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc